श्रीगणेशपुराणे उपासनाखण्डे द्वाविंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे द्वाविंशोऽध्यायः
बल्लालविनायक कथनं
॥ राजोवाच ॥
आश्चर्यभूतं कथितं दक्षपुत्रस्य चेष्टितम् ।
विस्मयो मे महाँस्तत्र सञ्जातो मुनिसत्तम ॥ १ ॥
अन्धः कुब्जः स्रवद्रक्तः पूतिगन्धसमन्वितः ।


वाचा विहीनोऽमेध्यश्च श्वासमात्रावशेषितः ॥ २ ॥
कथं मुद्गलदेहोत्थवायुना दिव्यदेहभाक् ।
सञ्जातः केन पुण्येन मुक्तो वा पातकात् कुतः ॥ ३ ॥

दिव्यवर्षसहस्रं यस्तताप परमन्तपः ।
कथं तस्याभवन्नैव दर्शनं देव काङ्क्षितम् ॥ ४ ॥
कथं वल्लभपुत्राय देवदेव इभाननः ।
प्रत्यक्षोऽभूद् विनाक्लेशैः स च कः पूर्वजन्मनि ॥ ५ ॥
एतत् संशयजातं मे नुद सर्वज्ञ ते नमः ।
न तृप्यामि पिबन् नित्यं गजाननकथा मृतम् ॥ ६ ॥
॥ विश्वामित्र उवाच ॥
सम्यक् पृष्टं त्वया राजन् संशयच्छेदनाय ते ।
वदामि निखिलं सम्यक् शृणुष्वैकमना नृप ॥ ७ ॥
सिन्धुदेशेऽतिविख्याता पल्ली नाम्नाऽभवत्पुरी ।
तस्यामासीद् धनी वैश्यः श्रेष्ठः कल्याणसंज्ञकः ॥ ८ ॥
वदान्यः कुशलो धीमान् द्विजदेवपरायणः ।
इन्दुमतीति विख्याता पत्नी तस्य शुभानना ॥ ९ ॥
पतिव्रता पतिप्राणा पतिवाक्यपरायणा ।
तयोः कालेन सञ्जातो गुणवान् पुत्र उत्तमः ॥ १० ॥
कल्याणः प्रददौ धेनूर्वस्त्रालङ्कारणानि च ।
ब्राह्मणेभ्योऽथ रत्नानिं काञ्चनं भूरिदक्षिणाम् ॥ ११ ॥
ज्योतिर्विद्भिर्निगदितं नाम चक्रे सुतस्य सः ।
बल्लाल इति विख्यातं बलत्त्वाच्छुभं तदा ॥ १२ ॥
स च कालेन महता वयस्यैश्च समन्वितः ।
देवपूजारतो नित्यं ग्रामाद् बहिरयान्मुदा ॥ १३ ॥
एकदा ते वनं याता बल्लालप्रमुखाः सुताः ।
नानाक्रीडारताः स्नाता उपलं स्थाप्य सुन्दरम् ॥ १४ ॥
गणेशबुद्ध्या सम्पूज्य दुर्वाङ्कुरसुपल्लवैः ।
केचिद् ध्यानरतास्तस्य नामजाप्यं प्रचक्रिरे ॥ १५ ॥
केचिच्च ननृतुस्तत्र यथेष्टं देवभक्तितः ।
केचिच्च गानकुशला जगुर्देवस्य तुष्टये ॥ १६ ॥
केचिच्च काष्ठैः पल्लवैश्च मण्डपं चक्रुरोजसा ।
केचिद् भित्तिपरीवेषं केचिद् प्रासादमुत्तमम् ॥ १७ ॥
केचिन्मानसपूजाभिः केचित्पुष्पलतादिभिः ।
धूपं दीपं च नैवेद्यं फलताम्बूलदक्षिणाः ॥ १८ ॥
निवेद्य पुपुजुस्तस्मै मुदापरमयायुताः ।
केचिच्च पण्डिता भूत्वा पुराणान्यब्रुवँस्तथा ॥ १९ ॥
व्याचक्रुर्धर्मशास्त्राणि ग्रन्थानन्याँश्च केचन ।
एवं देवरताः सर्वे निन्युर्वै दिवसान्बहून् ॥ २० ॥
न क्षुधा न तृषां कोऽपि जानाद् देवस्य भक्तितः ।
एकदा जनकास्तेषां कल्याणवैश्यमन्वयुः ॥ २१ ॥
अब्रुवन् रोषिताः सर्वे स्वबल्लालं निवारय ।
शिशून् सर्वान् समाहूय वनं याति दिने दिने ॥ २२ ॥
नायान्ति प्रातराशाय न मध्यान्हे निशामुखे ।
कृशा नो बालका जाताः स्वसुतं शिक्षयाधुना ॥ २३ ॥
नो चेद् वयं निबद्धवैनं ताड्याम इतः परम् ।
पुराधिपमथाभ्येत्य त्वां बहिः करवामहे ॥ २४ ॥
इति तेषां वचः श्रुत्वाऽश्रुतपूर्वं कदाचन ।
रोषावेशात् स कल्याणो जपाकुसुमलोचनः ॥ २५ ॥
महान्तं दण्डमादाय ताडनार्थं सुतं ययौ ।
दण्डाघातेन गत्वैव मण्डपं प्रबभञ्ज ह ॥ २६ ॥
बालकाश्च ततः सर्वे जग्मुर्दशदिशो नृप ।
एक एव स बल्लालो दृढभक्त्या स्थिरोऽभवत् ॥ २७ ॥
दृढमुष्ट्या स तं धृत्वा दण्डेनाऽताडयत् भृशम् ।
यथा सर्वशरीरात् तु धाराः शोणितसम्भवाः ॥ २८ ॥
प्रादुरासन् वारिधारा वर्षाकाले यथा गिरे ।
चिक्षेप दूरतः पश्चाद् देवं सिन्दूरसुन्दरम् ॥ २९ ॥
बबन्ध तं सुतं वृक्षे वल्लीपाशशतैर्दृढम् ।
पुत्रस्नेहं परित्यज्य यमदूत इवापरः ॥ ३० ॥
मुक्तो दन्तैर्न हस्ताभ्यां पादाभ्यां म यथा भवेत् ।
उवाच पश्चात् तं पुत्रं देवस्त्वां मोचयिष्यति ॥ ३१ ॥
स दाता भोजनं पानं गोपनं च करिष्यति ।
यदि चेद् गृहमायासि तदा सत्यं मरिष्यसि ॥ ३२ ॥

॥ मुनिरुवाच ॥
विभज्य देवालयमाशु यातः कल्याणवैश्योऽतिरूषा निविष्टः ।
स्वमन्दिरं बध्य वन स्वपुत्रं दैवस्य योगादभवत्सुदुष्टः ॥ ३३ ॥
तस्मिन्प्रयाते स च वैश्यपुत्रः शुशोच देवं मनसा विचिन्त्य ।
विघ्नारिरित्येव कथं नु देवनामाऽभवत् सर्वजनेषु गीतम् ॥ ३४ ॥
दुष्टांश्च विघ्नानि न नाशयेस्त्वं दुष्टान्तकत्वेन कथं प्रसिद्धः ।
शेषोऽवनिं वा सविताऽथ दीप्तिं चन्द्रोऽमृतं वह्निरथोष्णतां च ॥ ३५ ॥
त्यजेत्स्वभक्तान्न च सन्त्यजेथा वेदेषु शास्त्रेषु कथं प्रसिद्धिः ।
एवं विलप्याऽथ निजं शशाप कल्याण संज्ञं पितरं सुदुष्टम् ॥ ३६ ॥
येनेदं मम विध्वस्तं देवालयमनुत्तमम् ।
गणेशमूर्तिविक्षेपं ताडनं च ममाऽकरोत् ॥ ३७ ॥
स चान्धो बधिरः कुब्जो मूको भवति निश्चितम् ।
यदि मे सुदृढा भक्तिर्द्विरदानन उत्तमा ॥ ३८ ॥
तदोक्तं मम सत्यं स्यात्तस्य सर्वं मयोदितम् ।
न बद्धे भक्तिमनसी शक्तोऽसौ देहबन्धने ॥ ३९ ॥
अनन्य बुद्ध्या परिचिन्त्य देवं त्यजामि देहं विजने वनेऽस्मिन् ।
पलायनं नैव कृतं यदैव तदैव देहोऽर्पित एष देवे ॥ ४० ॥
तस्यैवं निश्चयं बुद्ध्वा प्रादुरासीद् गजाननः ।
ब्राह्मणस्य स्वरूपेण बल्लालस्य प्रभावतः ॥ ४१ ॥
यथा निशातमोऽपाये श्रीसूर्य उदयाचले ।
तथैव बन्धनान्यस्य तेजसा शिथिलानि च ॥ ४२ ॥
जातानि तत एनं स नमश्चक्रेऽथ दण्डवत् ।
देहस्य चारुता जाता न क्षतं न च शोणितम् ॥ ४३ ॥
ज्ञानं च निर्मलं जातं देवदेवस्य दर्शनात् ।
तुष्टाव विविधैर्वाक्यैर्यथामति गजाननम् ॥ ४४ ॥
॥ बल्लाल उवाच ॥
त्वमेव माताऽसि पिताऽसि बन्धुस्त्वमेव कर्ताऽसि चराचरस्य ।
निर्मासि दुष्टाँश्च खलाँश्च साधून् योनौ वियोनौ विनियुङ्क्ष्यथापि ॥ ४५ ॥
त्वमेव दिक्चक्रनभोधराब्धिगिरीन्द्रकालानलवायुरूपः ।
रवीन्दुताराग्रहलोकपालवर्णेन्द्रियार्थौषधिधातुरूपः ॥ ४६ ॥
॥ मुनिरुवाच ॥
इति स्तुतिं समाकर्ण्य सुप्रसन्नो गजाननः ।
आलिङ्ग्य निजभक्तं तमुवाच घननिस्वनः ॥ ४७ ॥
॥ गजानन उवाच ॥
प्रासादो येन भग्नो मे नरके स पतिष्यति ।
तव शापोऽपि तस्यैवं भविष्यति ममाज्ञया ॥ ४८ ॥
अन्धोऽथ बधिरः कुब्जो मूकोऽसृक्स्रावसंयुतः ।
मम शापं समासाद्य भविष्यति न संशयः ॥ ४९ ॥
पिता समातृकं चैनं करिष्यति गृहात् बहिः ।
अन्यत् ते वाञ्छितं ब्रूहि दुष्प्रापमपि ते ददे ॥ ५० ॥
॥ मुनिरुवाच ॥
बल्लालोऽथाऽब्रवीद्देवं त्वयि भक्तिर्दृढाऽस्तु मे ।
अस्मिन्क्षेत्रे स्थिरो भूत्वा लोकान् रक्षस्व विघ्नतः ॥ ५१ ॥
॥ गणेश उवाच ॥
त्वन्नामपूर्वं मन्नाम भविष्यति जने शुभम् ।
बल्लालविनायकेति नगरे सुप्रतिष्ठितम् ॥ ५२ ॥
मयि चित्तं स्थिरं ते स्याद् भक्तिरव्यभिचारिणी ।
यात्रा मम करिष्यन्ति नगरे पल्लिसंज्ञिके ॥ ५३ ॥
भाद्रपदशुक्लचतुर्थ्यां ये तेषां कामान् ददाम्यहम् ॥ ५४ ॥
॥ भृगुरुवाच ॥
इति दत्वा वरं देवस्तत्रैवाऽन्तरधीयत ।
ततो विनायकं स्थाप्य बल्लालो ब्राह्मणैः सह ॥ ५५ ॥
प्रासादं कारयामास नाना शोभासमन्वितम् ।
॥ विश्वामित्र उवाच ॥
बल्लालवैनायकेति कथितं ते कथानकम् ॥ ५६ ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामानवाप्नुयात् ॥ ५७ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे बल्लालविनायककथनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-22

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...