श्रीगणेशपुराणे क्रीडाखण्डे एकाशीतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकाशीतितमोऽध्यायः
गणेशाविर्भाव

॥ क उवाच ॥

ततः सा पार्वती हृष्टा सखीजनमगान्निजम् ।
वृत्तान्तं सर्वमाचरख्यौ हृष्टरूपोऽपि सोऽभवत् ॥ १ ॥
ततः प्रभृति सा देवी गुणेशमानसाऽभवत् ॥
पश्यति स्माऽन्यबालं सा गुणेशोऽयं भवेदिति ॥ २ ॥


गृहितुं धावति तदा तन्मात्रा सा निषिध्यते ॥
न क्वापि विश्रमं याति गुणेशध्यानतत्परा ॥ ३ ॥
तन्नाम जपते नित्यं तन्मयं लोकते जगत् ।
पप्रच्छ च सखीः सर्व गुणेशो यास्यते कदा ॥ ४ ॥
पित्रा मे कथितं पूर्वं व्रतमीशाप्तये शुभम् ।
पार्थिवस्य गणेशस्य पूजनं च यथाविधि ॥ ५ ॥
तेन व्रतप्रभावेण प्राप्ताऽस्मि शङ्करं प्रियम् ।
पुनस्तदाचरिष्यामि गुणेशप्राप्तयेऽधुना ॥ ६ ॥
ततो भाद्रचतुर्थ्यां सा कृत्वा मूर्तिं मुदान्विता ।
उपचारैः षोडशभिः पुपूज च गजाननीम् ॥ ७ ॥
षड्भिर्ध्यानादिकैः पञ्चामृतैर्वस्त्रैरनेकशः ।
यज्ञोपवीतगन्धैश्च धूपदीपैर्यथाविधि ॥ ८ ॥
नानापुष्पैश्च नैवेद्यैर्नानाविधफलैरपि ।
ताम्बूलैरार्द्रपूगैश्च लवङ्गादिसमन्वितैः ॥ ९ ॥
दूर्वाभिश्च शमीपत्रैर्दक्षिणाभिरनेकशः ।
आरार्तिक्यैर्विचित्रैश्च मन्त्रपुष्पैः स्तवैरपि ॥ १० ॥
प्रदक्षिणाप्रार्थनाभिर्बाह्मणानां च पूजनैः ।
परितुष्टा मूर्तिरसौ पार्थिवी चेतनामगात् ॥ ११ ॥
तदैव प्रभया तस्याः कोटिसूर्यप्रभा जिता ।
कल्पानलार्चिर्विजिताऽनन्तचन्द्रप्रभा हृता ॥ १२ ॥
हतनेत्रप्रभा गौरी मूर्च्छिता पतिता भुवि ।
मुहूर्तात् सावधाना सा प्रोवाच जगदीश्वरम् ॥ १३ ॥
किं मया विकृतं देवपूजनेन च तर्कये ।
अभिचारोऽथवा केन प्रयुक्तोऽयं न वेद्मि तं ॥ १४ ॥
कथं मे विफलो यत्नो जातो देव कृपानिधे ।
॥ क उवाच ॥
श्रुत्वेत्थं वचनं तस्याः सौम्यतेजा अभूत्प्रभुः ॥ १५ ॥
सा तदैवाभवद् हृष्टा बालं वीक्ष्य पुरोगतम् ।
असङ्ख्यवक्त्रनयनमसङ्ख्याङ्घ्रिशिरोधरम् ॥ १६ ॥
असङ्ख्यमुकुटं सूर्यचन्द्राग्निलोचनं विभुम् ।
मुक्तामणिमयीं मालां बिभ्रन्तं दीप्तिमत्परम् ॥ १७ ॥
अनेकायुधहस्तं च सर्वावयवसुन्दरम् ।
दृष्ट्वा तु पार्वती रूपं पवित्रं परमाद्भुतम् ॥ १८ ॥
अतर्कयच्चेतसा सा निमील्य नयने शुभे ।
कम्पमानाङ्गयष्टिः सा कर्तव्यं नाभ्यपद्यत ॥ १९ ॥
चिन्तितं किं मया दृष्टमरिष्टमद्भुतं नु किम् ।
उन्मील्य नयनेऽपश्यद् दिव्यदृष्टिर्धरात्मजा ॥ २० ॥
तावच्छिवोपदिष्टं तदवेदीच्च जगाद च ।
॥ पार्वत्युवाच ॥
अस्यैव मायया भ्रान्ता न जानामि विभुं प्रभुम् ॥ २१ ॥
पप्रच्छ तं ततः कस्त्वं कुत आगमनं तव ।
किमर्थं त्वं गुणेशश्चेद्द् भवितासि वदस्व माम् ॥ २२ ॥
॥ क उवाच ॥
इति तद्वचनं श्रुत्वाऽवदत् स पुरुषो महान् ।
स्वनेन नादयन्सर्वा दिशो विदिश एव च ॥ २३ ॥
॥ देव उवाच ॥
यं ध्यायसि दिवारात्रावनुष्ठानवती शुभे ।
सोऽहं गुणेशस्ते गेहेऽवतीर्णः परमः पुमान् ॥ २४ ॥
परात्परतरो यस्मादवदं त्वा वरार्थिनीम् ।
यास्ये ते पुत्रतां देवि यत्कृत्यं मे श‍ृणुष्व तत् ॥ २५ ॥
उभयोः सेवनं कार्यं सिन्धुदैत्यविनाशनम् ।
अमराणां पदप्राप्तिं कृत्वा यास्ये निजं पदम् ॥ २६ ॥
॥ क उवाच ॥
पीत्वा वाक्यामृतं तस्य प्रीता सा गिरिजात्मजा ।
उवाचेह परं भाग्यं परमं मे तपः फलम् ॥ २७ ॥
नायकोऽनन्तकोटिनां ब्रह्माण्डानां विभुर्मया ।
दृष्टश्चिदानन्दघनो यस्मात् सृष्टमनेकशः ॥ २८ ॥
पञ्चभूतानि ब्रह्मेशौ हरिश्चन्द्रेन्द्रभास्कराः ।
नक्षत्राणि च गन्धर्वा यक्षा मुनिगणा द्रुमाः ॥ २९ ॥
शैलाः पक्षिगणाः सर्वे भुवनानि चतुर्दश ।
स्थावरं जङ्गमं यस्मात् सचेतनमचेतनम् ॥ ३० ॥
स त्वं मम कुमारत्वं प्राप्तोऽसीति विडम्बनम् ।
अथ त्वां प्रार्थये देव प्राकृतो भव साम्प्रतम् ॥ ३१ ॥
येन ते लालनं कुर्या सेवनं परमादरात् ।
॥ क उवाच ॥
यावद्वदति सैवं तु ददर्श पुरतस्तु तम् ॥ ३२ ॥
षड्भुजञ्चन्द्रसुभगं लोचनत्रयभूषितम् ।
सुनासं सुभ्रु वदनं स्थूलवक्षसमीश्वरम् ॥ ३३ ॥
ध्वजाङ्कुशोर्ध्वरेखाब्जचिह्नितं पादपङ्कजम् ।
कोटिस्फटिकसङ्काशं कोटिचन्द्रप्रभं विभुम् ॥ ३४ ॥
हेमतारानिभान् केशान् दधन्तं बालरूपिणम् ।
कुर्वन्तं प्रथमं शब्दं कम्पयन्तं वसुन्धराम् ॥ ३५ ॥
जनाः स्थानानि मर्यादां तत्यजुस्तस्य शब्दतः ।
नीरसा वृक्षनिचयाः सपल्लवचयास्तदा ॥ ३६ ॥
जाता गावो बहुक्षीरास्त्रैलोक्यं जहृषे पुनः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिरथापतत् ॥ ३७ ॥
दृष्ट्वा बालं तु गिरिजा हस्ताभ्यां जगृहे मुदा ।
स्नापयामास पयसा तप्तेन स्नेहभावतः ॥ ३८ ॥
प्रस्नुतौ पाययामास स्तनौ परमहर्षिता ।
शिवोऽपि जहृषे तेन शिशुना परमेण ह ॥ ३९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशाविर्भावो नामैकाशीतितमोऽध्यायः ॥ ८१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-81

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...