श्रीगणेशपुराणे उपासनाखण्डे एकसप्ततितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकसप्ततितमोऽध्यायः
सङ्कष्टचतुर्थीव्रतोद्यापनाविधिः

॥ राजोवाच ॥

उद्यापनं कथं कार्यं व्रतस्याऽस्य महामते ।
तन्मे विस्तरतो ब्रूहि लोकानां हितकाम्यया ॥ १ ॥
॥ ब्रह्मोवाच ॥
प्रथमे मासि कर्तव्यं पञ्चमे सप्तमेऽथवा ।
उद्यापनं मनुष्येन्द्र व्रतसम्पूर्तिहेतवे ॥ २ ॥


पूर्वोक्तेन विधानेन पूजयेद् भक्तिमान्नरः ।
पुष्पमण्डपिकां कृत्वा नानावस्त्रविचित्रिताम् ॥ ३ ॥
कृत्वा तु सर्वतोभद्रं नानारङ्गविचित्रितम् ।
पूजयेत् तत्र देवेशं कलशोपरि पूर्ववत् ॥ ४ ॥
चन्दनेन सुगन्धेन पुष्पैर्नानाविधैरपि ।
नारिकेलफलेनैव दद्यादर्घ्यं समाहितः ॥ ५ ॥
तिथिनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ ६ ॥
लम्बोदर बमस्तुभ्यं सततं मोदक प्रिय ।
सङ्कष्टं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ ७ ॥
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भवे ।
गृहाणार्घ्यं मया दत्तं रोहिण्या सहितः शशिन् ॥ ८ ॥
भोज्यं भक्ष्यं च लेह्यं च पेयं चोष्यं निवेदयेत् ।
फलैरन्यैश्च बहुभिस्तोषयेद् गणनायकम् ॥ ९ ॥
आचार्यं वरयेत् तत्र ऋत्विजश्चैकविंशतिम् ।
गणानान्त्वेति मन्त्रेण ह्ययुतं होममाचरेत् ॥ १० ॥
अथवा मूलमन्त्रेण सहस्रं वा तदर्धकम् ।
अष्टोत्तरशतं चापि बलिदानं ततश्चरेत् ॥ ११ ॥
पूर्णाहुतिं ततः कुर्याद् वसोर्धाराञ्च पातयेत् ।
होमशेषं समाप्यैवं ब्राह्मणान् भोजयेत् ततः ॥ १२ ॥
वस्त्रयुग्मं च कलशान् दक्षिणासनसंयुतान् ।
तेभ्यो दद्याद् यथाशक्ति वित्तशाठ्यं न कारयेत ॥ १३ ॥
आचार्यं पूजयेत् पश्चाद् वस्त्रालङ्करणादिभिः ।
तस्मै भुक्तवते दद्याद् वायनं फलसंयुतम् ॥ १४ ॥
शूर्प पायससम्पूर्ण रक्तवस्त्रेण वेष्टितम् ।
सौवर्णं तं गणाधीशं तस्मै दद्यात् सदक्षिणम् ॥ १५ ॥
तिलानामाढकं दद्याद् व्रतसम्पूर्तिहेतवे ।
ततो गां कपिलां दद्यात् सवत्सां सविभूषणाम् ॥ १६ ॥
ततः क्षमापयेद् विप्रान् विघ्नेशः प्रीयतामिति ।
व्रतस्योद्यापनं कृत्वा हयमेधफलं लभेत् ॥ १७ ॥
॥ कृतवीर्यपितोवाच ॥
एवं मे ब्रह्मणादिष्टं व्रतं लोकोपकारतः ।
तदेतत् कथितं तेऽद्य कुरू पुत्रार्थमादरात् ॥ १८ ॥
॥ इन्द्र उवाच ॥
यथायथा समादिष्टं पित्रा तेन महाव्रतम् ।
तथा तथा कृतं तेन कार्तवीर्येण धीमता ॥ १९ ॥
व्याख्याय कथितं सम्यक् पण्डितैर्व्रतमुत्तमम् ।
सिद्धिबुद्धियुतां मूर्तिं स्थाप्य काञ्चननिर्मिताम् ॥ २० ॥
महामण्डपिकामध्ये ब्राह्मणैः पठ्यते क्वचित् ।
क्वचित् पुराणं पाण्डित्यं क्वचित् गायननर्तने ॥ २१ ॥
नानाविधानां वाद्यानां ध्वनयो निर्गता दिवम् ।
विवदन्ते जनाः क्वापि मध्यस्थाः केचनाऽभवन् ॥ २२ ॥
स तु राजा महाधीमान् जजाप परमं मनुम् ।
जप्त्वा हुत्वा पूजयित्वा भोजयित्वा द्विजान् बहून् ॥ २३ ॥
गा ददावयुतं तेभ्योऽलङ्कृतेभ्यो ह्यलङ्कृतः ।
दीनान्धकृपणेभ्योऽन्नं ददौ दानान्यनेकशः ॥ २४ ॥
सन्तुष्टानामाशिषं स पुत्रस्य जगृहे पुनः ।
तेषां द्विजानां तपतां सर्वदा सत्यवादिनाम् ॥ २५ ॥
आशिर्भिः स्वल्पकालेन ससत्त्वाऽभून्नृपाङ्गना ।
सुषुवे शुभवेलायां पुत्रं लक्षणसंयुतम् ॥ २६ ॥
ददौ दानान्यनेकानि पुत्रजन्मप्रहर्षितः ।
व्रतबन्धं विवाहं च काले तस्याऽकरोन्नृपः ॥ २७ ॥
ज्ञानविज्ञान सम्पन्नं पुत्रं राज्येऽभिषिच्य च ।
सत्पुत्रो भोगसम्पन्नो जगामान्ते पदं विभोः ॥ २८ ॥
ऋत्विग्भिः पण्डितैः सार्धं प्रेक्षकैः सकलैरपि ।
तस्य पुण्येन ते सर्वे गाणेशं धाम चागमन् ॥ २९ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे व्रतोद्यापनविधिनिरूपणं नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-71

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...