श्रीगणेशपुराणे उपासनाखण्डे एकविंशतितमोऽध्यायः
मन्त्रोपदेश वर्णनं
एतस्मिन्नन्तरे स्वप्नेऽपश्यद् ब्राह्मणमग्रतः ।
दत्तं तवेप्सितं बाल ! मुद्गलेन मया हि तत् ॥ ४ ॥
यत् त्वया याचितं पूर्वं विघ्नेशाद् दृष्टिगोचरात् ।
इत्युक्त्वा प्रस्थिते तस्मिन् ब्राह्मणे नृपसत्तम ॥ ५ ॥
सुप्तोस्थित इव प्रायो दक्षोहृष्टमनाऽभवत् ।
कस्मैचित् परिपप्रच्छ त्वरिताय द्विजातये ॥ ६ ॥
अन्तिकं दर्शितं तेन बहुशिष्योपशोभितम् ।
मुद्गलस्यातिभक्तस्य गजानन रतस्य च ।
आश्रमं परमं दिव्यं सर्वसत्त्वाऽभयप्रदम् ॥ ७ ॥
मुद्गलं मनसा ध्यायन् भ्रमन् यातस्तदाश्रमम् ।
नानाश्चर्ययुतं रम्यमलकानन्दनातिगम् ॥ ८ ॥
ददर्श मुद्गलं तत्र परार्ध्यासनगं द्विजम् ।
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रविशारदम् ॥ ९ ॥
योगाभ्यासबलैर्नानारूपिणं सूर्यतेजसम् ।
वैनायकीं महामूर्तिं रत्नकाञ्चननिर्मिताम् ॥ १० ॥
चतुर्भुजां त्रिनयनां नानालङ्कारशोभिनीम् ।
उपचारैः षोडशभिः पूजयन्तं विधानतः ॥ ११ ॥
ननाम दक्षस्तं दृष्ट्वा दण्डवत् पृथिवीतले ।
मुञ्चन्नश्रूणि नेत्राभ्यां निश्वसँश्च मुहुर्मुहुः ॥ १२ ॥
॥ विश्वामित्र उवाच ॥
पप्रच्छ मुद्गलस्तं तु कस्त्वं कस्मादिहागतः ।
नुदामि दुःखं किं तेऽस्ति वद सर्वमशेषतः ॥ १३ ॥
एवं विप्रवचः श्रुत्वा कमलानन्दनस्तदा ।
सावधानमना भूत्वा जगाद द्विजपुङ्गवम् ॥ १४ ॥
॥ दक्ष उवाच ॥
सत्यमेव वदे ब्रह्मन्नभिप्रायं तवान्तिके ।
कर्णाटदेशे राजाभून्नगरे भानुसंज्ञके ॥ १५ ॥
वल्लभोनाम नीतिज्ञो ज्ञानी दाता दयान्वितः ।
तस्य पत्नी तु कमला जनयामास मां यदा ॥ १६ ॥
तदा दुर्गन्धिक्षतयुक् शोणितस्राविनासिकः ।
अन्धः कुब्जः कर्णहीनः शब्दहीनः श्वसन् बहु ॥ १७ ॥
अभवं नागरा दृष्ट्वा त्यजैनमिति चाब्रुवन् ।
पिता मे द्वादशाब्दानि नानायत्नमथाऽकरोत् ॥ १८ ॥
शरीरपाटवार्थं मे नालभत् तन्महेश्वरात् ।
उपायं स ततो मां च मातरं कमलां च मे ॥ १९ ॥
बहिर्निष्कासयामास निर्दयेऽनान्तरात्मना ।
ततो मे जननी खेदादटमाना पुरं पुरम् ॥ २० ॥
आगत्य कौण्डिन्यपुरं महा सह क्षुधार्दिता ।
भिक्षाटने क्रियमाणे पूर्वपुण्यप्रभावतः ॥ २१ ॥
अभवद् दर्शनं ते वामन्धस्येव यथा दृशिः ।
तव गात्रभवाद् वायोः स्पर्शाद्दोषा गता मम ॥ २२ ॥
रघुनाथाङ्घ्रिसंस्पर्शादहल्याया यथा पुरा ।
दिव्यदेहं समापन्नः प्रसादात्तव सुव्रत ॥ २३ ॥
न मया विदितं किञ्चिज्जनन्या मे निवेदितम् ।
अहं च विस्मितो भूत्वा निश्चयं कृतवान् हृदि ॥ २४ ॥
यदङ्गवायुस्पर्शेन दिव्यदेहमहङ्गतः ।
तद्दर्शनं यदा स्यान्मे तदा देहं धराम्यहम् ॥ २५ ॥
एवं भ्रमन् बहुदिनं ततोऽसौ करुणानिधिः ।
आविरासीन् मत्पुरतः कोटिसूर्यसमप्रभः ॥ २६ ॥
उभयोस्तपसा तुष्टो देवदेवो गजाननः ।
तं दृष्ट्वा कमला कामान् सम्प्राप्ता मनसीप्सितान् ॥ २७ ॥
ततो मामब्रवीद् देवः प्रसन्नो मञ्जुलाङ्गिरम् ।
यदर्थं नियमं कृत्वा भ्रमन् खेदमुपागतः ॥ २८ ॥
सोऽहं ते दर्शनं यातो मुद्गलो ब्राह्मणोत्तमः ।
श्रुत्वा तद्वचनं हृष्टमभवन् मानसं मम ॥ २९ ॥
ततो गजाननमहं स्तुतवान् विविधैः स्तवैः ।
उवाच सुप्रसन्नात्मा वरं वृणु महामते ॥ ३० ॥
अहं चाकथयं तस्मै यद्यन्मे मनसीप्सितम् ।
ततो ब्राह्मणरूपं तत् त्यक्त्वाऽन्यद् रूपमादधे ॥ ३१ ॥
चतुर्भुजं महाकायं मुकुटाटोपमस्तकम् ।
परशुं कमलं मालां मोदकानावहत् करैः ॥ ३२ ॥
दिव्याम्बरधरं भ्राजद्विषाणकरपुष्करम् ।
कुण्डलेप्रावहच्छुत्योः सूर्यबिम्बे इवापरे ॥ ३३ ॥
दिव्यालङ्कारसंयुक्तं भुजङ्गवलयोदरम् ।
देवर्षिगन्धर्वगणैः किन्नरैरूपशोभितम् ॥ ३४ ॥
तत आनन्दपूर्णोऽहं दृष्ट्वा रूपं तथाऽभवम् ।
पूर्णचन्द्रं यथा दृष्ट्वा पूर्णो भवति वारिधिः ।
तनोक्तं मुद्गलः सर्वान् कामाँस्ते परिपूरयेत् ॥ ३५ ॥
तदेवाऽन्तर्हितं रूपं दृष्टं यावन्न सादरम् ।
यथा स्वप्नगतं सर्वं जागरेर्नैव दृश्यते ॥ ३६ ॥
ततोऽहं नितरां खिन्नो न्यपतं भुवि मूर्च्छितः ।
प्रतिलभ्य ततः संज्ञां वरं वृण्विति संस्मरन् ॥ ३७ ॥
ययाचे देवदेवेशं सर्वव्यापिनमीश्वरम् ।
गृहे मे सुस्थिरा लक्ष्मीर्भक्तिर्मे तादृशी तव ॥ ३८ ॥
दृष्टश्चेत् पूर्वपुण्येन द्वयमेतत् प्रदीयताम् ।
ततोऽहं श्रुतवान् दत्तमिति वाचं नभोगताम् ॥ ३९ ॥
ततो हृष्टमना विप्र तव सान्निध्यमागतः ।
मुद्गलस्त्वं द्विपास्योऽसौ द्विपास्यस्त्वं स मुद्गलः ॥ ४० ॥
इति मे मनसि स्पष्टं भाति सर्वं गजाननः ।
॥ भृगुरुवाच ॥
इति तद्वचनं श्रुत्वा मुद्गलो वाक्यमब्रवीत् ॥ ४१ ॥
सभाग्यः कृतकृत्योऽसि भक्तिमान् कमलासुत ।
महिमा तव भक्तेर्हि वक्तुं शक्यो न केनचित् ॥ ४२ ॥
तपामि सुदृढं चाहं दशवर्षशतं तपः ।
न म एतादृशो देवो दृष्ट आसीत् कदाचन ॥ ४३ ॥
यः सर्वजगतां नाथश्चराचरगुरोर्गुरूः ।
यो रजःसत्त्वतमसां नेता नित्यं गुणाश्रयः ॥ ४४ ॥
यो ब्रह्मशिवविष्णूनां शरीराणि करोति हि ।
भूतानां च विभूतीनां मात्रेन्द्रियधियामपि ॥ ४५ ॥
यं न देवा विदुः सम्यक् न वेदा नर्षयोऽपि च ।
एवं गजाननं त्वं हि प्रत्यक्षं दृष्टवान् स्फुटम् ॥ ४६ ॥
अहं त्वच्चरणौ वन्दे यतस्त्वं भक्तिमान् परः ।
ततः परस्परं तौ तु नेमतुश्चालिलिङ्गतुः ॥ ४७ ॥
गुरुबन्धू चिरं कालमेकचित्तौ समागतौ ।
तत एकाक्षरं मन्त्रं सजपध्यानपूर्वकम् ॥ ४८ ॥
मुद्गलो राजपुत्राय नम्रायोपदिदेश ह ।
उवाच चैनं भूयोऽपि मन्त्रस्याऽस्य दिनेदिने ॥ ४९ ॥
अनुष्ठानं कुरुष्व त्वं प्रसन्नस्ते भविष्यति ।
गजाननो ददेत् कामान् मनसा वाच्छिताँस्त्वया ॥ ५० ॥
एनं चेत् त्यजसे मन्त्रं सर्वशो नाशमेष्यसि ।
यद्यस्य भक्तिं सुचिरं लोकेऽस्मिन् विचरिष्यसि ॥ ५१ ॥
इन्द्रादिलोकपालानां गणो वश्यत्वमेष्यति ।
इह भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्स्यसि ॥ ५२ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रोपदेश वर्णनं
नामैकविंशतितमोऽध्यायः ॥ २१ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें