श्रीगणेशपुराणे उपासनाखण्डे सप्तषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे सप्तषष्टितमोऽध्यायः
एकस्यापि दूर्वाङ्कुरस्य कौण्डिन्यपत्न्यै आश्रयप्रदाने सामर्थ्यम्

॥ गणा ऊचुः ॥
आज्ञप्ता तेन मुनिना स्वाभिप्रेतार्थसिद्धये ।
एक दूर्वाङ्कुरं गृह्य शक्रसन्निधिमाययौ ॥ १ ॥
तमुवाचाऽऽश्रया शक्र ! देहि मे काञ्चनं शुभम् ।
याचितुं त्वां समायाता भर्तृवाक्यात् सुरेश्वर ॥ २ ॥


॥ इन्द्र उवाच ॥
किमर्थं त्वमिहायाता यद्याज्ञा प्रेषिता भवेत् ।
मया सम्प्रेषितं स्यात् ते जातरूपं स्वशक्तितः ॥ ३ ॥
॥ आश्रयोवाच ॥
दूर्वाङ्कुरस्य तुलया यद् भवेत् काञ्चनं सुर ! ।
तद् गृहीष्ये शचीभर्तर्न न्यूनं न च वाधिकम् ॥ ४ ॥
॥ शक्र उवाच ॥
दूतैनां नय शीघ्रं त्वं कुबेरभवनं प्रति ।
सदास्यति सुवर्णञ्च दुर्वाङ्कुरमितं शुभम् ॥ ५ ॥
॥ गणा ऊचुः ॥
आज्ञया देवराज्यस्य देवदूतस्तया सह ।
प्रायात् कुबेरभवनं शक्रस्य वचनात् तदा ॥ ६ ॥
॥ दूत उवाच ॥
अस्यै दूर्वाङ्कुरमितं जातरूपं प्रदीयताम् ।
इन्द्रेण प्रेषिता साध्वी मुनिपत्नी मया सह ॥ ७ ॥
प्रापिता भवनं तेऽद्य यामि देव ! नमोऽस्तु ते ।
॥ कुबेर उवाच ॥
अत्याश्चर्यमहं मन्ये मुनिः शक्रस्तथाऽऽश्रया ॥ ८ ॥
मोहाविष्टा न जानन्ति दूर्वाङ्कुरमितं कियत् ।
काञ्चनं तेन किं वा स्याद् बहुलं किं न याचितम् ॥ ९ ॥
॥ गणा ऊचुः ॥
एवमेव ददौ तस्यै बहुलं काञ्चनं स ह ।
न जग्राह भयाद् भर्तुर्न्यूनाधिकविशङ्कया ॥ १० ॥
स्वर्णकारतुलायान्तं दूर्वाङ्कुरमधारयत् ।
नाभवत् तुलया तस्य पर्याप्तं तत्तु हाटकम् ॥ ११ ॥
वणिक्तुला समानीता तत्रापि नाभवत् समम् ।
तैलकारतुलायान्तु दूर्वाङ्करसमं न च ॥ १२ ॥
धटो बद्धस्ततस्तत्र हाटकं दत्तमेकतः ।
दूर्वाङकुरोऽपरत्रापि याति पत्रमधस्तदा ॥ १३ ॥
अन्यदन्यद् दधौ तत्र कुबेरः काञ्चनं बहु ।
तच्चापि नाभवत् तेन समं दूर्वाङ्कुरेण च ॥ १४ ॥
सर्व कोशगतं द्रव्यं दत्तं तेन गिरीन्द्रवत् ।
तथापि नाभवत् साम्यं तेन दूर्वाङ्कुरेण तत् ॥ १५ ॥
पत्नीमाहूय तां प्राह कुबेरः कौतुकान्वितः ।
कुरु मद्वाक्यतः सुभ्रु ! धटारोहणमग्रतः ॥ १६ ॥
न समं चेत् समारोक्ष्ये निजसत्त्वरिरक्षया ।
पतिव्रताऽऽज्ञया तस्य घटमारुरुहे तदा ॥ १७ ॥
न समा साऽपि तेनासीत् ततः सर्वां पुरीं ददौ ।
घटमध्ये कुबेरोऽसौ न चोर्ध्वं जायतेऽङ्कुरः ॥ १८ ॥
श्रुत्वा दूतमुखादिन्द्रो गजारूढः समाययौ ।
स्वकीयद्रव्यसहितो धटमारुरुहे स्वयम् ॥ १९ ॥
दूर्वाङ्कुरो न चोर्ध्वं स तथापि समजायत ।
अधोमुखो गतश्चिन्तां किमेतदिति चिन्तयन् ॥ २० ॥
विष्णुं हरञ्च सस्मार तत्रारोहणकाम्यया ।
तत्रागतौ सनगरौ धटमारुहतां तदा ॥ २१ ॥
तथापि नोर्ध्वमगमत् तदा दूर्वाङ्कुरं स्फुटम् ।
ततस्ते तत उत्तेरुः शिवविष्णुधनेश्वराः ॥ २२ ॥
वरुणेन्द्राग्निमरुतः कौण्डिन्यमभितो ययुः ।
देवा देवर्षयश्चैव सिद्धविद्याधरोरगाः ॥ २३ ॥
दिनान्ते समनुप्राप्ते स्वं नीडमिव पक्षिणः ।
नमस्कृत्य मुनिं सर्वे प्रोचुरुद्विग्नचेतसः ॥ २४ ॥
॥ सर्व ऊचुः ॥
वृजिनं विलयं यातं दर्शनात् तव भो मुने ।
पूर्वपुण्यभवादग्रे कल्याणं नो भविष्यति ॥ २५ ॥
तव पत्न्या हृतं सत्त्वं सर्वेषामद्य नः स्फुटम् ।
महिमानं न जानीमो दूर्वाङ्कुरसमुद्भवम् ॥ २६ ॥
एकदूर्वाङ्कुरतुलां त्रैलोक्यमपि नालभत् ।
गजाननशिरस्थस्य त्वया भक्त्याऽर्पितस्य च ॥ २७ ॥
जानीयान्महिमानं कः सम्यग् दूर्वाङ्कुरस्य ह ॥
यज्ञदानव्रततपः स्वाध्यायोऽपि न तत्समः ॥ २८ ॥
गजाननैकभक्तस्य जपतस्तपतोऽनिशम् ।
तवापि महिमानं को जानीयात् सर्वदेहिनः ॥ २९ ॥
एवमुक्त्वा मुनिं सर्वे पूर्वं पूज्य गजाननम् ।
सर्वे सभार्य पुपूजुस्तुष्टुवुर्ननृतुर्जगुः ॥ ३० ॥
न ब्रह्मा न हरिः शिवेन्द्रमरुतो, नाग्निर्विवस्वान् यमः
शेषोऽशेषकलानिधिश्च वरुणो, नो चन्द्रमा नाश्विनौ ।
नो वाचामधिपो न चैव गरुडो, नो यक्षराट् नाङ्गिरा
माहात्म्यं परिवेद देव ! नियमैरज्ञातरूपस्य ते ॥ ३१ ॥
एवं सन्तोष्य सर्वे ते देवदेवं गजाननम् ।
मुनिञ्च समनुज्ञाप्य ययुः स्वं स्वं निकेतनम् ॥ ३२ ॥
आश्रयाऽपि ततो ज्ञात्वा दूर्वामहात्म्यमुत्तमम् ।
विश्वस्त भर्तृवाक्ये सा दूर्वाभिः प्रत्यपूजयत् ॥ ३३ ॥
विघ्नेश्वरं सर्वदेवं सर्वैर्दुर्वाभिरर्चितम् ।
प्रणनाम च कौण्डिन्यं भर्तारं सत्यवादिनम् ॥ ३४ ॥
उवाच सुप्रसन्ना सा स्वात्मानं निन्दती भृशम् ।
॥ आश्रयोवाच ॥
मादृशी नैव दृष्टाऽस्ति या ते वाक्ये ससंशया ॥ ३५ ॥
विशेषविदुषां स्वामिन्! विशेषविदुषा त्वया ।
सम्यक् कृतं मम विभो ! सर्वभूतदयावता ॥ ३६ ॥
तत् क्षमस्वापराधं मे त्वामहं शरणागता ।
ततः प्रातः समुत्थाय दूर्वामादाय सत्वरौ ॥ ३७ ॥
स्नात्वा देवं समभ्यर्च्य दुर्वार्पणमकुर्वताम् ।
अनन्यभक्त्या ज्ञात्वा तौ दूर्वामाहात्म्यमुत्तमम् ॥ ३८ ॥
सायं प्रातर्देवदेवं पूजयन्तौ निरन्तरम् ।
त्यक्त्वा यज्ञं व्रतं दानं ज्ञात्वा देवो गजाननः ॥ ३९ ॥
कृपया परयाऽऽविष्टः स्वधाम प्रत्यपादयत् ।
॥ गणा ऊचुः ॥
अगाधं वर्णितं दूर्वामाहात्म्यमिदमुत्तमम् ॥ ४० ॥
अशेषवर्णने शेषो नेशो नेशौ हरीश्वरौ ।
त्रैलोक्यं तुलया यस्याः पत्रेणैवाऽभवत् समम् ॥ ४१ ॥
दूर्वेतिस्मरणात् पापं त्रिविधं विलयं व्रजेत् ।
तत्स्मृतौ स्मर्यते देवो यतः सोऽपि गजाननः ॥ ४२ ॥
इति चिन्तामणिक्षेत्रमहिमा वर्णितः स्फुटम् ।
श्रवणात् कीर्तनात् ध्यानाद् भुक्तिमुक्तिफलप्रदः ॥ ४३ ॥
एतस्मात् कारणाद् यानं त्रयाणां प्रेषितं शुभम् ।
रासभस्य मुखाद् दूर्वा गता देवे वृषस्य च ॥ ४४ ॥
चाण्डाल्या शीतनाशाय त्वानीता तृणभारतः ।
वायुना प्रबलेनापि गता दूर्वा गजानने ॥ ४५ ॥
यतस्तस्य प्रिया दूर्वा सन्तुष्टोऽसौ विनायकः ।
निष्पापत्वात् त्रयाणां स सान्निध्यं दत्तवान् निजम् ॥ ४६ ॥
गन्धमात्रेण दूर्वायाः सन्तुष्टो जायते विभुः ।
प्रसङ्गेन तु भक्त्या वा किं पुनर्मस्तकार्पणात् ॥ ४७ ॥
॥ ब्रह्मोवाच ॥
इति दूतमुखाद् राज्ञा स श्रुतो महिमा तदा ।
दूर्वाया मुनिभिः सर्वैर्न दृष्टो न च संश्रुतः ॥ ४८ ॥
स्नात्वा दूर्वाङ्करान् गृह्य पुपूजुस्ते विनायकम् ।
सेवकाश्चापि दूर्वाभिरानर्चुः श्रीगजाननम् ॥ ४९ ॥
आसन् सर्वे दिव्यदेहास्तेजसा सूर्यवर्चसः ।
शृण्वन्तो देववाद्यानां नानारावान् समन्ततः ॥ ५० ॥
विमानवरमारूढा दिव्यवस्त्रानुलेपिनः ।
याता वैनायकं धाम केचित् तद्रूपधारिणः ॥ ५१ ॥
नरा नागरिकाः केचिदागतास्तं महोत्सवम् ।
द्रष्टुं दुर्वाभिरानचुरेकविंशतिभिः पृथक् ॥ ५२ ॥
भुक्त्वा भोगाँश्च ते सर्वे गाणेशस्थानमागमन्।
विमानं चापि चलितमूर्ध्वं तत् पुण्यपुञ्जतः ॥ ५३ ॥
तस्माद् गणेशभक्तेन कार्यं दूर्वाभिरर्चनम् ।
न करोति नरो यस्तु प्रमादात् ताभिरर्चनम् ॥ ५४ ॥
स चाण्डालस्तु विज्ञेयो नरकान् प्राप्नुयाद् बहून् ।
न तन्मुखं निरीक्षेत कदाचिदपि मानवः ॥ ५५ ॥
यस्तु दूर्वाभिरर्चेत् तं देवदेवं गजाननम् ।
तस्य दर्शनतोऽन्योऽपि पापः शुद्धिमवाप्नुयात् ॥ ५६ ॥
अलाभे बहदुर्वाणामेकयैवाऽभिपूजयेत् ।
तेनापि कोटिगुणिता कृता पूजा न संशयः ॥ ५७ ॥
॥ ब्रह्मोवाच ॥
इति नानाविधो राजन् ! महिमा कथितस्तव ।
सेतिहासस्तु दुर्वाणां श्रवणात् पापनाशनः ॥ ५८ ॥
नाख्येयो दुष्टबुद्धेस्तु प्रिये पुत्रे निवेदयेत् ।
॥ इन्द्र उवाच ॥
इति ब्रह्ममुखाच्छ्रुत्वा परमाख्यानमुत्तमम् ॥ ५९ ॥
ननन्द परमप्रीतो ननाम कमलासनम् ।
तदाज्ञया ययौ स्थानं स्वकीयं विस्मयान्वितः ॥ ६० ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे दूर्वामाहात्म्यं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-67

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...