श्रीगणेशपुराणे उपासनाखण्डे चतुःसप्ततितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे चतुःसप्ततितमोऽध्यायः
चाण्डाल्युपाख्यानं

॥ व्यास उवाच ॥

ब्रह्मन् कथं कृतं तेन शूरसेनन भूभुजा ।
सेतिहासं शक्रमुखात् श्रुत्वा सादरमुत्तमम् ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततः स्वदूतान् प्राहेदं गच्छन्तु नगरं प्रति ।
स आनेयस्तु सङ्कष्टचतुर्थीव्रतकारकः ॥ २ ॥


ते दूतास्त्वरया याताः पप्रच्छुस्ते गृहं गृहम् ।
ददृशुर्भ्रममाणास्ते विमानं सुन्दर शुभम् ॥ ३ ॥
याऽभवद् दुष्टचाण्डाली गलत्कुष्ठा स्रवन्मुखा ।
मक्षिकाकृमिभारेण दुर्गन्धेन समावृता ॥ ४ ॥
शुष्कोदरी दीर्घकेशा शुष्कदन्ताक्षिनासिका ।
अत्यन्तमलिना दीर्घश्रोत्ररन्ध्रा घनस्वना ॥ ५ ॥
नेतुं तामीदृशीं दूतैरानीतां गणपस्य हि ।
अत्याश्चर्यमिदमिति राजदूताः प्रणम्य ताम् ॥ ६ ॥
ऊचुस्ते देवदूताँस्तान् गणनाथस्य किङ्करान् ।
अत्यन्तं कुत्सिता जात्या हीनेयं स्वर्गगा कथम् ॥ ७ ॥
केयमासीत्पुरा दूताः कथमीदृग् बभूव च ।
केन पुण्येन युष्माभिः स्वर्गं तु नियते कथम् ॥ ८ ॥
एतद् वदन्तु सर्वं नो यदि वक्तुं क्षमं भवेत् ।
॥ देवदूता ऊचुः ॥
आसीत् बङ्गालविषये शारङ्गधरनामतः ॥ ९ ॥
क्षत्रियस्तस्य कन्येयं सुन्दरा नाम सुन्दरी ।
पिककण्ठा शशिमुखी रतिलावण्यजित्वरी ॥ १० ॥
यद्दास्य करणे नार्हाः प्रसिद्धा अष्टनायिकाः ।
योगिनामपि या चेतः कटाक्षेन विमोहयेत् ॥ ११ ॥
युवानो मुमुचुः शुक्रं केचित् तद्रूपवीक्षणात् ।
जारमार्गेषु निरता साऽभवद् विश्वमोहिनी ॥ १२ ॥
महार्हवस्त्रालङ्कारा नानाविषयभोगिनी ।
बङ्गालनगरे ख्याता वेश्येवासीद् गतत्रपा ॥ १३ ॥
भर्तारं चित्रनामानं वञ्चयत्येव सर्वदा ।
व्ययादसङ्ख्यद्रव्यस्य पित्रा सम्पादितं पुरा ॥ १४ ॥
कदाचिच्छयने तं सा हित्वा सुन्दरवेषभृत् ।
निशीथे चलिता तेन हस्तेऽधारि रूषावशात् ॥ १५ ॥
उवाच भर्त्सयंस्तां च चित्रनामा पतिस्तदा ।
धिक् त्वां पापसमाचारे या जारे निरताऽनिशम् ॥ १६ ॥
तद्वाक्यमित्थमाकर्ण्य शान्तकोपाऽभवत् तदा ।
अभक्ष्यभक्षणेनासौ मत्ता बलवती भृशम् ॥ १७ ॥
अन्धे तमसि सङ्गृह्य शस्त्रिकां दक्षहस्ततः ।
तया तदुदरं भित्वा चित्रनामपतेस्तदा ॥ १८ ॥
गता तं पुरुषं रन्तुं यो जारो मनसि स्थितः ।
यावत्सा रमते तत्र तावत्पर्यन्तवासिना ॥ १९ ॥
जाग्रता चरितं तस्या ज्ञात्वा राज्ञे निवेदितम् ।
तददूतास्तमसि स्थित्वा तावत् सा गृहमागता ॥ २० ॥
दधुस्तां राजदूतास्ते निन्यू राजसमीपतः ।
निजघ्नुस्तां बहिर्नीत्वा दूता राजाज्ञया तदा ॥ २१ ॥
सा नीता नरके घोरे यमदूतैस्तदायज्ञा ।
अधोमुखी स्थिता तत्र सन्दष्टा कृमिभिर्भृशम् ॥ २२ ॥
अत्यन्तं बुभुजे दुःखं स्मरन्ती पूर्वचेष्टितम् ।
कल्पान्ते मृत्युलोकेऽभूच्चाण्डाली दुर्भगा भृशम ॥ २३ ॥
एकदा मदिरां पीत्वा मत्ता सुप्ता दिवैव सा ।
निशायां प्रथमे यामे प्रबुद्धा क्षुधिता भृशम् ॥ २४ ॥
तदैव भिक्षितुं याता गृहं सा व्रतकारिणः ।
तेनान्नमस्यै दत्तं यत् तया भुक्तं विधूदये ॥ २५ ॥
गणेशेति च जल्पन्त्या स्वेच्छया दैवयोगतः ।
तदैव गणनाथेन विमानं प्रेषितं शुभम् ॥ २६ ॥
॥ ब्रह्मोवाच ॥
देवदूतवचः श्रुत्वा पुनरूचुर्नमस्य ते ।
॥ राजदूता ऊचः ॥
इदमत्यद्भुतं दृष्टमस्माभिः कार्यकारिभिः ॥ २७ ॥
राज्ञा यदुपदिष्टं नो वाक्यमेतन्निबोधत ।
शक्रो गृत्समदं दृष्टुं विमानवरमास्थितः ॥ २८ ॥
भृशण्डिमाययौ देवैर्दृष्ट्वा नत्वा प्रपूज्य तम् ।
तदनुज्ञां च पूजां च गृहीत्वा स्वां पुरीं ययौ ॥ २९ ॥
गच्छतस्तस्य यानं तच्छूरसेनपुरेऽपतत् ।
कुष्ठिनो वैश्यपुत्रस्य दृष्टिपातेन तत् क्षणात् ॥ ३० ॥
शूरसेनो गतस्तत्र नमस्कृत्य प्रपूज्य तम् ।
विमान पतनेऽपृच्छदुपायं गमनेऽपि च ॥ ३१ ॥
इन्द्रेणोक्तं तु सङ्कष्टचतुर्थी व्रत सम्भवात् ।
पुण्यात् प्रस्थास्यते यानं तदर्थे यत्नमाचर ॥ ३२ ॥
वयं तदाज्ञया दूतास्तं गवेषितुमागताः ।
अनया चेद् व्रतमिदं देवदूताः कृतं यदि ॥ ३३ ॥
तर्हीयं नीयतां शूरसेनं भूमिपतिं प्रति ।
श्रेयो दास्यति चाण्डाली सङ्कष्टीव्रतसम्भवम् ॥ ३४॥
पुनर्द्विगुणपुण्येयं विमानं प्रति यास्यति ।
विमानमपि शक्रस्य स्वपुरीमागमिष्यति ॥ ३५ ॥
युष्माकमस्या अस्माकं कार्यं राज्ञः शचीपतेः ।
एवं कृते तु भविता क्रियतां यदि रोचते ॥ ३६ ॥
इति तद्वचनं श्रुत्वाऽभिदधुर्देवसेवकाः ।
आज्ञानो नो गणेशस्यास्तीमां दातुं परस्य हि ॥ ३७ ॥
इत्युक्त्वा तां समुत्थाय विमाने निदधुर्यदा ।
तदैव सा दिव्यकान्तिर्दिव्यवस्त्राङ्गभूषणा ॥ ३८ ॥
देवदूतैस्तु सा नीता दिव्यवादित्रनिःस्वनैः ।
गजाननसमीपे सा राजदूता यथागतम् ॥ ३९ ॥
ययुस्ते शूरसेनं तं वृत्तान्त समनुब्रुवन् ।
ब्रुवत्सु तेषु तद्यानं चाण्डाल्या सह संव्रजेत् ॥ ४० ॥
तदृशुस्ते दीप्यमानं भासयत् प्रदिशो दिशः ।
तस्या दृष्टिर्निपतिता तस्मिन् याने शचीपतेः ॥ ४१ ॥
विमानवायुसंस्पर्शाद् विमानमूर्ध्वमाययौ ।
पश्यत्सु सर्वलोकेषु विस्मितेषु सुरर्षिषु ॥ ४२ ॥
स्वं स्वं स्थानं ययुः सर्वे शक्रे यातेऽमरावतीम् ।
साऽपि वैनायकं धामं सम्प्राप्ता दिव्यदेहभाक् ॥ ४३ ॥
पापं हित्वा तु सङ्कष्टचतुर्थीव्रतपुण्यतः ।
इदं यः शृणुयात् सम्यक् श्रावयेद् वा प्रयत्नतः ॥ ४४ ॥
प्राप्नुयात् सकलान् कामान् सङ्कष्टनाशनं नरः ॥ ४५ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे चाण्डाल्युपाख्यानं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-74

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...