श्रीगणेशपुराणे उपासनाखण्डे
अष्टाविंशतितमोऽध्यायः
प्रायोपवेशनं
॥ ब्रह्मोवाच ॥
ततो रूक्माङ्गदोऽपश्यदृषिं वाचक्नविं शुभम् ।
मुकुन्दां तस्य पत्नीं च स्निग्धमञ्जुलभाषिणीम् ॥ १ ॥
अतिश्रान्तो नरपतिर्नमश्चक्र उभावपि ।
तस्मिन्मुनौ गते स्नातुं ययाचे नृपसत्तमः ॥ २ ॥
मातुर्मुकुन्दे मे देहि शीतलं जलमुत्तमम् ।
विना जलं मम प्राणा गमिष्यन्ति यमक्षयम् ॥ ३ ॥
आकर्ण्य तस्य वाचं सा जगाद मदनातुरा ।
त्वादृशं पुरुषं क्वापि मारादप्यतिसुन्दरम् ॥ ४ ॥
न देवेषु न नागेषु यक्षगन्धर्वपुञ्जयोः ।
पश्यामि चारू सर्वाङ्गमतो मे हृदयं त्वयि ॥ ५ ॥
अत्यासक्तं त्वदधरामृतपाने च देहि तत् ।
॥ नारद उवाच ॥
व्यलीकं स तु श्रुत्वैव श्रान्तत्वाद्भृशदुःखित ॥ ६ ॥
तिलोत्तमोत्तमा तां स जितेन्द्रियतया जगौ ।
त्यज प्रौढिं न मे चित्तं पारदार्ये विगर्हिते ॥ ७ ॥
विनायक प्रभावेण सक्तं नैवात्र कर्हिचित् ।
न जलं पातुमिच्छामि त्वया दत्तं सुदुष्टया ॥ ८ ॥
ऋषेराश्रम इत्येवं यातो यास्य इतो शुभे ।
तं गन्तुमुद्यतं पाणिं धृत्वाऽवीवददातुरा ॥ ९ ॥
॥ मुकुन्दोवाच ॥
बलात्कारेण योऽन्यस्य स्त्रियं धर्षितुमिच्छति ।
स एव नरकं याति न स्वयं याति तामपि ॥ १० ॥
कृते त्रेतायुगे ब्रह्मा स्त्रीणां स्वातन्त्र्यमभ्यधात् ।
न करोषि यदा वाक्यं तदा भस्म भविष्यसि ॥ ११ ॥
अथवा राज्यविभ्रष्टं करिष्ये वनचारिणम् ।
॥ मुनिरूवाच ॥
इत्युक्त्वा धावमाना सा काममार्गेणपीडिता ॥ १२ ॥
रभसाऽऽलिङ्गयामास चुचुम्बे वदनं हठात् ।
ततो रूक्माङ्गदस्तां तु बलाच्चिक्षेप दूरतः ॥ १३ ॥
मूर्च्छिता पतिता भूमौ रम्भेव मरूता हता ।
उत्थितां तां तदा प्राह परदारविरक्तधीः ॥ १४ ॥
रूक्माङ्गदो महाभागे मुनिपत्न्यविवेकिनि ।
परपुंसि मनो यस्याः सा वै निरयभाग्भवेत् ॥ १५ ॥
न मे मनश्चलेत् क्वापि यदि शुष्येन् महोदधिः ।
एवं निराकृता तेन तं शशाप रुषान्विता ॥ १६ ॥
ययाऽहं कष्टमगमं तथा त्वं कुष्ठभाग् भव ।
यतस्ते हृदयं वज्रात् सारभूतं न च द्रुतम् ॥ १७ ॥
इत्थं वदन्ती तां राजा निर्भर्त्स्य बहुधा ततः ।
त्वरया निर्गतस्तस्मादाश्रमाद् भृशदुःखितः ॥ १८ ॥
स्वं ददर्श शरीरं स श्वेतं बकशरीरवत् ।
कुष्ठरोगयुतं कान्त्या हीनं च भृशकुत्सितम् ॥ १९ ॥
चिन्तार्णवे तदा मग्न इदमाह गजाननम् ।
अपराद्धं मया किं ते कथमत्रागतोऽप्यहम् ॥ २० ॥
प्राप्तः कथं नु दुष्टाया मुनिपत्न्याः समागमम् ।
त्वया नूनं सिद्धिपते दुष्टाः संवर्धिता भृशम् ॥ २१ ॥
अवतारांश्च साधूनां रक्षणाय बिभर्षि हि ।
इयं न नाशिता दुष्टा स्वैरिणी रूपगर्विता ॥ २२ ॥
कथं मम शरीरं तत् काञ्चनस्पर्द्धि सुन्दरम् ।
इवामवस्था सम्प्राप्तः केन वा दुष्टकर्मणा ॥ २३ ॥
तव भक्तिं यथा पूर्वं सदा कुर्वे यथाविधि ।
त्वदन्यं नैव शरणं यामि नाथ गजानन ॥ २४ ॥
नेदं शरीरं वक्त्रं वा दर्शयिष्ये जनं प्रति ।
प्रायोपवेशनेनेदं शोषयिष्ये कलेवरम् ॥ २५ ॥
निश्चित्यैवं नरपतिरास न्यग्रोधसन्निधौ ।
भृत्या इतस्ततोऽधावन्नेक्षन्ते स्म च तं नृपम् ॥ २६ ॥
प्रवृत्तायां निशायां च जग्मुः स्वं स्वं निकेतनम् ।
स्वामि सेवकयोर्जाता गतिश्चक्राह्वयोरिव ॥ २७ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे प्रायोपवेशनं
नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें