श्रीगणेशपुराणे उपासनाखण्डे
द्विसप्ततितमोऽध्यायः
कार्तवीर्यप्रादुर्भावः
॥ शुरसेन उवाच ॥
व्रते जाते कथमभू तयोः पुत्रः शतक्रतो ।
तत्सर्वं मे वद विभो विस्तरात् परिपृच्छतः ॥ १ ॥
॥ इन्द उवाच ॥
किं किं न जायते राजन् परितुष्टे गजानने ।
प्रसादात् तस्य सा राज्ञी गर्भं दध्रे नृपस्य यत् ॥ २ ॥
प्रसूता नवमे मासि मङ्गलं पुत्रमैक्षत ।
द्विस्कन्धं चारुवदनं बाहुहस्तविवर्जितम् ॥ ३ ॥
सुनासं पद्मनयनमूरूजानुविवर्जितम् ।
जङ्घापादविहीनन्तं दृष्ट्वा माता रुदोद ह ॥ ४ ॥
॥ सा उवाच ॥
दुर्भगायाः कथमभूदीदृशो बालको मम ।
करपादविहीनोऽयं कथं दत्तो गजानन ॥ ५ ॥
आसं शुभाऽहं वन्ध्यैव किमीदृक्पुत्रवत्यहम् ।
कथं न जातो नाशो मे पूर्वजन्मकृतैनसः ॥ ६ ॥
कथं प्रसादः फलितस्तवापि द्विरदानन ।
कथं ब्राह्मणवाक्यानि निष्फलानीदृशानि मे ॥ ७ ॥
पाणिभ्यां निघ्नती वक्षो ललाटं च मुहुर्मुहुः ।
तस्यां रुदत्यां सर्वास्ता रुरुदुस्तत्र यास्थिताः ॥ ८ ॥
तासां कोलाहलं श्रुत्वा नृपोऽपि तत्र चागमत् ।
तस्यापि रुदितं श्रुत्वा प्रधाना अपि चागमन् ॥ ९ ॥
तेषां च रुदितं श्रुत्वा नागरा रुरुदुस्तदा ॥ १० ॥
॥ राजोवाच ॥
कथं दीनानुकम्पित्वं तव देव गजानन ।
कथं दया कृता तेऽद्य मह्यमेवं प्रदर्शिता ॥ ११ ॥
कथं स्मरणमात्रेण पापानि हरसेऽनघ ।
जपस्तपः स्मृतिर्दानं पूजनं द्विजतर्पणम् ॥ १२ ॥
अनुष्ठानं तथा होमः सर्वं व्यर्थङ्गतं मम ।
तस्माद् दैवं हि बलवत् प्रयत्नस्तु निरर्थकः ॥ १३ ॥
न ज्ञायते कर्मगतिः कदा किं वा भविष्यति ।
मूषक प्राप्यते यद्वत् पर्वतस्य विदारणात् ॥ १४ ॥
तथा मेऽजनि पुत्रेऽयमाजन्मकृतयत्नतः ।
तत ऊचुः प्रकृतयो नृपं शोकाकुलं तदा ॥ १५ ॥
॥ प्रधाना ऊचुः ॥
अलं शोकेन भूपाल कथं भाव्यन्यथा भवेत् ।
रामः किं न मृगं वेद तत्पृष्टं गत एव सः ॥ १६ ॥
धर्मराजो न किं वेद निषिद्धं द्यूतकर्म तत् ।
तथापि स गतो रन्तुं सर्वं हित्वा वनं गतः ॥ १७ ॥
चारुता न भवेदस्य भृशमाक्रन्दिते सति ।
अदृष्टं चेद्भवेत् सम्यगग्रे चारुरयं भवेत् ॥ १८ ॥
पुष्पं फलं वा कालेन यथा याति महीरूहाम् ।
तथा कालेन भविता सम्यक् च पृथिवीपतिः ॥ १९ ॥
॥ इन्द्र उवाच ॥
इत्यमात्य वचः श्रुत्वा सावधानोऽभवन्नृपः ।
उवाच नृपपत्नीं तामुत्तिष्ठोतिष्ठ मा शुचः ॥ २० ॥
स्वयं च सुमना राजा समाहूय द्विजोत्तमान् ।
गणेशपूजनं चक्रे स्वस्तिवाचनमेव च ॥ २१॥
कृत्वाऽभ्युदयिक श्राद्धं ददौ दानान्यनेकशः ।
माल्यालङ्कारवासांसि गावो रत्नान्यनेकशः ॥ २२॥
सुहृत्सम्बन्धिभृत्येभ्यो वस्त्राणि विविधानि सः ।
नानावादित्रजीवेभ्यो ददौ राजा यथार्हतः ॥ २३॥
बन्दिचारणदीनान्धकृपणेभ्यश्च सर्वशः ।
गृहे गृहे च ताम्बूल शर्करां दापयच्च सः ॥ २४ ॥
कार्तवीर्येति नामास्य चकारैकादशेऽहनि ।
भोजयामास नगरं महोत्साहपुरःसरम् ॥ २५ ॥
ततो द्वादश वर्षाणि व्यतितानी सुतस्य ह ।
आययौ स्वेच्छया तस्य दत्तात्रेयस्तदा गृहम् ॥ २६ ॥
पादयोः स्वशिरः स्थाप्य कृतवीर्यो ननाम तम् ।
आलिलिङ्ग मुनिस्तं स उत्थाय नृपसत्तमम् ॥ २७ ॥
उपविश्यासने रम्ये पूजयामास सादरम् ।
विष्टरं पाद्यमर्घ्यं च गां च वस्त्रोपवीतकम् ॥ २८ ॥
ददौ धूपं च दिपं च नैवेद्यं विविधं फलम् ।
उद्वर्तनं च ताम्बूलं रत्नकाञ्चनदक्षिणाम् ॥ २९ ॥
सुप्रसन्नं सुखासीनं पादसंवाहनादिभिः ।
उवाच राजा सम्यक् तं दत्तात्रेयं महामुनिम् ॥ ३० ॥
जन्मजन्मातरीयं मे पुण्यं फलितमद्य वै ।
यच्चर्मचक्षुषां जातं साक्षात्ते दर्शनं मुने ॥ ३१ ॥
अग्रे शुभतरं भावि प्रसादात्तव सुव्रत ।
यतो भवादृशां नैव दर्शनं पापकर्मणाम् ॥ ३२ ॥
कृतवीर्यवचः श्रुत्वा दत्तात्रेयस्तमब्रवीत् ।
अपूर्वं तनयं तेऽद्य द्रष्टुकामोऽहमागतः ॥ ३३ ॥
तत आनन्दयुक्तोऽसौ नृपः प्राह मुनिं पुनः ।
॥ नृप उवाच ॥
अनुष्ठानं तपो दानं वृथा मम गतं व्रतम् ॥ ३४॥
जगदीशेन दत्तोऽयं पुत्रो हृच्छल्य एव सः ।
अनेनाऽदर्शनीयेन गतश्चादर्शनीयताम् ॥ ३५ ॥
॥ इन्द्र उवाच ॥
आनीय बालकं तस्मै मुनयेऽदर्शयन्नृपः ।
आच्छादयन्नेत्रकञ्जे तत्सुतं वीक्ष्य सन्मुनिः ॥ ३६ ॥
ज्ञात्वा ध्यानेन तत्कर्म मुनिस्तं पुनरब्रवीत् ।
अयमेव सुतों राजन् कर्ता सर्वान् विजित्य ह ॥ ३७॥
नाचान्तोऽसि विजृम्भ्य त्वं सङ्कष्टीव्रतजागरे ।
निन्दितो व्रतराजस्तु सर्वसङ्कष्टनाशनः ॥ ३८॥
अङ्गहीनः सुतो जात उपायात् साङ्गतामियात् ।
॥ राजोवाच ॥
ऋतमुक्तं त्वया स्वामिन् कृपां कृत्वा वदस्व मे ॥ ३९॥
येनोपायेन साङ्गो मे त्वत्प्रसादात् सुतो भवेत् ।
॥ इन्द्र उवाच ॥
मुनिः स कृपयाविष्टस्तत्सुताय तदाऽब्रवीत् ॥ ४०॥
मन्त्रमेकाक्षरं साङ्गं तत ऊचे पुनश्च तम् ।
आराधनं गणेशस्य मन्त्रेणानेन भक्तितः ॥ ४१॥
उपवासैकभक्तानां नियमान् कुरू सुव्रत ।
द्वादशाब्दं ततस्तुभ्यं दर्शनं स च दास्यति ॥ ४२॥
तद्दृष्टिपातमात्रेण दिव्यदेहो भविष्यसि ।
इत्युक्त्वा नृपमामन्त्र्य पिदधे मुनिपुङ्गवः ॥ ४३॥
गते मुनौ ततः पुत्रः पादहीनो महामनः ।
जगाद कृतवीर्यं स गहनं प्रापयसस्व माम् ॥ ४४॥
गजानन प्रसादार्थमनुष्ठानं करोम्यहम् ।
रुदित्वा पितरौ तस्य शृत्वा वाणीं तदीरिताम् ॥ ४५॥
अप्रेषयद् वनं चारु नरयानेन तं पिता ।
भृत्याः पर्णकुटीमध्ये संस्थाप्य नगरं ययुः ॥ ४६॥
तस्थौ तत्र स्वयं सम्यक् तपसे कृतनिश्चयः ॥ ४७॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्यप्रादुर्भावो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें