श्रीगणेशपुराणे उपासनाखण्डे त्रयोविंशोऽध्यायः
भविष्यकथनं
॥ भृगुरुवाच ॥
विश्वामित्रवचः श्रुत्वा भीमः पप्रच्छ तं पुनः ।
वैश्याचरितवार्तायाः श्रवणे परमोत्सुकः ॥ १ ॥
सोमकान्त नृपश्रेष्ठ कथयामि शृणुष्व तत् ।
॥ भीम उवाच ॥
श्रुतं दक्षस्य चरितं विश्रान्तं मम मानसम् ॥ २ ॥
कथं कल्याणवैश्यस्य गतिरासीद् वदस्व ताम् ।
॥ विश्वामित्र उवाच ॥
शृणुष्वैकमना भीम कथामेतां वदामि ते ॥ ३ ॥
बल्लालशापात् कल्याणदेहात् सुस्राव शोणितम् ।
असङ्ख्यक्षतसंयुक्तः स्रावो बाधिर्यमन्धता ॥ ४ ॥
मूकता पूतिगन्धित्वं जातं तस्य दुरात्मनः ।
ददर्शेन्दुमती तस्य दशामाकस्मिकीं ततः ॥ ५ ॥
किमिदं किमिदं कस्माज्जातमेवं शुशोच तम् ।
ज्ञानिनोऽस्य वदान्यस्य देवद्विजरतस्य च ॥ ६ ॥
धर्मशास्त्रार्थनिष्ठस्य स्वदारपरितोषिणः ।
अवस्थेयं कथं जाता मम भर्तुर्निरेनसः ॥ ७ ॥
॥ मुनिरुवाच ॥
एवं विलप्य बहुधा निश्वसन्ती पुनः पुनः ॥ ८ ॥
तेन बद्धं वने पुत्रं निशम्य रुदती मुहुः ।
पौरेः सह ययौ तत्र यत्र बद्धो वने सुतः ॥ ९ ॥
तत्र देवालयं देवं ददर्श गणनायकम् ॥ १० ॥
चतुर्भुजं त्रिनयनं सिन्दूदारुणविग्रहम् ।
बल्लालं च सुतं तत्र पूजयन्तं गजाननम् ॥ ११ ॥
मुक्तं निर्व्रणमव्यङ्गं निरीक्ष्य पुरवासिनः ।
उवाचेन्दुमती क्रुद्धा भर्त्सयन्ती पुनः पुनः ॥ १२ ॥
कथं प्रतारिताऽतथ्यवादिभिर्भर्तृसन्निधौ ।
तादृशं तं परित्यज्य पुत्रस्नेहादिहागता ॥ १३ ॥
पश्यन्तु देवभक्तिं मे पुत्रं कुर्वन्तमीदृशीम् ।
॥ मुनिरुवाच ॥
विस्मिताः सर्व एवैते न किञ्चित् प्रोचुरण्वपि ॥ १४ ॥
केचिदूचुर्महाभक्तेर्महिमा केन गम्यते ।
वीक्ष्य सिन्दूररक्ताङ्गं रक्तचन्दनचर्चितम् ॥ १५ ॥
रक्ताम्बरं रक्तपुष्पमालाभिरूपशोभितम् ।
निर्ममं निरहङ्कारमशुण्डमिव विघ्नपम् ॥ १६ ॥
निरीक्ष्य तादृशं पुत्रं त्यक्त्वा शोकं ननन्द सा ।
आलिलिङ्ग तदा तं तु स्नेहस्रुतपयोधरा ॥ १७ ॥
आह तं स्वगृहं यावः पितुस्ते व्यसनं महत् ।
उत्थितं तत्र किञ्चित्तं कुरूपायं महामते ॥ १८ ॥
आवां धन्यतमौ लोके ययोः पुत्रस्त्वमीदृशः ।
सर्वाङ्गक्षतवान् रक्तस्राववान् पूतिगन्धवान् ॥ १९ ॥
श्यामास्यः कृशतायुक्तो बधिरोऽथान्ध एव च ।
एवं विधः पिता तेऽस्ति तं निवेदितुमागता ॥ २० ॥
पितृधर्मेण तेन त्वं ताडितोऽनर्थकृद् यदि ।
तत्रापराधो नैवास्ति श्रुतिस्मृतिपुराणतः ॥ २१ ॥
पुत्रधर्मान्निरीक्षस्व कुर्वारोग्यविचारणम् ।
त्वया श्लाघ्यतमो लोके पिता ते पितृवत्सल ॥ २२ ॥
मातापितृवचः कार्यं सत्पुत्रेण यशस्विना ।
पूजनं च तयोः कार्यं पोषणं पालनं तथा ॥ २३ ॥
औषधान्मन्त्रततश्चापि देवताप्रार्थनादपि ।
उपायं कुरू पुत्र त्वं मयि दृष्टिं निवेशय ॥ २४ ॥
यशस्ते भविता लोके सौभाग्यं मम बालक ।
इति तस्या वचः श्रुत्वा बल्लालो वाक्यमब्रवीत् ॥ २५ ॥
॥ बल्लाल उवाच ॥
कस्य माता पिता कस्य कस्य पुत्रोऽथवा सुहृत् ।
विघ्नराजकृतं सर्वमानुषङ्ग्यखिलं स्मृतम् ॥ २६ ॥
तस्मान्मम पिता भद्रे माता देवो विनायकः ।
यो यथा कुरुते कर्म स तथा फलमश्नुते ।
मया समर्पितो जीवो देवदेवे गजानने ॥ २७ ॥
तेन जीवस्तथा ज्ञानं मम दत्तं सुभक्तितः ।
प्रासादभञ्जनाद् देवक्षेपणात् ताडयान्मम ।
विनायकातिभक्तस्य तथा प्राप्तं फलं शुभे ॥ २८ ॥
विचार्यमाणे न त्वं मे माता वा स पिताऽपि च ।
सर्वस्य हि पिता देवो माता देवो गजाननः ॥ २९ ॥
स एव ज्ञानदस्त्राता संहर्ता कालरूपवान् ।
सर्वस्वरूपो देवेन्द्रोब्रह्मविष्णुशिवात्मकः ॥ ३० ॥
वृथा मे येन दुष्टेन ताडनं निर्घृणेन च ।
कृतं देवस्य विक्षेपः प्रासादस्यापि भञ्जनम् ॥ ३१ ॥
तस्यास्य दर्शने दोषः पतितस्य महान्भवेत् ।
स्नेहं त्यक्वा मदीयं त्वं पतिं स्वं परिषेवय ॥ ३२ ॥
॥ विश्वामित्र ॥
इति पुत्रवचः श्रुत्वा सा तं पुनरथाब्रवीत् ।
॥ मातोवाच ॥
कृपयाऽनुग्रहात्स्नेहादुच्छापं वक्तुमर्हसि ॥ ३३ ॥
॥ पुत्र उवाच ॥
भवान्तरेऽस्य जननी भवितासि वरार्थिनी ।
अयमेतादृशः पुत्रो भविता तव सुव्रते ॥ ३४ ॥
कल्याणनामा भविता वल्लभः क्षत्रियर्षभः ।
कमलेति च विख्याता नाम्ना त्वं च भविष्यसि ॥ ३५ ॥
दक्ष इत्येव पुत्रस्य नाम ख्यातं भविष्यति ।
ततो द्वादशवर्षाणि वल्लभस्तप्स्यते तपः ॥ ३६ ॥
अन्धतां बधिरत्वं च क्षतानि मूकतां तथा ।
व्यपनेतुं तु दक्षस्य परं नियममास्थितः ॥ ३७ ॥
अलब्ध्वा स फलं तस्मात् सपुत्रां त्वां शुभानने ।
निराकरिष्यते गेहाद् विदेशस्था भविष्यसि ॥ ३८ ॥
कस्यचिद् द्विजवर्यस्य द्विरदाननचेतसः ।
दैवात् स्पर्शेन भद्रे ते सम्यक् पुत्रो भविष्यति ॥ ३९ ॥
तत्रैव गणनाथस्य दर्शनं च भविष्यति ।
तदा स दिव्यदेहत्वं प्राप्स्यते द्विरदाननात् ॥ ४० ॥
इति सर्वं समाख्यातमुच्छापकारणं शुभे ।
भविष्यं कथितं तेऽद्य यथेष्टं गम्यता त्वया ॥ ४१ ॥
॥ विश्वामित्र उवाच ॥
एवं निराकृता तेन जननी निरगात्ततः ।
दुःखशोक समायुक्ता किञ्चिद्धर्षयुताऽपि च ॥ ४२ ॥
स चारुरोह तद्दिव्यं विमानं भक्तिभावितम् ।
गजाननेन विहितं बल्लालोऽथाऽगमद्दिवम् ॥ ४३ ॥
इति ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया ।
या गतिस्तेन वैश्येन सम्प्राप्ता जन्मनोर्द्वयोः ॥ ४४ ॥
यथा जगाद बल्लालः सर्वं तदभवत्तदा ।
सा जज्ञे कमला भूत्वा सोऽभवत् क्षत्रियर्षभः ॥ ४५ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे भविष्यकथनं नाम
त्रयोविंशोऽध्यायः ॥ २३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें