श्रीगणेशपुराणे उपासनाखण्डे एकोनसप्ततितमोऽध्यायः
सङ्कष्टचतुर्थीव्रतस्य साङ्गोपाङ्गमहिमा
॥ शूरसेन उवाच ॥
ब्रह्मणा कथमादिष्टं कृतवीर्याय सिद्धिदम् ।
तन्ममाचक्ष्व सङ्कष्ट चतुर्थी व्रतमुत्तमम् ॥ १ ॥
॥ इन्द्र उवाच ॥
सत्यलोके सुखासीनं सर्वज्ञं चतुराननम् ।
कृतवीर्यपिता गत्वा पप्रच्छ प्रणतो नृपः ॥ २ ॥
॥ कृतवीर्यपिता उवाच ॥
देवदेव जगद्धातः प्रणतार्तिनिवारण ।
वर्तते हृदये यन्मे पृच्छामि त्वां वदस्व तत् ॥ ३ ॥
आपत्सु वर्तमानानां नृणां व्याकुलचेतसाम् ।
चिन्तया व्यग्रमनसां वियोगे सुहृदां तथा ॥ ४ ॥
दुर्लभप्राप्तये नॄणां कार्यसिद्धिः कथं भवेत् ।
अर्थसिद्धिः कथं नित्यं पुत्रसौभाग्यसम्पदाम् ॥ ५ ॥
सर्वसङ्कष्टनाशार्थं कार्य किं मानवैः प्रभो ।
॥ ब्रह्मोवाच ॥
शृणु राजन् प्रवक्ष्यामि सर्वसिद्धिप्रदं व्रतम् ॥ ६ ॥
यस्यानुष्ठानमात्रेण चिन्तितं प्राप्नुयान्नरः ।
ओषधीभिः शुक्लतिलैर्दिवा स्नायात् प्रसन्नधीः ॥ ७ ॥
सङ्कल्पं कारयेत् सम्यग् ध्यात्वा देवं गजाननम् ।
गणेशं पूजयेद् भक्त्या मन्त्रैरागमसम्भवैः ॥ ८ ॥
कृष्णपक्षे चतुर्थ्यां च निशि चन्द्रोदयेऽपि च ।
॥ नृप उवाच ॥
कथं सम्पूजयेद् ब्रह्मन् देवदेवं गजाननम् ॥ ९ ॥
विस्तरेण मम ब्रूहि प्रणयात् परिपृच्छते ।
॥ ब्रह्मोवाच ॥
नित्यकर्म समाप्याऽथ निशायामुदये विधोः ॥ १० ॥
शुचौ देशे गोमयेन लिप्ते मण्डपिकान्विते ।
तत्र पीठं गणेशस्य पूजयेत् कुङ्कुमाक्षतैः ॥ ११ ॥
स्थापयेत् कलशं तत्र पञ्चरत्नसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं सौवर्णंकलशान्वितम् ॥ १२ ॥
तदभावे तु रौप्यं वा ताम्रं वैणवमेव च ।
तस्योपरि न्यसेद्वस्त्रं क्षौमं वा शक्तिसंयुतः ॥ १३ ॥
तस्योपरि लिखेद्यन्त्रमागमोक्तविधानतः ।
तत्र मूर्तिं गणेशस्य सौवर्णीं लक्षणान्विताम् ॥ १४ ॥
॥ ध्यानम् ॥
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदर विशालाक्षं ज्वलत्पावकलोचनम् ॥ १५ ॥
आखुपृष्ठसमारूढं चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतं च चिन्तयेत् तं गजाननम् ॥ १६ ॥
॥ आवाहनम् ॥
आगच्छ देवदेवेश सङ्कटान्मां निवारय ।
यावद् व्रतं समाप्येत तावत् त्वं सन्निधौ भव ॥ १७ ॥
सहस्रशीर्षेत्यावाहनम् ।
(पुरुषसूक्ते
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिँ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥)
॥ आसनम् ॥
गणाधीश नमस्तेऽस्तु सर्व सिद्धिप्रदायक ।
आसनं गृह्यतां देव सङ्कटान्मां निवारय ॥ १८ ॥
अथवा पुरुष एवे० आसनम् ।
(पुरुष एवेदँ सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥)
॥ पाद्यम् ॥
उमापुत्र नमस्तेऽतु नमस्ते मोदकप्रिय ।
पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥ १९ ॥
एतावानस्य पाद्यम् ।
(एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥)
॥ अर्घ्यम् ॥।
लम्बोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अर्घ्यं गृहाण देवेश सङ्कटं मे निवारय ॥ २० ॥
त्रिपादूर्ध्वेत्यर्घ्यम्
(त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥)
॥ आचमनीयम् ॥
गङ्गादि सर्वतीर्थेभ्यः आहृतं तोयमुत्तमम् ।
गृहाणाऽऽचमनीयार्थं सङ्कटं मे निवारय ॥ २१ ॥
तस्माद्विराळ् आचमनीयम् ।
(ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥)
॥ पञ्चामृतम् ॥
पयो दधि घृतं चैव शर्करामधुसंयुतम् ।
पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥ २२ ॥
अथवा पयः पृथिव्याम् ।
॥ स्नानम् ॥
नर्मदा चन्द्रभागा च गङ्गासङ्गमजैर्जलैः ।
स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥ २३ ॥
यत्पुरुषेणेति ।
(यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥)
॥ वस्त्रयुग्मम् ॥
इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर ।
वस्त्रयुग्मं गणाध्यक्ष सङ्कटं मे निवारय ॥ २४ ॥
(तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥)
॥ यज्ञोपवितम् ॥
विनायक नमस्तुभ्यं नमः परशुधारिणे ।
उपवीतं गृहाणेदं सङ्कटं मे निवारय ॥ २५ ॥
(तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥)
॥ चन्दनम् ॥
ईशपुत्र नमस्तुभ्यं नमो मूषकवाहन ।
चन्दनं गृह्यतां देवं सङ्कटं मे निवारय ॥ २६ ॥
(तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥)
॥ अक्षताः ॥
घृतकुङ्कुमसंयुक्तास्तन्दुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥ २७ ॥
अथवा अक्षन्नमीमदन्त ।
॥ पुष्पम् ॥
चम्पकं मल्लिका दूर्वाः पुष्पजातिरनेकशः ।
गृहाण त्वं गणाध्यक्ष सङ्कटं मे निवारय ॥ २८ ॥
(तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥)
॥ धूपम् ॥
लम्बोदर महाकाय धूम्रकेतो सुवासितम् ।
धूपं गृहाण देवेश सङ्कटं मे निवारय ॥ २९ ॥
(यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥)
॥ दीपम् ॥
विघ्नान्धकारसंहारकारक त्रिदशाधिपः ।
दीपं गृहाण देवेश सङ्कटं मे निवारय ॥ ३० ॥
(ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रो अजायत ॥)
॥ नैवेद्यम् ॥
मोदकापूपलड्डूकपायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम् ॥ ३१ ॥
(चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥)
॥ फलम् ॥
नारिकेल फलं द्राक्षां रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश सङ्कटं मे निवारय ॥ ३२ ॥
(नाभ्या आसीदन्तरिक्षँ शीर्ष्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽकल्पयन् ॥)
॥ ताम्बूलम् ॥
क्रमुकैला लवङ्गादि नागवल्लीदलानि च ।
ताम्बूलं गृह्यतां देव सङ्कटं मे विनाशय ॥ ३३ ॥
सर्वप्रीतिकरं देव हिरण्यं सर्वसिद्धिदम् ।
दक्षिणार्थं गृहाणेदं सङ्कटं मे विनाशय ॥ ३४ ॥
(सप्तास्यासन्निति परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥)
एकविंशतिदूर्वाङ्कुरमर्पणम् ।
ततो दूर्वाङ्कुरान् गृह्य विंशत्येकं च भक्तितः ।
एभिर्नामपेदैर्देवमर्चयेत् सु समाहितः ॥ ३५ ॥
॥ दूर्वापणमन्त्राः ॥
गणाधिपतये नमः । १. उमापुत्राय नमः । २. अघनाशनाय नमः । ३.
एकदन्ताय नमः । ४. इभवक्त्राय नमः । ५. मूषकवाहनाय नमः । ६.
विनायकाय नमः । ७. ईशपुत्राय नमः । ८. सर्वसिद्धिप्रदाय नमः । ९.
लम्बोदराय नमः । १०. वक्रतुण्डाय नमः । ११. मोदकप्रियाय नमः । १२.
विघ्नविध्वंसकर्त्रे नमः । १३. विश्ववन्द्याय नमः । १४.
अमरेशाय नमः । १५. गजकर्णाय नमः । १६.
नागयज्ञोपवीतिने नमः । १७. भालचन्द्राय नमः । १८.
परशुधारिणे नमः । १९. विघ्नाधिपाय नमः । २०. विद्याप्रदाय नमः । २१.
॥ नीराजनम् ॥
कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् ।
नीराजनं गृहाणेश सङ्कटान्मां विमोचय ॥ ३६ ॥
॥ पुष्पाञ्जलिः ॥
चम्पकाशोकबकुलपारिजातभवैः शुभैः ।
पुष्पाञ्जलिं गृहाणेमां सङ्कटान्मां विमोचय ॥ ३७ ॥
(यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥)
॥ स्तुतिः ॥
त्वमेव विश्वं सृजसीभवक्त्र त्वमेव विश्वं परिपासि देव ।
त्वमेव विश्वं हरसेऽखिलेश त्वमेव विश्वात्मक आविभासि ॥ ३८ ॥
इति स्तुतिः ।
॥ नमस्काराः ॥
नमामि देवं गणनाथमीशं विघ्नेश्वरं विघ्नविनाशदक्षम् ।
भक्तार्तिहं भक्तिविमोक्षदक्षं विद्याप्रदं वेदनिधानमाद्यम् ॥ ३९ ॥
॥ प्रदक्षिणाः ॥
एवं स्तुवीत विधिवत् प्रणमेत पुनः पुनः ।
प्रदक्षिणां प्रकुर्वीत यथा शक्त्यैकविंशतिम् ॥ ४० ॥
॥ प्रार्थनाः ॥
ये त्वामसम्पूज्य गणेश नूनं वाञ्छति मूढा विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके ज्ञातो मयाते सकलः प्रभावः ॥ ४१ ॥
॥ वायनम् ॥
आचार्यस्त्वं द्विचाध्यक्ष सर्वसिद्धिप्रदायक ।
वायनं गृह्यतां ब्रह्मन् सङ्कटान्मां निवारय ॥ ४२ ॥
॥ विशेषार्घ्यम् ॥
फलपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् ।
विशेषार्घ्यं मया दत्तं सङ्कटान्मां निवारय ॥ ४३ ॥
॥ इति षोडशोपचारार्चनम् ॥
॥ गणेश मन्त्रार्चनम् ॥
ॐ नमो हेरम्ब मदमोदित मम सङ्कटं निवारय स्वाहा ।
इन्द्रादि लोकपालांश्च समन्तात् पूजयेत् सुधीः ॥ ४४ ॥
पक्वमुद्गतिलैर्युक्तान् मोदकान् घृतपाचितान् ।
भक्ष्यान्यन्यानि ताम्बूलं यथाशक्ति प्रकल्पयेत् ॥ ४५ ॥
ततो दूर्वाङ्कुरान्गृह्य विंशत्येकं च भक्तितः ।
एभिर्नामपदैर्देवमर्चयेत् सुसमाहितः ॥ ४६ ॥
गणाधिप नमस्तुभ्यमुमापुत्राभयप्रद ।
एकदन्तेभवक्त्रेति तथा मूषक वाहन ॥ ४७ ॥
विनायकेशपुत्रेति सर्वसिद्धि प्रदायक ।
लम्बोदर नमस्तुभ्यं वक्रतुण्डाघनाशन ॥ ४८ ॥
विघ्नविध्वंसकर्त्रेति विश्ववन्द्यामरेश्वर ।
गजवक्र नमस्तुभ्यं नागयज्ञोपवीतिने ॥ ४९ ॥
भालचन्द्र नमस्तुभ्यं नमः परशुधारिणे ।
विघ्नाधिप नमस्तुभ्यं सर्वविद्याप्रदायक ॥ ५० ॥
एवं सम्पूजयद्देवं दूर्वाभिश्च पृथक् पृथक् ।
यदुद्दिश्य कृतं सम्यग्य यथाशक्ति प्रपूजनम् ॥ ५१ ॥
तेन तुष्टो भवाशु त्वं हृत्स्थान्कामान्प्रपूरय ।
विघ्नान्नाशय मे सर्वान् दुष्टांश्च समुपस्थितान् ॥ ५२ ॥
त्वत्प्रसादेन सर्वाणि कार्याणीह करोम्यहम् ।
शत्रूणां बुद्धिनाशं च मित्राणामुदयं कुरु ॥ ५३ ॥
इति विज्ञाप्य देवेशं प्रणिपत्य पुनः पुनः ।
ततो होमं प्रकुर्वीत शतमष्टोत्तरं व्रती ॥ ५४ ॥
मोदकैर्वायनं कार्यं व्रतसम्पूर्तिहेतवे ।
लड्डूकैर्वटकाद्यैर्वा त्रिसप्तफलसंयुतम् ॥ ५५ ॥
रक्तवस्त्रेण सञ्छाद्य स्वाचार्याय निवेदयेत् ।
गणाधिप नमस्तुभ्यं सर्व सङ्कल्पसिद्धिद ॥ ५६ ॥
वायनस्य प्रदानेन सङ्कटान्मां निवारय ।
इति वायनमन्त्रः ।
॥ तिथ्यर्घ्यम् ॥
कथां श्रुत्वा ततः पुण्यां दद्यादर्घ्यं समाहितः ॥ ५७ ॥
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तुते ॥ ५८ ॥
इति तिथ्यर्घः ।
॥ देवार्घ्यम् ॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ५९ ॥
इति देवार्घः ।
॥ चन्द्रार्घ्यम् ॥
चन्द्राय सप्तवारं तु मन्त्रेणानेन पार्थिव ।
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ ६० ॥
ततः क्षमापयेद्देवं ततो विप्रांश्च भोजयेत् ।
स्वयं भुञ्जीत तच्छेषं ब्राह्मेणभ्यो यदर्पितम् ॥ ६१ ॥
सप्तग्रासान् मौनयुक्तो यथाशक्त्या यथासुखम् ।
इत्थं कुर्यात्तु मासेषु चतुर्ष्वपि विधानतः ॥ ६२ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीव्रतान्तर्गत
पूजाविधिर्नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें