श्रीगणेशपुराणे उपासनाखण्डे
अष्टसप्ततितमोऽध्यायः
कार्तवीर्येण (सहस्रार्जुनेन) कामधेनुं नेतुं प्रयत्नः
॥ ब्रह्मोवाच ॥
ततो मुनिः शिष्यगणमुवाच त्वरया व्रज ।
आकारयितुं नृपतिं नदीतीरनिवासिनम् ॥ १ ॥
ते शिष्यास्तं नृपं गत्वा गृह्य तत् प्रणतिं पुरा ।
दत्वाऽऽशीर्वर्चनं तस्मै मुनेराज्ञां तथाऽब्रुवन ॥ २ ॥
चल राजन्नवहितो भोजनाय ससैनिकः ।
पात्राणि परिविष्टानि सङ्ख्यातीतानी षड्रसैः ॥ ३ ॥
॥ ब्रह्मोवाच ॥
तत उत्थाय राजाऽसौ समाहूय ससैनिकान् ।
सुस्नातः सर्वसैन्येन कार्तवीर्यो नृपो ययौ ॥ ४ ॥
मुनिवेश्म ततोऽपश्यन्न दृष्टं न च वै श्रुतम् ।
एतादृशं त्रिलोकेषु गृहतोरणमाप सः ॥ ५ ॥
स निषिद्धो वेत्रधरैर्मुनिसङ्केतकामुकैः ।
ते निषिद्धाः शिष्यगणैस्ततोऽगाद् भोजनालयम् ॥ ६ ॥
स्थित्वा मध्ये पश्यति स्म राजाऽसौ सम्पदं मुनेः ।
अमन्यत तदा स्वान्ते नेदृशी श्रीर्हरौ हरे ॥ ७ ॥
पालकेऽपालके स्रष्टर्यपि ब्रह्मणि नेदृशी ।
ततो मुनिः पुरो भूत्वा प्रतिपात्रे न्यवेशयत् ॥ ८ ॥
राजानुमतिमाज्ञाय पङ्क्तौ पङ्क्तौ ससैनिकान् ।
दापयामास पात्राणि ये बहिर्भोजिनश्च तान् ॥ १ ॥
उपविष्टेषु सर्वेषु राजानमुपवेशयत् ।
बुभुजुस्ते तदा वाद्ये वादिते सर्व एव हि ॥ १० ॥
अदृष्टपूर्वाण्यन्नानि स्वादुमूलफलानि च ।
परस्परं च पप्रच्छुः किमिदं किमिदन्त्विति ॥ ११ ॥
आश्चर्यं मेनिरे सर्वे यामेनेत्थं कथं कृतम् ।
यथेष्टं भुञ्जते सर्वे तृप्ताश्चान्नानि तत्यजुः ॥ १२ ॥
ते प्रक्षालनपात्राणि प्रतिपात्रे न्यवेदयन् ।
मुनिशिष्याश्जलं चापि शलाका अपि चारवः ॥ १३ ॥
गजाश्ववृषवृन्देभ्यः शिष्याः शेषान्नमर्पयन् ।
ततोऽन्यस्मिन् गृहे सर्वे विस्तीर्णे कृतसंस्तरे ॥ १४ ॥
इक्षुद्राक्षाम्रपनस दाडिमानि बभक्षिरे ।
एलालवङ्गकर्पूर चूर्णखादिरपूगकान् ॥ १५ ॥
जगृहुर्मुनिदत्तांस्ते नागवल्लीदलैर्युतान ।
ततो ददावलङ्कारान् वासांसि च मुदा मुनिः ॥ १६ ॥
तेभ्यो यथार्हं सर्वेभ्यो राजेऽनर्घ्येतराणि च ।
॥ मुनिरुवाच ॥
किं मया भोजनं देयं मुनिना वन्यवृत्तिना ॥ १७ ॥
अवाप्तसर्वकामाय राज्ञे ते विष्णुरूपिणे ।
यशोऽकारि त्रिलोके मे त्वया मद्वाक्यकारिणा ॥ १८ ॥
जमदग्नेर्गृहे राज्ञा ससैन्येन भुजिः कृता ।
अतिपुण्यवतो लोके साधुशब्दः प्रयुज्यते ॥ १९ ॥
महान् क्षुद्रस्य वाक्यं चेत् कुरूते सोऽपि साधुताम् ।
प्राप्नोति सर्वलोकेषु कीर्तिं स्फीतां समुत्कटाम् ॥ २० ॥
मद्वाक्यकरणे तेऽपि दूरेऽरिष्टं गतं महत् ।
॥ ब्रह्मोवाच ॥
इति वाणीं समाकर्ण्य जमदग्निसमीरिताम् ॥ २१ ॥
पप्रच्छ राजा तं तत्र विस्मयाविष्टमानसः ।
॥ राजोवाच ॥
नादर्शि प्रथमं किञ्चिदिदं किं मायया कृतम् ॥ २२ ॥
तपः प्रभावाद् वाऽकारि सत्त्वं मे वद सुव्रत ।
॥ मुनिरुवाच ॥
अनृतं नोक्तपूर्वं मे परिहासेऽपि वा नृप ॥ २३ ॥
अतः सत्यं ब्रवीमि त्वां कामधेन्वाऽखिलं कृतम् ।
॥ ब्रह्मोवाच ॥
कुमतिस्तस्य भवति यस्य दैवमदक्षिणम् ॥ २४ ॥
अनिष्टं बलवद् भावि दुष्टग्रहकृतं मुने ।
भुक्त्वा तृप्तोऽपि राजाऽसौ सम्यक् स बलवाहनः ॥ २५ ॥
आदाने कामधेनोः स मतिं चक्रेऽब्रवीदिदम् ।
॥ राजोवाच ॥
मुनीनां शान्तचित्तानां कन्दमूलफलाशिनाम् ॥ २६ ॥
मनसा सृष्टिसंहारकर्तॄणामस्पृहावताम् ।
जितेन्न्द्रियाणां विज्ञानां नेक्षे धेन्वा प्रयोजनम् ॥ २७ ॥
वन्यमारुतभक्ष्याणां मोक्षसाधनकारिणाम् ।
वेदाभ्यसनशीलानां सम्पदा किं प्रयोजनम् ॥ २८ ॥
शास्त्रपाठनशीलानां धर्मशास्त्रार्थवेदिनाम् ।
योगाभ्यासरतानां च कामधेनोः प्रयोजनम् ॥ २९ ॥
कार्याय महते स्यात्तु महद्वस्तु महद्गतम् ।
अरण्यवासिने तुभ्यं महद्रत्नं च नोचितम् ॥ ३० ॥
तस्माद् देया कामधेनुर्मम ब्रह्मन् मुदा त्वया ।
मयि स्थिता तवैवास्ति चेतसि त्विति धार्यताम् ॥ ३१ ॥
मर्यादां रक्ष तां ब्रह्मन्नुक्तमेवं पुरस्तव ।
नो चेद् राज्ञां किमग्राह्यं लोकेषु बलशालिनाम् ॥ ३२ ॥
स्वराष्ट्रे परराष्ट्रे वा चतुरङ्गबलैः सह ।
॥ ब्रह्मोवाच ॥
श्रुत्वैवं वचनं तस्य कार्तवीर्यस्य दुर्मतेः ॥ ३३ ॥
प्रतिजज्वाल रोषेण जमदग्निर्महामुनिः ।
सर्पिषा बहुलेनैव जातवेदा यथा द्विजः ॥ ३४ ॥
उवाचारक्तनयनः शिक्षयन्निव भूमिपम् ।
॥ मुनिरुवाच ॥
साधुः शुद्धो महान् राजा प्रार्थितो भोजनाय हि ॥ ३५ ॥
कौटिल्यं तव न ज्ञातं बकस्येव हृदि स्थितम् ।
यथा वा कोकीला काकबालं पुष्णाति मायया ॥ ३६ ॥
अन्ते तत्काकभावेन भक्ष्याभक्ष्यरतिं व्रजेत् ।
अहमेवाभवं भ्रान्तो य इमां राजमित्रताम् ॥ ३७ ॥
न दृष्टां न श्रुतां लोके नानुभूतां च केनचित् ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्योपाख्यानं
नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें