श्रीगणेशपुराणे उपासनाखण्डे सप्ततितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे सप्ततितमोऽध्यायः
चतुर्थी व्रतोपाख्यानं कृतवीर्य

॥ राजोवाच ॥

व्रतं पुरा कृतं केन भुवि केन प्रकाशितम् ।
किं पुण्यं किं फलं चास्य करुणाद् वद मे प्रभो ॥ १ ॥
॥ ब्रह्मोवाच ॥
पुरा स्कन्दे गते चैव पार्वत्यैव कृतं व्रतम् ।
चतुर्ष्वपि च मासेषु शिववाक्येन पार्थिव ॥ २ ॥


पञ्चमे मासि दृष्टस्तु कार्तिकेयो ह्यपर्णया ।
अगस्त्येन कृतं पूर्वं समुद्रं पातुमिच्छता ॥ ३ ॥
त्रिषु मासेषु विघ्नेशप्रसादात् पीतवानमुम् ।
षण्मासावधि राजेन्द्र दमयन्त्या पुरा कृतम् ॥ ४ ॥
नलमन्वेषयन्त्या तु ततो दृष्टो नलस्तया ।
प्रद्युम्नस्य सुतं राजंश्चित्रलेखाऽनयत् पुरा ॥ ५ ॥
क्व गतः केन नीतो वा इति शोचन्तमाकुलम ।
प्रद्युम्नं पुत्रशोकार्त रुक्मिणी प्रत्यभाषत ॥ ६ ॥
श‍ृणु पुत्र प्रवक्ष्यामि यद् व्रतं स्वस्य मन्दिरे ।
शम्बरेण पुराऽऽनीते बालके त्वयि षड्दिने ॥ ७ ॥
त्वद्वियोगजदुःखेन हृदयं मे व्यदूयत ।
कदा द्रक्ष्याम्यहं पुत्रमपूर्वमतिसुन्दरम् ॥ ८ ॥
अन्यस्त्रीणां सुतं दृष्ट्वा मम चेतसि जायते ।
ममापि पुत्रो भविता समोऽनेन प्रमाणतः ॥ ९ ॥
इति चिन्ताकुलाया मे गतान्यब्दानि भूरिशः ।
ततो मे दैवयोगात् तु लोमशो मुनिरागतः ॥ १० ॥
तेनोपदिष्टं सङ्कष्टचतुर्थीव्रतमुत्तमम् ।
सर्व चिन्ताहरं पुत्र चतुर्वारं कृतं मया ॥ ११ ॥
तत्प्रसादात् त्वमायातो हत्वा शम्बरमाहवे ।
त्वमप्येतत् कुरू व्रतं ततो ज्ञास्यसि तं सुतम ॥ १२ ॥
॥ ब्रह्मोवाच ॥
प्रद्युम्नेन कृतं पूर्वं गणनाथ सुतोषकम् ।
श्रुतो बाणासुरपुरे निरुद्धो नारदात् पुरा ॥ १३ ॥
उद्धवस्याज्ञया कृष्णः कृतवान् व्रतमुत्तमम् ।
भीत ईश्वरसङ्ग्रामादेकवारं यथाविधि ॥ १४ ॥
गत्वा स शोणितपुरं जित्वा बाणासुरं मृधे ।
आनीतः उषया सार्द्धमनिरुद्धः क्षणान्नृपः ॥ १५ ॥
मयाऽपि सृष्टिकामेन कृतमेतन्नृपोत्तम ।
कृता नानाविधा सृष्टिर्व्रतस्यास्य प्रभावतः ॥ १६ ॥
अन्यैर्देवासुरनरैः कृतं विघ्नोपशान्तये ।
ऋषिभिर्दानवैर्यक्षैः किन्नरोरगराक्षसैः ॥ १७ ॥
आपद्यपि च कष्टायां कुर्यात् तच्छान्तये व्रतम् ।
नानेन सदृशं लोके सर्वसिद्धिकरं व्रतम् ॥ १८ ॥
तपो दानं जपस्तीर्थं मन्त्रो विद्या न च क्वचित् ।
इमां श्रुत्वा कथां राजन् स्वयं भुञ्जीत वाग्यतः ॥ १९ ॥
जानुमध्ये कर कृत्वा गणेशं हृदि चिन्तयेत् ।
द्विजातीनां च यच्छेषं भोक्तव्यं सह बान्धवैः ॥ २० ॥
कार्यं बह्वल्पमासैस्तु सिद्ध्यते नात्र संशयः ।
बहुनात्र किमुक्तेन नान्यत् स्याच्छीघ्रसिद्धिदम् ॥ २१ ॥
नोपदेश्यमभक्ताय नास्तिकाय शठाय च ।
देयं पुत्राय शिष्याय भक्तियुक्ताय साधवे ॥ २२ ॥
मम प्रियोऽसि राजेन्द्र धर्मिष्ठः क्षत्रियर्षभः ।
कार्यकर्ताऽसि लोकानामुपदिष्टमथो व्रतम् ॥ २३ ॥
तस्मात् सर्वव्रतेष्वेतत् कर्तव्यं प्रथमं त्वया ।
सिद्धिं यास्यन्ति कार्याणि नान्यथा भाषितं मया ॥ २४ ॥
यदा यदा पश्यति कार्यमुद्यतं, नारी नरो वा विदधातु सद्व्रतम् ।
सिध्यन्ति कार्याणि मनीषितानि किं दुर्लभं विघ्नहरे प्रसन्ने ॥ २५॥
॥ सूत उवाच ॥
इत्थं स श्रुत्वा विधिवन्नृपोत्तमो व्रतं चकाराऽखिल दुःखशान्तये ।
व्रतप्रभावाज्जितवान् स वैरिणो बुभोज राज्यं स सुतैरकण्टकम् ॥ २६॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतोपाख्याने कृतवीर्यविजयो नाम सप्ततितमोऽध्यायः ॥ ७० ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-70

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...