श्रीगणेशपुराणे उपासनाखण्डे षट्षष्टितमोऽध्यायः
विरोचना त्रिशिराभ्यां प्रदत्तयार्वया गजाननस्य तृप्तिः
॥ कौण्डिन्य उवाच ॥
धरामात्रासनौ तौ तु नभः प्रावारसंयुतैः ।
दिगम्बरो सर्वधातुसंस्पर्शवर्जितावुभौ ॥ १ ॥
अयाचितभुजौ नित्यं जलेनैवाखिलाः क्रियाः ।
द्विजरूपधरोऽपश्यत् कुर्वाणौ सत्त्वशुद्धये ॥ २ ॥
गृहं च मक्षिकापुञ्जैर्मशकैरभितो वृतम् ।
मूर्तिं च गणनाथस्य पूजितां पुष्पपल्लवैः ॥ ३ ॥
अनन्यभक्त्या ताभ्यां च तत्पराभ्यां ददर्श सः ।
तावूचे श्रूयतां वाक्यं यन्मया प्रोच्यतेऽनघौ ॥ ४ ॥
मिथिलाधिपतेः कीर्तिं श्रुत्वाहं क्षुधितो भृशम् ।
तृप्तिकामः समायातो न स तृप्तिं समाकरोत् ॥ ५ ॥
कर्मणा दाम्भिकेनैव सत्त्वं न परिरक्ष्यते ।
मम तृप्तिकरं किञ्चिद् गृहे चेदस्ति दीयताम् ॥ ६ ॥
॥ दम्पती ऊचतुः ॥
चक्रवर्ती नृपो योऽसौ तेन तृप्तिर्न ते कृता ।
आवाभ्यां तु दरिद्राभ्यां किं देयं तृप्तिकारकम् ॥ ७ ॥
नदी नद जलैरब्धिरसङ्ख्यैर्यो न पूर्यते ।
बिन्दुमात्रेण पयसा स कथं पूर्यते वद ॥ ८ ॥
॥ द्विज उवाच ॥
भक्त्या दत्तं स्वल्पमपि बहुतृप्तिकरं मम ।
अभक्त्या वाऽथ दम्भेन बहु दत्तं वृथा भवेत् ॥ ९ ॥
॥ तावूचतुः ॥
आवयोर्न गृहे किञ्चिच्छपथस्ते द्विजोत्तम ।
पूजायै गणनाथस्य प्रातर्दूर्वाङ्कुरा हृताः ॥ १० ॥
पूजितो गणनाथस्तैस्तत एकोऽवशिष्यते ।
॥ द्विज उवाच ॥
भक्त्या दत्तः स एकोऽपि तृप्तये स्यात् प्रदीयताम् ॥ ११ ॥
॥ कौण्डिन्य उवाच ॥
विरोचना ददौ तस्मै श्रत्वा वाक्यं तदीरितम् ।
एकं दूर्वाङ्कुरं भक्त्या तेन तृप्तोऽभवद्विजः ॥ १२ ॥
शाल्यन्नं पायसान्नं च नाना पक्वान्नमेव च ।
व्यञ्जनानि च सर्वाणि लेह्यचोष्यान्यनेकधा ॥ १३ ॥
विरोचना ददौ कल्प्य तस्मिन् दूर्वाङ्कुरे च तम् ।
गृहीत्वा ब्राह्मणस्तं तु बभक्ष परया मुदा ॥ १४ ॥
तस्मिन् दूर्वाङ्कुरे भक्त्या दत्ते तेनाथ भक्तितः ।
प्रशशाम द्विजस्यास्य तत्क्षणाज्जठरानलः ॥ ५ ॥
तृप्तिश्च परमा तेन प्राप्ता तत् क्षणमात्रतः ।
आलिलिङ्ग त्रिशिरसं तृप्तो हर्षाद् द्विजस्तदा ॥ १६ ॥
तत्याज कुत्सितं रूपं प्रकटोऽभूद गजाननः ।
चतुर्भुजोऽरविन्दाक्षः शुण्डादण्डविराजितः ॥ १७ ॥
कमलं परशुं मालां दन्तं करतलैर्दधत् ।
महार्हमुकुटो राजत्कर्णकुण्डलमण्डितः ॥ १८ ॥
दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः ।
उवाच तौ प्रसन्नात्मा दम्पती स गजाननः ॥ १९ ॥
वृणीतं तं वरं शीघ्रं मनसा यं यमिच्छथः ।
॥ तावूचतुः ॥
जन्मनी यत्र नौ स्यातां तत्र ते दृढभक्तिता ॥ २० ॥
मुक्तिर्वा दीयतां देव दुस्तराद् भवसागरात् ।
नावयोश्चित्तयोरन्यरपेक्षितमिभानन ॥ २१ ॥
॥ कौण्डिन्य उवाच ॥
इति तद्वाक्यमाकर्ण्य तथेत्युक्त्वा गजाननः ।
पुनरालिङ्ग्य पिदधे भक्तं त्रिशिरसं मुदा ॥ २२ ॥
एतस्मात्कारणाद् दूर्वाङ्कुरोऽस्मै दीयते मया ।
असङ्ख्यभक्षणाद् यो न तृप्तिं देवः समाययौ ॥ २३ ॥
दूर्वाङ्कुरेण चैकेन स तृप्तिं परमां ययौ ।
इति ते कथितः सम्यगाश्रये महिमा शुभः ।
दूर्वासमर्पणभवः श्रवणात् सर्वकामदः ॥ २४ ॥
इतिहासमिमं भक्त्या शृणुते श्रावयेच्च यः ।
स पुत्र धनकामाढ्यः परत्रेह च मोदते ॥ २५ ॥
गजानने लभेद् भक्तिं निष्कामो मुक्तिमाप्नुयात् ।
॥ गणा ऊचुः ॥
श्रुत्वापीत्थमितीहासमाश्रया संशयं पुनः ॥ २६ ॥
प्रपेदे हृदि तं ज्ञात्वा कौण्डिन्यः पुनरब्रवीत् ।
आश्रये शृणु मे वाक्यं संशयस्यापनुत्तये ॥ २७ ॥
यद् ब्रवीमि हृदिस्थस्य मया ज्ञातस्य तेऽनघे ।
एकं दूर्वाङ्कुरं गृह्य गच्छ शीघ्रं बिडौजसम् ॥ २८ ॥
वदाशीर्वचनं पूर्वं पश्चाद् याचस्व काञ्चनम् ।
दूर्वाङ्कुरेण तुलितं गृहीत्वा सदिहानय ॥ २९ ॥
न न्यूनं नाधिकं ग्राहयं तस्य भाराच्छुभानने ॥ ३० ॥
॥ गणा ऊचुः ॥
इति वाणीं तस्य श्रुत्वा गृहीत्वैकं तदाश्रया ।
दूर्वाङ्कुरं ययौ शक्रं भर्तृवाक्य परायणा ॥ ३१ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामहिमाकथनं नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें