श्रीगणेशपुराणे उपासनाखण्डे एकत्रिंशतितमोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकत्रिंशतितमोऽध्यायः

शक्रशापवर्णनं
॥ रुक्माङ्गद उवाच ॥
आगते गौतमे को वा वृत्तान्तोऽभून्महामुने ।
वद मे सकलं तं तु जिज्ञासा महती मम ॥ १ ॥
॥ नारद उवाच ॥
नित्यकर्म समाप्यैव स्वाश्रमं गौतमो ययौ ।
आकार्य निजपत्नीं तां देहि पादोदकं मम ॥ २ ॥
किमर्थ नागताऽद्य त्वं सम्मुखं मम पूर्ववत् ।
नानीतमासनं कस्मात्कथं चारु न भाषसे ॥ ३ ॥


श्रुत्वेत्थं वचनं तस्य वेपमाना लतेव सा ।
अधोमुखी विनिर्गर्म्य मुहूर्तान्मुनिमाययौ ॥ ४ ॥
साष्टाङ्गं पतिता भमौ तत्पादोपरिमस्तका ।
विह्वला शापभीता सा शनैरथ जगौ मुनिम् ॥ ५ ॥
उषसि त्वं प्रयातोऽसि स्नानं कर्तुं निजं विधिम् ।
तवरुपधरो दुष्टो देवेन्द्रो मामुवाच ह ॥ ६ ॥
दृष्टा वराऽप्सरोभ्योऽपि सुन्दरी कामिनी मया ।
न मे मनो जपे दैवे विधौ नित्ये स्थिरं भवेत् ।
परावृत्यागतस्तस्माद्रतिं मे देहि शोभने ॥ ७ ॥
त्वमेवेति मया भ्रान्त्या कृतं वाक्यं तथैव तत् ।
दिव्यगन्धानुपाघ्राय विकल्पो मेऽभवत्पुनः ॥ ८ ॥
दुरात्मन् कोऽसि नो ब्रूहि नोचेद्भस्म भविष्यसि ।
इति शापभयाज्जातः प्रकटो बलसूदनः ॥ ९ ॥
तावदेव भवद्वाक्यं श्रुतं तु मुनिसत्तम ।
लज्जयाऽनागता शीघ्रमपराधं क्षमस्व मे ॥ १० ॥
स्वयं निवेदनेऽदोषोदोषोऽपर निवेदने ।
मन्त्रायुर्गृहरन्ध्रश्रीरतयश्चौषधानि च ॥ ११ ॥
मानापमानदानानि प्रकटानि न कारयेत् ।
इत्थं निशम्य स मुनिः कोपव्याकुलितेन्द्रियः ॥ १२ ॥
शशाप वनिनां स्वीयां दुःशीलं त्वं शिला भव ।
नाज्ञासीर्मे स्वरूपं तं स्वभावं चेष्टितानि च ॥ १३ ॥
परे पुंसि निमग्नं ते यतश्चेतोऽतिकामुके ।
यदा दाशरथी रामो भ्रमद्राजा वने वने ॥ १४ ॥
तस्याङ्घ्रि स्पर्शनादेव स्वं रूपं प्रतिपत्स्यसे ।
॥ नारद उवाच ॥
तदैव सा शिला जाता तपोनिधीवचोबलात् ॥ १५ ॥
तस्याः शापं समाकर्ण्य चकम्पे पाकशासनः ।
प्रकम्पनस्य संयोगाद् हिमवत् पर्वतो यथा ॥ १६ ॥
तर्कयामास मनसि कथं कार्यं मयाऽधुना ।
समुद्रमध्ये कूपे वा तडागे कमलेऽथवा ॥ १७ ॥
लीनो भूत्वा तदा स्थास्ये तदा ज्ञास्यति मां मुनिः ।
अतो बिडालरूपेण विचचार स वज्रभृत् ॥ १८ ॥
गौतमस्तमचक्षाणो गृहे द्वारी तथाश्रमे ।
क्व गतो दानवरिपुर्यो मे भार्या विदूषकः ॥ १९ ॥
ध्यानेन बुबुधे तं तु क्षणेन मुनिसत्तमः ।
न ते भस्म करिष्यामि देवेन्द्रोऽसि यतः खलः ॥ २० ॥
शपामि त्वां शचीभर्तः सहस्र भगवान् भव ।
श्रुतवान् वचनं यावद् रोषेण मुनिनेरितम् ॥ २१ ॥
तावद्ददर्श स्वं देहं सहस्र भग चिन्हितम् ।
ततो दुःखार्णवे मग्नः शुशोच बल वृत्रहा ॥ २२ ॥
॥ इन्द्र उवाच ॥
अहं शिक्षापितो वृद्धैर्नानाधर्माननेकशः ।
वृद्धानां वचनं यन्मे न विचारितमादरात् ॥ २३ ॥
स्वबुद्धीर्हितकृत् सर्वा विनाशाय परेरिता ।
गुरोर्गरीयसी बुद्धिः क्षयदा कामिनीमतिः ॥ २४ ॥
कुतो नारदवाक्येन यातोऽहं तामनिन्दिताम् ।
देवराजोऽभवन्नास्यं लोकान्ना दर्शये कथम् ॥ २५ ॥
दिव्यदेहो गतः क्वाद्य निजभार्यां वदे नु किम् ।
धिग् मां च धिक्स्मरं येन प्रापितो गर्हितां दशाम् ॥ २६ ॥
प्राणिभिर्भुञ्ज्यते कर्म शुभं वा यदि वाऽशुभम् ।
तिर्यङ्ग्योनि समासाद्य क्षपयिष्येऽघमात्मनः ॥ २७ ॥
नलिनीकुड्मले तिष्ठे हीन्द्रगोपकरूपधृक ॥ २८॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे शक्रशापवर्णनं नामैतत्रिंशतितमोऽध्यायः ॥ ३१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-31

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...