श्रीगणेशपुराणे उपासनाखण्डे अष्टषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे अष्टषष्टितमोऽध्यायः
व्रतनिरूपणं

॥ शूरसेन उवाच ॥

अन्यां कथय शक्र त्वं गणनाथकथां पुनः ।
कृतवीर्यस्य जनकः किं चकार ततः परम् ॥ १ ॥
॥ इन्द्र उवाच ॥
श्रुत्वाऽख्यानं तु सङ्कष्टचतुर्थ्यां राजसत्तमः ।
दूर्वाख्यानं तु संश्रुत्वा चिन्ताविष्टो नृपोऽभवत् ॥ २ ॥


अपुत्रस्य गतिर्नास्ति पुत्रों मे भविता कथम् ।
स्वप्ने ददर्श पितरं कार्तवीर्यस्तथाविधः ॥ ३ ॥
सगद्गदाभ्यां कण्ठाभ्यां नोचतुस्तौ परस्परम् ।
आलिलिङ्गतुरन्योन्यं प्रेमविह्वलचेतसा ॥ ४ ॥
ततः पुत्रं करे धृत्वा पर्यङ्केऽस्थापयत् पिता ।
उवाच च त्वया पुत्र पुत्रार्थं बहुधा श्रमः ॥ ५ ॥
क्रियते चाहमप्येकमुपायं वच्मि तेऽनघ ।
मृत्युलोकादागतेन कथितं नारदेन मे ॥ ६ ॥
तदैवाहं गतः पुत्र ब्रह्मणः सदनं प्रति ।
पप्रच्छाऽहं नमस्कृत्य ब्रह्माणं सर्ववेदिनम् ॥ ७ ॥
कथं मे भविता पुत्रः सन्ततिः कमलासन ।
कथितं तेन सङ्कष्टचतुर्थीव्रतमुत्तमम् ॥ ८ ॥
॥ ब्रह्मोवाच ॥
अस्मिन् व्रते कृते पापक्षये जाते नृपोत्तम ।
सन्ततिस्तव पुत्रस्य भविष्यति न संशयः ॥ ९ ॥
॥ पितोवाच ॥
तदा तथैव लिखितं ब्रह्मणा कथितं यथा ।
गृहाण पुस्तकं चैतद् यथावत् कुरु तद् व्रतम् ॥ १० ॥
यावदब्दं समाप्येत तावत् सिद्धिविनायकः ।
प्रसन्नो भविता देवः सर्वसङ्कष्टहारकः ॥ ११ ॥
तस्मिन् प्रसन्ने पुत्रस्ते भविता नात्र संशयः
इत्युक्त्वाऽन्तर्हितस्तस्य पुत्रस्य जनको नृपः ॥ १२ ॥
जजागार ततो राजा कृतवीर्यस्तु वै बली ।
ददर्श पुस्तकं हस्ते स्वप्नार्थान् परिसस्मरे ॥ १३ ॥
मुमोचाश्रूणि नेत्राभ्यां शोकानन्दपरिप्लुतः ।
पितुर्वियोगाच्छोकार्त्तः पुस्तकाप्तेश्च हर्षितः ॥ १४ ॥
अमात्यास्तावदायाताः परिवार्याऽब्रुवन् नृपम् ।
॥ अमात्या ऊचुः ॥
जहि प्रमादं राजन् त्वं सावधानमना भव ॥ १५ ॥
त्यज शोकं वदास्मान् किं कारणं शोककारकम् ।
अस्मानपि समाविष्टस्त्वच्छोकाच्छोक उत्कटः ॥ १६ ॥
॥ इन्द्र उवाच ॥
श्रुत्वा वाक्यममात्यानां कृतवीर्यो जगाद तान् ।
मया स्वप्ने पिता दृष्टस्तेन मे विह्वलं मनः ॥ १७ ॥
पुस्तकं चैव सङ्कष्टचतुर्थीव्रतबोधकम् ।
दत्तं मम करे तेन पिदधे तत्क्षणाच्च सः ॥ १८ ॥
तद्वियोगेन शोचामि गतार्थं निर्धनो यथा ।
उक्तं च तेन मे वाक्यं पुत्रार्थं कुर्विदं व्रतम् ॥ १९ ॥
प्रबुद्धोऽहं यदामात्या हस्ते दृष्टं च पुस्तकम् ।
आश्चर्यहर्षशोकैश्चाप्यश्रु मुञ्चामि नान्यथा ॥ २० ॥
॥ अमात्या ऊचुः ॥
यः पिता सर्वलोकानां मनुष्योरगरक्षसाम् ।
स एव पितृरूपेण परितुष्टो गजाननः ॥ २१ ॥
उपायमवदत् ते स सन्तत्यै राजसत्तम ।
अन्यथा पुस्तकं क्वत्यं स्वप्नार्थः क्व प्रमा भवेत् ॥ २२ ॥
विना प्रसादं स्वप्नोऽपि विपर्ययमुदाहृतः ।
॥ इन्द्र उवाच ॥
इत्यमात्यवचः श्रुत्वा सावधानमना नृपः ॥ २३ ॥
आहूय परिपप्रच्छ पण्डितान् सुहृदोऽपि च ।
वदन्तु पुस्तकस्यार्थं प्रसादात्तस्य भो द्विजाः ॥ २४ ॥
त ऊचुः पुस्तकं दृष्ट्वा तस्यार्थं सर्वसंसदि ।
॥ द्विजा ऊचुः ॥
ब्रह्मणः कृतवीर्यस्य संवादोऽत्र महान् नृप ॥ २५ ॥
चतुर्थी सर्वसङ्कष्टनाशिन्यत्र निरूपिता ।
चन्द्रोदये गणेसशस्य पूजा प्रोक्ता सविस्तरा ॥ २६ ॥
अङ्गारकचतुर्थास्तु महिमा बहुशोऽपि च ।
तिथिदेवविधूनां च अर्घ्यदानं समन्त्रकम् ॥ २७ ॥
एकविंशतिविप्राणां भोजनं चैव पूजनम् ।
नानादानानि तेभ्यश्च देयानीति निरूपितम् ॥ २८ ॥
दूर्वासमर्पणफलं श्वेतदूर्वाफलं पृथक् ।
एतद् व्रतं महाभाग भाग्यात् प्राप्तं त्वयाऽनघ ॥ २९ ॥
न दुष्टं न श्रुतं लोके भविष्यत्युपकारकम् ।
श्रवणात् स्मरणाच्चापि सङ्कष्टहरणं नृणाम् ॥ ३० ॥
॥ इन्द्र उवाच ॥
श्रुत्वा तत्पण्डितमुखाद् राजा सर्वजनश्च ह ।
आश्चर्यानन्दसंयुक्तः पुपूजे स द्विजोत्तमान् ॥ ३१ ॥
वस्त्रालङ्काररत्नानि धनं धान्यं ददौ बहु ।
अत्रिमाहूय राजाऽपि गुरुं निजकुलस्य च ॥ ३२ ॥
सुमुहूर्ते ततोऽगृह्णात् परिपूज्य यथाविधि ।
देवं विनायकं तं च विद्यामेकाक्षरां शुभाम् ॥ ३३ ॥
जजाप मन्त्रं तमनन्यभक्त्या ध्यायन् गणेशं विजितेन्द्रियः स ।
व्रतं च चक्रे गणनाथतुष्ट्यै सुताप्तये सङ्कटनाशनं तत् ॥ ३४ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे व्रतनिरूपणं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-68

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...