श्रीगणेशपुराणे उपासनाखण्डे एकोनाशीतितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकोनाशीतितमोऽध्यायः
कामधेनुनोत्पन्नेन सैन्येन कार्तवीर्यस्य पराभवः जमदग्नेश्च हत्या

॥ मुनिरुवाच ॥

उपकारस्त्वयाऽऽरम्भि साधुवृत्तानुसारिणा ।
आत्मघातं पुरस्कृत्वा कामधेनुं त्वमिच्छसि ॥ १ ॥
भ्रान्तोऽसि नृप सत्यं त्वमप्राप्यं योऽभिवाञ्छसि ।
त्रैलोक्यनाशजं पापं तव मूर्ध्नि पतिष्यति ॥ २ ॥


॥ ब्रह्मोवाच ॥
इति वाक्शरविद्धोऽसौ प्रलयानलसन्निभः ।
राजा बभूव रोषेण मुखादनलमुद्वमन् ॥ ३ ॥
उवाच परमक्रुद्धो जमदग्निं मुनिं तदा ।
॥ राजोवाच ॥
न मया दुष्टवचनं कस्यापि श्रूयते शठ ॥ ४ ॥
किं करोमि द्विजोऽसि त्वमिति क्षान्तं वचः कटु ।
॥ ब्रह्मोवाच ॥
तत उत्थाय राजाऽसौ दूतानाज्ञाप्य सत्वरम् ॥ ५ ॥
मुक्त्वा कीलात् कामधेनुं शीघ्रं यान्तु ममान्तिकम् ।
आवेष्टयंस्तदा दूताः कामधेनुं तदाज्ञया ॥ ६ ॥
फूत्कारेणैव तस्यास्ते त्यक्त्वा प्राणान्दिवं ययुः ।
अन्यान्क्रोधानलेनासौ राजदूतान् ददाह च ॥ ७ ॥
श्वासमारुतवेगेन व्योम्नि वीराः परेऽभ्रमन् ।
आच्छाद्य मण्डलं भानोर्न प्राज्ञायत किञ्चन ॥ ८ ॥
दिशः सतिमिरा जाता व्योमापि न च भासते ।
धराकम्पः समभवद् वृक्षाः पेतुः प्रकम्पिताः ॥ ९ ॥
सैनिकाश्च ततो भीता यान्ति सर्वे दिशो दश ।
केनचित्ताडिता सा गौः कशाघातेन दूरतः ॥ १० ॥
उड्डीयोड्डीय सा धेनुरधावत् सैन्यमेव तत् ।
गजवृन्दं यथा सिंहो गरुत्मानुरगानिव ॥ ११ ॥
हाहाकारो महानासीद् वीराणां तत्र धावताम् ।
तानुवाच न भीः कार्या कार्तवीर्यो महाबली ॥ १२ ॥
मया ध्माते मुदा शङ्खे भीता यास्यति मन्दिरम् ।
कामधेनुः कियच्चास्ति पश्यन्तु कौतुकं मम ॥ १३ ॥
ततो दध्मौ महाशङ्खं त्रैलोक्यं पूरयन् रवैः ।
न बिभ्यत् कामधेनुस्तां ताडयामासुरोजसा ॥ १४ ॥
यष्टिभिर्लोहनिचयैः सर्वे ते राजसेवकाः ।
यत्र यत्र प्रहारोऽस्याः शरीरे जायते ततः ॥ १५ ॥
सन्नद्धाः सर्वशस्त्राढ्या नानावीराः विनिःसृताः ।
शकाश्च बर्बरा आसंस्तस्या केशसमुद्भवाः ॥ १६ ॥
पटच्चराः पाददेशादेवं सर्वै प्रजज्ञिरे ।
नानायवनजातीया नानावीरास्तथाऽपरे ॥ १७ ॥
वाजिवारणसङ्घाश्च रथिनो बलवत्तराः ।
ते चैव युयुधुस्तत्र कार्तवीर्यस्य सैनिकैः ॥ १८ ॥
न्यपतन् कार्तवीर्यस्य सैनिकास्तैः प्रहारिताः ।
अपरे मिलितास्तत्र निशि वृक्षे पतङ्गवत् ॥ १९ ॥
परस्पराघातहता निपेतुः शतशो नराः ।
भङ्क्त्वा शस्त्रैश्च शस्त्राणि मल्लयुद्धं प्रचक्रिरे ॥ २० ॥
एवं सुतुमुले जन्ये शस्त्रेषु निपतत्सु च ।
स्वीयो वा परकीयो वा न प्राज्ञायत किञ्चन ॥ २१ ॥
रजसाच्छादिते सूर्ये जघ्नुरेवं परस्परम् ।
कोलाहलो महानासीद् हन्यतां हन्यतामिति ॥ २२ ॥
हेषितैर्बृंहितैःक्ष्वेडैर्निबिडो रथनेमिभिः ।
मृदङ्गताल वेणूनां भेरीणां निनदैरपि ॥ २३ ॥
एवं गव्यैः कार्तवीर्यै रथ्यश्वगजपत्तिभिः ।
अभवत् सुमहद् युद्धं भूतराक्षसभीतिदम् ॥ २४ ॥
पक्षिजम्बूकसुखदं वीरपत्नीभयप्रदम् ।
केषाञ्चिज्जानुनी भग्ने केषाञ्चिच्च शिरांसि च ॥ २५ ॥
खड्गखेटकभल्लान्नां शराणां धनुषामपि ।
भग्नानां न च सङ्ख्याऽस्ति वीराणां रथिनामपि ॥ २६ ॥
प्रपेतुः कार्तवीर्यस्य शेषा ये सैनिकास्तदा ।
पृष्ठलग्ना ययुर्गव्या हसन्तो न च जघ्निरे ॥ २७ ॥
निनिन्दुर्मुनिना किं वोऽनिष्टं कृतमितीह ते ।
पूर्वदोषप्रसङ्गेन राज्ञो जाता सुदुर्मतिः ॥ २८ ॥
एवं प्रभग्ने सैन्ये स उत्तस्थौ कृतवीर्यजः ।
हस्तयोर्जगृहे पञ्च शतं बाणान् धनूंषिच ॥ २९ ॥
दत्त्वा भूमौ वामजानुं धनूंष्याकृष्य वेगवान् ।
चिक्षेप शरजालं स गव्ये सैन्ये महाभुजः ॥ ०० ॥
फलहीनमभूत्तस्य शरजालं नृपस्य तत् ।
अनीतेश्चरितं तद्वद् वन्ध्यायाः सुरतं यथा ॥ ३१ ॥
पुनः पुनर्जहौ बाणांस्तावतो राजसत्तमः ।
कामधेनोर्न चैकोऽपि वीरो भग्नोऽभवत्तदा ॥ ३२ ॥
शरजाले वृथा याते सन्तप्तोऽभून्नृपस्तदा ।
क्व गतं मम सामर्थ्यमिति चिन्तातुरोऽभवत् ॥ ३३ ॥
व्याकुले न प्रहर्तव्यमिति सर्वं ययुर्दिवम् ।
कामधेनुर्मदा युक्ता किं युद्धं लघुना सह ॥ ३४ ॥
गतायां कामधेनौ स कार्तवीर्यो मुनिं ययौ ।
रोषेणोवाच ते ब्रह्मन कापट्यं विदितं मया ॥ ३५ ॥
न स विप्रोऽभिमन्तव्यो यस्य स्यात्कपटं हृदि ।
इत्येकं बाणमादाय विव्याध द्विजपुङ्गवम् ॥ ३६ ॥
लग्ने हृदि महाबाणे प्राणत्यागं चकार सः ।
रेणुका तं नृपं प्राह ब्रह्महत्या वृथा कृता ॥ ३७ ॥
स ऊचे रक्तनयनः क्रोधाविष्टो नृपस्तु ताम् ।
तूष्णीं तिष्ठ न चेद् हन्मि त्वामपीह मुनिप्रिये ॥ ३८ ॥
एकविंशतिबाणैस्तां दुष्टो राजाऽहनद् रुषा ।
सस्मार मनसा साऽपि जमदग्निं मुनिं तदा ॥ ३९ ॥
पश्चादुवाच नृपतिं दुष्ट चाण्डाल किं कृतम् ।
अपराधं विना कस्मादावां निहतवानसि ॥ ४० ॥
तवापि भविता नाशो भुजानां नात्र संशयः ।
श्रुत्वेत्थं वचनं तस्यास्ततो यातो नृपस्तदा ॥ ४१ ॥
अल्पावशिष्टसैन्येन चिन्ताक्रान्तो ययौ पुरीम् ।
विन्निदन् हृदि चात्मानं शोचंश्च मृतसैनिकान् ॥ ४२ ॥
निरुत्साहो निरुद्योगो विवेश निजमन्दिरम् ॥ ४३ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे कार्तवीर्योपाख्याने एकोनाशीतितमोऽध्यायः ॥ ७९ ॥


कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...