श्रीगणेशपुराणे उपासनाखण्डे त्रिषष्टितमोऽध्यायः
दुर्वामाहात्म्ये
॥ गणा ऊचुः ॥
शृणुध्वं योगिनः सर्वे स्थिरीकृत्य मनश्चलम् ।
यन्न शेषो भवेद् वक्तुं समर्थश्चतुराननः ॥ १ ॥
तद् वक्तुं कः समर्थः स्याद् यथाशक्ति वदाम च ।
कुर्वन्ति स्तवनं यस्य सर्वदाऽजशिवादयः ॥ २ ॥
तस्य को गणनाथस्य महिमानं वदेत् स्फुटम् ।
इत्थं तदीयां लीलां वा तथापि शृणुतानघाः ॥ ३ ॥
दूर्वाङ्कुराणां महिमा न ज्ञातो मुनिभिः सुरैः ।
यज्ञैर्दानैस्तपोभिश्च व्रतैर्होमैर्न वाप्यते ॥ ४ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं नारदस्य महात्मनः ॥ ५ ॥
एकदा नारदोऽगच्छद् वासवं द्रष्टुमुत्सुकः ।
पूजिता परया भक्त्या कृतासन परिग्रहम् ॥ ६ ॥
मुनिं पप्रच्छ बलहा दूर्वामाहात्म्यमादरात् ।
॥ इन्द्र उवाच ॥
किमर्थं देवदेवस्य गणेशस्य महात्मनः ॥ ७ ॥
विशेषतः प्रिया ब्रह्मन् महादूर्वाङ्कुरा मुने ।
॥ मुनिरुवाच ॥
कथयामि यथाज्ञातं दूर्वामाहात्म्यमुत्तमम् ।
स्थावरे नगरे पूर्वं कौण्डिन्योऽभून्महामुनिः ॥ ८ ॥
उपासको गणेशस्य तपोबलसमन्वितः ।
रमणीयतरस्तस्य ग्रामदक्षिणभागतः ॥ ९ ॥
आश्रमः सुमहानासील्लतावृक्षसमन्वितः ।
सरांसि फुल्लपद्मानि यत्रासन् सुमहान्ति च ॥ १० ॥
भ्रमरैरुपजुष्टानि हंसकारण्डकैरपि ।
चक्रवाकैर्बकैश्चैव कच्छपैर्जल कुक्कुटैः ॥ ११ ॥
स तु ध्यानरतस्तत्र प्रारभत् तप उत्कटम् ।
पुरः स्थाप्य महामूर्तिं गणेशस्य चतुर्भुजाम् ॥ १२ ॥
सुप्रसन्नां सुवरदां दूर्वायुक्तां सुपूजिताम् ।
जजाप परमं मन्त्रं षडर्णं देवतोषकम् ॥ १३ ॥
पप्रच्छ संशयाविष्टा पत्नी नाम्नाऽऽश्रयाऽस्य तम् ।
॥ आश्रयोवाच ॥
स्वामिन् गजानने देवे दूर्वाभारं दिने दिने ॥ १४ ॥
समर्पयसि कस्मात् त्वं तृणैः कोऽपि न तुष्यति ।
अस्ति चेत् पुण्यमेतेन तन्मे त्वं कृपया वद ॥ १५ ॥
॥ कौण्डिन्य उवाच ॥
शृणु प्रिये प्रवक्ष्यामि दूर्वामाहात्म्यमुत्तमम् ।
धर्मस्य नगरे पूर्वमासीदुत्सव उत्तमः ॥ १६ ॥
सर्वे देवाः सगन्धर्वा आहूताश्चाप्सरो गणाः ।
सिद्धचारणनागाश्च मुनयो यक्षराक्षसाः ॥ १७ ॥
तिलोत्तमाया नृत्यन्त्याः प्रावारो न्यपतत् भुवि ।
ददर्श तस्याः स यमः कुचौ चारू बृहत्तमौ ॥ १८ ॥
अभवत् कामसन्तप्तोऽविश्रान्तो निरपत्रपः ।
इयेषाऽऽलिङ्गितुं तस्याश्चुम्बितुं च तदाननम् ॥ १९ ॥
सदसो निर्गतस्तस्माल्लज्जयाऽधोमुखो यमः ।
गच्छतस्तस्य रेतश्च स्खलितं पतितं भुवि ॥ २० ॥
ज्वालामाल्यभवत्तस्मात् पुरुषो विकृताननः ।
कुर्वन् दंष्ट्रारवं क्रूरं त्रासयन् भुवनत्रयम् ॥ २१ ॥
ददाह पृथिवीं सर्वां जटाभिर्गगनं स्पृशत् ।
चकम्पे तस्य शब्देन त्रिलोकीमानसं भृशम् ॥ २२ ॥
तदैव विष्णुमगमँस्ते तु सर्वे सभासदः ।
स्तुतिं नानाविधां कृत्वा नानास्तोत्रैर्यथामति ॥ २३ ॥
प्रार्थयामासुरव्यग्राः सर्वलोकहिताय तम् ।
स तैः सर्वैः समगमद् गजाननमनामयम् ॥ २४ ॥
तस्य नाशं ततो ज्ञात्वा तुष्टुवुः सर्व एव तम् ।
॥ देवा मुनयश्चोचुः ॥
नमो विघ्नस्वरुपाय नमस्ते विघ्नहारिणे ॥ २५ ॥
नमस्ते सर्वरूपाय सर्वसाक्षिन् नमोऽस्तुते ।
नमो देवाय महते नमस्ते जगदादये ॥ २६ ॥
नमः कृपानिधे तुभ्यं जगत्पालन हेतवे ।
नमस्ते पूर्णतमसे सर्वसंहारकारिणे ॥ २७ ॥
नमस्ते भक्तवरद सर्वदात्रे नमो नमः ।
नमस्तेऽनन्यशरण सर्वकामप्रपूरक ॥ २८ ॥
नमस्ते वेदविदुषे नमस्ते वेदकारिणे ।
कमन्यं शरणं यामः कोनु नः स्याद्भयापहः ॥ २९ ॥
अकाल एव प्रलयः कथं लब्धो जनैरयम् ।
हा गजानन देवेश हा हा विघ्नहराव्यय ॥ ३० ॥
सर्वेषां मरणे प्राप्ते कथमस्मानुपेक्षसे ।
इति तद्वचनं श्रुत्वा करूणाब्धिर्गजाननः ॥ ३१ ॥
आविरासीत् पुरस्तेषां शिशुरूपोऽरिभीतिहा ।
बिभ्रत् कमलनयने शतचन्द्रनिभाननम् ॥ ३२ ॥
कोटिसूर्यप्रभाजालः कोटिकन्दर्पजिद्वपुः ।
कुन्दकुड्मलशोभाजिद्दशनोऽधरबिम्बिजित् ॥ ३३ ॥
उन्नसो भृकुटीचारुनयनः कम्बुकण्ठयुक् ।
विशालवक्षा जानुस्पृग्भुजद्वययुतो बली ॥ ३४ ॥
गम्भीरनाभिविलसदुदरोऽतिलसत्कटिः ।
रम्भाशोभापरिस्पर्द्धिगुरूरूश्चासजानुयुक् ॥ ३५ ॥
सुचारूजङ्घागुल्फश्रीविलसत्पादपद्मकः ।
नानालङ्कारशोभाढ्यो महार्घवसनावृतः ॥ ३६ ॥
एवं देवं निरीक्ष्यैव नगरस्य पुरो भुवि ।
उत्तस्थुर्देवमुनयो जयशब्दपुरःसरम् ॥ ३७ ॥
प्रणेमुर्दण्डवद् भूमौ शक्रं देवगणा यथा ।
॥ देवा ऋषय ऊचुः ॥
को भवान् कुत आयातः किं कार्यं वद नो विभो ॥ ३८ ॥
वयमेवं विजानीमो ब्रह्मैव बालरूपधृक् ।
अनलासुरसन्त्रासात् त्यक्त्वा कर्माणि संस्थितान् ॥ ३९ ॥
आविर्भूतं तु नस्त्रातुं दुष्टसंहारकारकम् ।
इति तद्वचनं श्रुत्वा शिशुरूपी गजाननः ॥ ४० ॥
बभाषे हास्यवदनः सर्वान् देवमुनीन् प्रति ।
॥ बाल उवाच ॥
भवन्तो ज्ञानसम्पन्ना यदुक्तं सत्यमेव तत् ॥ ४१ ॥
अहं तस्य वधायैव दुष्टस्य परपीडिनः ।
निजेच्छया बालरूपी वेगेनागां सुरर्षयः ॥ ४२ ॥
उपायं वच्मि वस्तस्य वधे तं कुरुतानघाः ।
सर्वैर्भवद्भिस्तं दृष्ट्वा नोदनीयो बलादहम् ॥ ४३ ॥
द्रष्टव्यं कौतुकं तस्य मम चैव महत्तरम् ।
एवं श्रुत्वा कृपावाक्यं सर्वे ते हर्षनिर्भराः ॥ ४४ ॥
उचुः परस्परं सर्वे न जानीमोऽस्य पौरुषम् ।
ईश्वरो बालरूपेण कर्तुमस्य वधं नु किम् ॥ ४५ ॥
अवतीर्णो भवेत् त्रातुं पीडितं भुवनत्रयम् ।
इत्थमुक्त्वा तु ते सर्वे प्रणेमुः सादरं च तम् ॥ ४६ ॥
एतस्मिन्नेव काले तु कालानलस्वरूपधृक् ।
दहन् दशदिशो भक्षन्नरलोकं स आययौ ॥ ४७ ॥
कोलाहलो महानासील्लोकानां क्रन्दतां तदा ।
दृष्ट्वैव सर्वे मुनयः पलायनपरा ययुः ॥ ४८ ॥
तं च ते मुनयः प्रोचुः शीघ्रं कुरू पलायनम् ।
नो चेद्धिंसिष्यते त्वाद्य सुमहाननलो ध्रुवम् ॥ ४९ ॥
तिमिङ्गिलो यथा मीनानुरगान् गरूडो यथा ।
इति तद्वचनं श्रुत्वा परमात्मा गजाननः ॥ ५० ॥
बालरूपधरोऽतिष्ठत् पर्वतो हिमवानिव ।
सुरर्षयो ययुर्दूरात् त्यक्त्वा तत्रैव बालकम् ॥ ५१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे दुर्वामाहात्म्यनिरूपणं
नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें