श्रीगणेशपुराणे उपासनाखण्डे अशीतितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे अशीतितमोऽध्यायः
रामोपाख्याने और्ध्वदैहिकसंस्कारोपदेश

॥ ब्रह्मोवाच ॥

रेणुका तु गते तस्मिन् शुशोच भृशविह्वला ।
क्व गता मम पुत्रास्ते संहारेऽस्मिन्नुपस्थिते ॥ १ ॥
मृते भर्तरि किं कुर्यां बाणजालसमावृता ।
क्व गतोऽसौ महाक्रोधी रामो मे प्रियबालकः ॥ २ ॥


तस्मिन् दृष्टे मम प्राणा गमिष्यन्ति सुरालयम् ।
स्मृतमात्रस्तया रामो ययौ मातुस्तदाऽन्तिकम् ॥ ३ ॥
बाणजालचितां तां च पितरं मृतमैक्षत ।
कार्तवीर्येण दुष्टेन दृढबाणहतं हृदि ॥ ४ ॥
पपात मूर्च्छया भूमौ वातभग्न इव द्रुमः ।
पितरं मातरं चैव रुरोद भृशदुःखितः ॥ ५ ॥
॥ राम उवाच ॥
अद्यान्धकारः सर्वत्र अद्य शून्या दिशो दश ।
मेरूर्विना यथा पृथ्वीशक्रहीनाऽमरावती ॥ ६ ॥
नाश्रमः शोभते तद्वत् पित्रा हीनोऽयमद्य मे ।
त्रिलोकी गङ्गया हीना तद्वदाश्रम मण्डली ॥ ७ ॥
न शोभते रेणुकया हीनाऽप्याश्रमण्डली ।
गतं भयं तु देवानां मुनयोऽद्य निरीश्वराः ।
यदासीत् तपसा चास्य किमयं वा ग्रहिष्यति ॥ ८ ॥
एवं बहुविधाकारं चक्र आक्रन्दनं तु सः ।
अचेष्टत भृशं रामो मत्स्यो नीरं विना यथाम् ॥ ९ ॥
ततः पुनर्मातरं स रुदन्नेव समाययौ ।
निष्कासयामास शरानङ्के कृत्वा शिरोधराम् ॥ १० ॥
चक्रन्द च पुना रामो मातृदुःखेन दुःखितः ।
त्रैलोक्यं भस्मसात् कर्तुं या क्षमा जननी मम ॥ ११ ॥
सा कथं पतिता भूमौ दुष्टबाणप्रपीडता ।
न विस्मरसि मां नित्यं क्षणं क्रीडागतं पुरा ॥ १२ ॥
त्यक्त्वा मां कथमद्य त्वं कुत्र वा गन्तुमुद्यता ।
ददासि मे पयो भूरि वस्त्राण्यन्नानि शोभने ॥ १३ ॥
फलमूलानि चारूणि यासि त्यक्त्वा कथं नु सा ।
मातापितृभ्यां हीनस्य धिङ्मे जीवितमद्य मे ॥ १४ ॥
॥ ब्रह्मोवाज ॥
इति पुत्रवचः श्रुत्वा रेणुका भृशदुःखिता ।
प्रमृज्याश्रूणि पुत्रस्य जगाद भृशविह्वला ॥ १५ ॥
अहं ते निकटे स्थास्ये न शोकं कर्तुमर्हसि ।
शृणु वार्तां पुरा वृत्तां राजाऽसौ कृतवीर्यजः ॥ १६ ॥
मध्यान्हे सह सैन्येन प्राप्तः आश्रममण्डलम् ।
पित्रा ते मानितः सम्यग् भोजितो बलसंयुतः ॥ १७ ॥
कामधेनोः प्रसादेन भुक्त्वाऽयाचत धेनुकाम् ।
तूष्णीं भूते मुनौ कोपात् कामधेनुं मुमोच सः ॥ १८ ॥
स्पृष्टमात्रा च सा धेनुः ससर्ज बलमुत्कटम् ।
चतुरङ्गं ततो युद्धमभवद् राजसैनिकैः ॥ १९ ॥
भग्नास्तेऽप्यपलन् सर्वे राजा युद्धमथाकरोत ।
स च पञ्चशतं बाणान् वारं वारमथासृजत् ॥ २० ॥
सोऽपि भग्नो गृहं यातः काम धेनुर्दिवङ्गता ।
पुनरागत्य दुष्टोऽसौ बाणेनैकेन वक्षसि ॥ २१ ॥
जघान पितरं कोपादेकविंशतिसायकैः ।
अपराधं विना मां च ताडयित्वा खलो गतः ॥ २२ ॥
तस्मात्त्वयाऽद्य दुष्टस्य नाशः शीघ्रं विधीयताम् ।
एकविंशति वारं च कुरु निःक्षत्रियां धराम् ॥ २३ ॥
एकविंशति बाणा मे देहे तेन यतोऽर्पिताः ।
अन्यदेकं वदे पुत्र तत्कुरुष्व वचो मम ॥ २४ ॥
संस्कारं कुरु नौ तत्र यत्र कोऽपि न दाहितः ।
दत्तात्रेयं मुनिवरमाकार्य सर्ववेदिनम् ॥ २५ ॥
कुरु कर्मान्तरं नौ त्वं त्रयोदशदिनावधि ।
तदैव गतिमाप्स्यावो नान्यो वक्तास्ति तादृशः ॥ २६ ॥
इत्युक्त्वा रेणुका देहं त्यक्त्वा धामाप दुर्गमम् ।
रामस्तत् सर्वमकरोत् तयादिष्टं महामनाः ॥ २७ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे रामोपाख्याने और्ध्वदैहिकसंस्कारोपदेशोनाम अशीतितमोऽध्यायः ॥ ८० ॥


कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...