श्रीगणेशपुराणे उपासनाखण्डे पञ्चषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे पञ्चषष्टितमोऽध्यायः
राजा जनकस्य सत्वहरणम्

॥ कौण्डिन्य उवाच ॥

कस्मिंश्चित्समये देवि सुखासिनं गजाननम् ।
नारदो मुनिरभ्यागाद् द्रष्टुं तं बहुवासरैः ॥ १ ॥
साष्टाङ्गं प्रणिपत्यैनं प्राहनः सार्थकं जनुः ।
यत् पुण्यनिचयैर्जातं दर्शनं ते गजानन ॥ २ ॥


इत्युक्त्वा स्वाञ्जलिं बध्वा तस्थौ तत् पुरतो मुनिः ।
धृत्वा करेण तत्पाणिमुपावेशयदासने ॥ ३ ॥
गजाननो महाभागो महाभागं महामुनिम् ।
नारदो भगवांस्तेन सन्तुष्टो मुनिपुङ्गवः ॥ ४ ॥
उवाच तं गणाधीशमाश्चर्यं हृदिमेस्तियत् ।
तन्निवेदितुमायातो नत्वा त्वां पुनराव्रजे ॥ ५ ॥
॥ गजानन उवाच ॥
किमाश्चर्यं त्वया दृष्टं हृदि किं तेऽभिवर्तते ।
वद सर्वं विशेषेण ततो व्रज निजाश्रमम् ॥ ६ ॥
॥ नारद उवाच ॥
मैथिले विषये देव जनको राजसत्तमः ।
अतिमानी वदान्यश्च वेदवेदाङ्गपारगः ॥ ७ ॥
अन्नदानरतो नित्यं ब्राह्मणान् पूजयत्यसौ ।
नानालङ्कारवासोभिर्दक्षिणाभिरनेकशः ॥ ८ ॥
दीनान्धकृपणेभ्यश्च बहु द्रव्यं ददात्यसौ ।
याचकैर्याच्यते यद् तत् तत् तेन प्रदीयते ॥ ९ ॥
तथापि न व्ययं याति द्रव्यं तस्य महात्मनः ।
गजाननस्य सन्तुष्ट्या द्रव्यं तद्वर्धते नु किम् ॥ १० ॥
इत्याश्चर्यं महद् द्रष्टुं प्रयातस्तद्गृहानहम् ।
ब्रह्मज्ञानाभिमानेन उपहासं ममाऽकरोत् ॥ ११ ॥
अहं च तमुवाचेत्थं धन्योऽसि नृपसत्तम ।
चिन्तितं तेऽपि भक्त्याऽयं प्रयच्छति गजाननः ॥ १२ ॥
स तु गर्वादुवाचेत्थमहमीशो जगत्त्रये ।
अहं दाता च भोक्ता च पाता दापयिता तथा ॥ १३ ॥
मत्स्वरूपं विना नान्यद् विद्यते भुवनत्रये ।
कर्ता च कारणं चाहं करणं मुनिसत्तम ॥ १४ ॥
॥ नारद उवाच ॥
इति तद्वचनं श्रुत्वा क्रोधेनाहं जगाद तम् ।
ईश्वराज्जगतः कर्ता नान्यः कश्चन विद्यते ॥ १५ ॥
त्वं तु धर्ममिमं राजन् दम्भेनैव करोषि किम ।
दर्शयिष्ये साक्ष्यमस्य स्वल्पकालेन तेऽनघ ॥ १६ ॥
इत्युक्त्वा तमहं यातस्त्वदन्तिकमिभानन ।
॥ कौण्डिन्य उवाच ॥
आकर्ण्येत्थं मुनेर्वाक्यं पूजयामास तं विभुः ॥ १७ ॥
अर्घ्यादिभिरलङ्कारैर्दिव्यैःपुष्पैः सचन्दनैः ।
मुनिराज्ञां प्रगृह्यैव वैकुण्ठं विष्णुमभ्यगात् ॥ १८ ॥
गजाननोऽपि मिथिलां राजभक्तिं परीक्षितुम् ।
कुत्सितं वेषमादाय सर्वज्ञोऽपि समाययौ ॥ १९ ॥
अनेकक्षतसंयुक्तं स्रवद्रक्तममङ्गलम् ।
मक्षिकानिचयाक्रान्तं रदहीनमिवातुरम् ॥ २० ॥
गच्छन्तं तादृशं दृष्ट्वा नरा नासानिरोधनम् ।
कुर्वन्ति वाससा केचित् ष्ठीवनं च यथातथा ॥ २१ ॥
स्खलन् मूर्छन् पतन् गच्छन्नर्भकावलिसंयुतः ।
नृपद्वारं समागम्य द्वारपालानुवाच सः ॥ २२ ॥
राज्ञे निवेद्यतां दूता अतिथि मां समागतम् ।
ब्राह्मणं क्षुधितं वृद्धमिच्छाभोजनकाङ्क्षिणम् ॥ २३ ॥
