श्रीगणेशपुराणे उपासनाखण्डे त्रिसप्ततितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे त्रिसप्ततितमोऽध्यायः
कृतवीर्यपुत्राय प्रवालक्षेत्रानुष्ठानं गणेशदर्शनं, (कृतवीर्येण) सहस्रभुजानां च प्राप्तिः

॥ इन्द्र उवाच ॥

गुरुपदिष्टं मन्त्रं जजाप नियमेन सः ।
ध्यायनन् गजाननं देवं निष्ठामास्थाय नैष्ठिकीम् ॥ १ ॥
वायुभक्षो निराहारो लोष्ठपाषाणसन्निभः ।
एवं द्वादशवर्षाणि व्यतीतानि तपस्यतः ॥ २ ॥


हस्तपादविहीनस्य बालकस्य महात्मनः ।
निर्वाणं तस्य तदृष्ट्वा द्वादशाब्दं गजाननः ॥ ३ ॥
तडागमध्यादुत्तस्थौ प्रवालमयमूर्तिगः ।
उवाच सम्मुखो भूत्वा निष्ठाभक्तिसुतोषितः ॥ ४ ॥
॥ गणेश उवाच ॥
निर्जनेऽस्मिन् वने यस्मात् सिंहव्याघ्रनिषेविते ।
निकुंज बहुलेऽतिष्ठद् यतो द्वादशवार्षिकम् ॥ ५ ॥
अतस्तेऽहं वरं दास्ये श‍ृणु यत्ते मनोगतम् ।
श्रुत्वा वाणीं तदुदितामास्थितो देहभावनाम् ॥ ६ ॥
कृतवीर्यसुतो नत्वा प्रोवाच द्विरदाननम् ।
श‍ृण्वत्सु सर्वमुनिषु विमानस्थेषु भूरिशः ॥ ७ ॥
॥ पुत्र उवाच ॥
त्वत्पादयुगले देव भक्तिरव्यभिचारिणी ।
अस्तु मे सततं नान्यदुत्साहो मे प्रयाचितुम् ॥ ८ ॥
तथापि याचे देवेश पित्रोः सन्तोषहेतवे ।
शरीरे चारुतां देहि सर्व सन्तोषकारिणीम् ॥ ९ ॥
॥ इन्द्र उवाच ॥
श्रुत्वा वाक्यं तदीयं तु मायावी स गजाननः ।
अणिमानं समास्थाय विवेशोदरमादरात् ॥ १० ॥
तस्मिन् प्रविष्टे पुत्रोऽसौ दिव्यदेहोऽभवन्नृप ।
सहस्रभुजवान् जातः कृतवीर्यात्मजस्तदा ॥ ११ ॥
ऋजुपादद्वययुतः स्थितः पर्वतसन्निभः ।
ववर्षुः पुष्पवर्षाणि देवा देवर्षयोऽपि च ॥ १२ ॥
तुष्टुवस्तं च देवं च गीतवादित्रनिस्वनैः ।
जगर्ज कार्तवीर्योऽसौ सहस्रभुजमण्डितः ॥ १३ ॥
तस्य शब्दं समाकर्ण्य घनगर्जितसन्निभम् ।
समवर्ती भृशं त्रस्तः परेषां गणना कुतः ॥ १४ ॥
पृथिव्यां सर्वराजानः समकम्पन्त तद्भयात् ।
अयं पञ्चशतं बाणान् सङ्ग्रामे मोचयेदिति ॥ १५ ॥
ब्रह्मादयस्ततो यानादुत्तीर्याथ तमब्रुवन् ।
स्मरणात् तव देवानां प्राप्तिः स्याद् गतवस्तुनः ॥ १६॥
हृदिस्थं सर्वलोकानामामयं त्वं विनेष्यसि ।
यतः साक्षाद् विष्णुरूपः सहसस्रार्जुनसंज्ञया ॥ १७ ॥
त्रिषु लोकेषु विख्यातो यावत्कल्पं भविष्यसि ।
साधुत्राणे च निरतः शरणागतपालकः ॥ १८ ॥
विजेता सर्वशत्रूणां पृथिवी मण्डलाधिपः ।
इति नाना वरान् दत्वा पिदधुर्देवतागणाः ॥ १९ ॥
हस्त्यश्व नरयानानि छत्रचामर दीपिकाः ।
रथानुपायनान्यन्यान्याजह्रुरखिला नृपाः ॥ २० ॥
ततः संस्थापयामास महाप्रासादमध्यगाम् ।
प्रावालीं गणनाथस्य मूर्तिं द्विजपुरःसरः ॥ २१ ॥
प्रवालगणपश्चेति तस्य नाम दधुर्द्विजाः ।
ददौ ग्रामान् ब्राह्मणेभ्यः पूजायै स्थापिताश्च ये ॥ २२ ॥
प्रवालक्षेत्रमिति तत् पप्रथे भुवि सिद्धिदम् ।
तत्र शेषो धरां धर्तुमनुष्ठानपरोऽभवत् ॥ २३ ॥
प्राप तस्माद्गणेशात् तु वरान् बहुतरानपि ।
धराधरणसामर्थ्यं सर्वज्ञत्वं तथैव च ॥ २४ ॥
मूर्ध्ना सहस्रं श्रैष्ठ्यं च नवनागकुलेष्वपि ।
अति सन्तुष्ट मनसा तेन यत् स्थापितं पुरा ॥ २५ ॥
धरणीधर इत्येवं द्वितीयं नाम पप्रथे ।
स्मरतां श‍ृण्वतां चापि सर्वकामफलप्रदम् ॥ २६ ॥
सम्पूज्य सर्वान् द्विजपुङ्गवांस्तान् राज्ञश्च सर्वाननुपृच्छ्य चैतान् ।
सहस्रबाहुर्नगरं स्वकीयं द्रष्टुं स्वमातापितरावथागात् ॥ २७ ॥
तौ तं जहृषतुर्दृष्ट्वा नगरं च तथाविधम् ।
ददतुर्द्विजमुख्येभ्यो नानादानानि सर्वशः ॥ २८ ॥
॥ इन्द्र उवाच ॥
अभ्यधायि तु सङ्कष्टचतुर्थीमहिमाऽदभुतः ।
कृतवीर्य सुताच्चायं मृत्युलोकं गतः शुभः ॥ २९ ॥
अनुभूतः सुरगणैश्चन्द्रसेनादिभिर्नृपैः ।
अतिपुण्यतमश्चायं स्मरणादपि सिद्धिदः ॥ ३० ॥
एतत्प्रसादात् सम्प्राप्ता रावणेनाखिलाज्ञता ।
एतत् प्रसादात् सम्प्राप्ता पुरा राज्यं च पाण्डवैः ॥ ३१ ॥
एतद् व्रतस्य यत्पुण्यं हस्ते मे दीयते यदि ।
तदैव तद् विमानं तु प्रचलेदमरावतीम् ॥ ३२ ॥
॥ क उवाच ॥
इति शक्रमुखात्तस्य व्रतस्य महिमा श्रुतः ।
शूरसेनेन भूपेन स्वानन्दाब्धौ निमज्जता ॥ ३३॥
वन्दिते पादकमले शक्रस्य प्रतिगर्जिता ।
तमुवाच ततः प्रीतः शूरसेनो नृपोत्तमः ॥ ३४॥
श्रुत्वा कथां दिव्यरूपां चतुर्थीव्रतसम्भवाम् ।
॥ स उवाच ॥
फलितं पूर्वपुण्यं मे येनाश्रावीदृशं व्रतम् ॥ ३५॥
न ह्येतस्मात् पुण्यतरं त्रिषु लोकेषु किञ्चन ।
इत्युक्त्वा शक्रमारेभे व्रतं कर्तुं स्वयं ततः ॥ ३६॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे कृतवीर्यपुत्राय प्रवालक्षेत्रानुष्ठानं गणेशदर्शनं, (कृतवीर्येण) सहस्रभुजानां च प्राप्तिः नामत्रिसप्ततितमोऽध्यायः ॥ ७३ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-73

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...