श्रीगणेशपुराणे उपासनाखण्डे एकोनत्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनत्रिंशोऽध्यायः
नारदागमनं

॥ मुनिरुवाच ॥

तस्मिन्वटे समासीनः कस्मिंश्चिद्दिवसे नृपः ।
दूराद्ददर्श देवर्षिं नारदं मुनिपुङ्गवम् ॥ १ ॥
ननाम प्रार्थयामास क्षणं विश्राम्यतामिति ।
उत्ततार नभोमार्गान्नारदः करूणानिधिः ॥ २ ॥


पूजयित्वा यथाशक्ति प्रपच्छ मुनिमादरात् ।
अहं रुक्माङ्गदो नाम भीमपुत्रो महाबलः ॥ ३ ॥
मृगयां व्यचरन् वाचक्नवेराश्रममागतः ।
जलयाच्चा कृता तत्र तृषितेन मयाऽनघ ॥ ४ ॥
तस्य पत्नी भृशं नष्टा कामार्ता मामचुम्बत ।
तस्मिन्मुनौ गते स्नातुं दृष्टभावेन चेतसा ॥ ५ ॥
उवाच मां भजस्वेति कामबाण प्रपीडिता ।
जितेन्द्रियतया देवप्रसादात् सा निराकृता ॥ ६ ॥
अशपद्दुःखिताऽत्यन्तं सा मां निष्ठुरचेतसा ।
कुष्ठी भव महादुष्ट सकामां त्यजसे यतः ॥ ७ ॥
श्रुत्वैवं दुष्टवचनं निर्गतोऽहं तदाश्रमात् ।
श्वेतकुष्ठी तदा जातो वद मे निष्कृतिं मुने ॥ ८ ॥
वियोगान्मम भीमोऽपि मग्नःस्याद् दुःखसागरे ।
॥ ब्रह्मोवाच ॥
श्रुत्वेत्थं वचनं तस्य नारदः प्राह विश्ववित् ॥ ९ ॥
उपायं तस्य कुष्ठस्य नाशाय करुणायुतः ।
॥ नारद उवाच ॥
आगच्छता मया मार्गे दृष्टमाश्चर्यमुत्तमम् ॥ १० ॥
विदर्भे नगरं ख्यातं कदम्बमिति संज्ञया ।
तत्प्रासादे मया दृष्टा मूर्तिर्वैनायकी शुभा ॥ ११ ॥
चिन्तामणिरिति ख्याता सर्वेषां सर्वकामदा ।
तस्याऽग्रतो महाकुण्डं गणेशपदपूर्वकम् ॥ १२ ॥
कश्चिच्छूद्रो महाकुष्ठी जराजर्जरितो नृप ।
तीर्थयात्राप्रसङ्गेन कदम्बपुरमागतः ॥ १३ ॥
गणेशकुण्डे स्नात्वैव दिव्यदेहमवाप सः ।
विनायकस्वरूपैस्तु गणैरानतितम्बरात् ॥ १४ ॥
विमानवरमारूह्य स गतः स्थानमुत्तमम् ।
यत्र गत्वा न शोचन्ति न पतन्ति पुनः क्वचित् ॥ १५ ॥
दृष्टो मयैव राजेन्द्र तत्र स्नानाय साम्प्रतम् ।
स्नात्वा देवं समभ्यर्च चिन्तितार्थप्रदं विभुम् ॥ १६ ॥
देहि दानानि विप्रेभ्यः सद्यः पूतो भविष्यसि ।
जीर्णां त्वचं परित्यज्य सुरूपी भुजगो यथा ॥ १७ ॥
॥ ब्रह्मोवाच ॥
इति वाणीं नारदोक्तां निशम्य नृपसत्तमः ।
न किञ्चिदुक्तवान् वाक्यं मग्न आनन्दसागरे ॥ १८ ॥
गन्तुं समुद्यते तस्मिन्नारदे मुनिपुङ्गवे ।
प्रणिपत्य ततोऽपृच्छत् प्रपूज्य च मुनिं पुनः ॥ १९ ॥
॥ रूक्माङ्गद उवाच ॥
तस्मिन्क्षेत्रे पुरा केन सिद्धिः प्राप्ता शुभाऽनघ ।
मूर्तिश्च स्थापिता केन मणिरत्नमयीं शुभा ॥ २० ॥
वैनायकीति मे शंस परं कौतूहलं मुने ॥ २१ ॥
भवादृशानां साधूनां परोपकरणे मतिः ।
अन्यथा भ्रमणे कृत्यं न लोकेषु प्रदृश्यते ॥ २२ ॥
लोकेषु वर्षते मेघः शेषेण ध्रियते धरा ।
उपकाराय सूर्योऽपि भ्रमतेऽहर्निशं द्विज ॥ २३ ॥
समस्य सर्वभूतेषु सर्वज्ञस्य तवाग्रतः ।
अनभिज्ञेन मूढेन किं वक्तव्यं दयानिधे ।
पृच्छे तथापि देवर्षे संशयच्छेदनाय वै ॥ २४ ॥
॥ नारद उवाच ॥
साधु पृष्टं त्वया भूप लोकानुग्रहकारक ।
तृप्तोऽहं तव वाक्येन सर्वं च कथयामि ते ॥ २५ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे नारदागमनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-29

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...