ते तद्वाक्यं तथाचख्युर्गत्वा तं जनकं नृपम् ।
आनीयतामिति प्राह दूता द्रष्टुं तु कौतुकम् ॥ २४ ॥
ते दूता प्रापयामासुः कुचैल मलिनं नृपम् ।
ददर्श दूराज्जनको कम्पन्तं मक्षिकावृतम् ॥ २५ ॥
असृक्स्रवन्तं वृद्धं तं ब्राह्मणं श्रमवारिणम् ।
तर्कयामास जनक ईश्वरो रूप धृङ् नु किम् ॥ २६ ॥
छलितुं मां समायातो यदि पुण्यं भवेन्मम ।
समाधास्ये मनो ह्यस्य भविष्यं नान्यथा भवेत् ॥ २७ ॥
इत्येवं चिन्तयत्येव जनके नृपसत्तमे ।
प्रवेशितो द्वारपालैर्ब्राह्मणः पर्यदृश्यत ॥ २८ ॥
॥ ब्राह्मण उवाच ॥
चन्द्रांशुधवलां कीर्तिं श्रुत्वा तेऽहं समागतः ।
देहि मे भोजनं राजन् क्षुधितस्य चिराद् भृशम् ॥ २९ ॥
मम तृप्तिर्भवेद् यावत् तावदन्नं प्रदीयताम् ।
तव क्रतुशतं पुण्यं भविष्यति नरेश्वर ॥ ३० ॥
॥ कौण्डिन्य उवाच ॥
इति वाचं निशम्यासौ गृहमध्ये निनाय तम् ।
सम्पूज्य विधिवच्चैनं स्वादवन्नमुपवेषयत् ॥
एकग्रासेन सर्वं स जग्रास द्विजसत्तमः ।
अयाचदन्नमन्यत् स नृपोऽदात् पर्वतोपमम् ॥ ३१ ॥
तदप्येकेन जग्रास कवलेन द्विजोत्तमः ।
यावदन्नं स्थितं सिद्धं पर्याप्तमयुतस्य यत् ॥
तद्दत्तं पुरतस्तस्य बभक्ष तत्क्षणेन सः ।
असङ्ख्यातेषु पात्रेषु पक्तुं क्षिप्ताः सुतण्डुलाः ॥ ३२ ॥
दीयते पुरतस्तस्य यः सिद्धश्चोदनोऽभवत् ।
स भक्षयति सर्वं तं तत ऊचे जनो नृपम् ॥ ३३ ॥
राक्षसोऽयं भवेत्प्रायः किमर्थं दीयते बहु ।
राक्षसेभ्यः प्रदानेन न किञ्चित् पुण्यमाप्यते ॥ ३४ ॥
केचिदूचुस्त्रिभुवने भक्षितेऽप्यस्य नो भवेत् ।
तृप्तिः परमिका राजन् धान्यमस्मै प्रदीयताम् ॥ ३५ ॥
ततो धान्यानि सर्वाणि गृहे भूमौ स्थितानि च ।
आनीय चिक्षिपुस्तस्य पुरग्रामगतानि च ॥ ३६ ॥
पुंसोऽस्य द्विजरूपस्य सर्वभक्षस्य चातिथेः ।
न तृप्तिमगमत्सोऽथ भक्षितेषु च तेषु च ॥ ३७ ॥
ततो दूता नृपं प्रोचुर्धान्यं क्वापि न लभ्यते ।
इति दूतवचः श्रुत्वा जनकेऽधोमुखे स्थिते ॥ ३८ ॥
स्वस्तीत्युक्त्वाऽगमद् विप्रो न तृप्तोऽसौ गृहं गृहम् ।
दीयतामन्नमित्याह ते जनास्तं जगुस्तदा ॥ ३९ ॥
सर्वेषां गृहगं धान्यं सर्वं राज्ञा समाहृतम् ।
जग्धं त्वयाऽखिलं ब्रह्मन् गम्यतां यत्र ते रुचिः ॥ ४० ॥
॥ द्विज उवाच ॥
कीर्तिरस्य श्रुता लोकान् न दाता जनकात्परः ।
तृप्तिकामः समायातो ह्यतृप्तोऽहं कथं व्रजे ॥ ४१ ॥
तूष्णीं भूतेषु लोकेषु बभ्रमन् स ददर्श ह ।
विरोचनात्रिशिरसोर्मन्दिरं द्विजयोर्वरम् ॥ ४२ ॥
तन्मध्यं प्राविशत् सोऽपि गृहस्वामीव सत्तया ।
सर्वोपस्काररहितं धातुपात्र विवर्जितम् ॥ ४३ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे राजा जनकस्य सत्वहरणम् नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-65

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...