श्रीगणेशपुराणे उपासनाखण्डे एकोनषष्टितमोऽध्यायः

श्रीगणेशपुराणे उपासनाखण्डे एकोनषष्टितमोऽध्यायः
चतुर्थीव्रतकथनं

॥ राजोवाच ॥

कुम्भीपाकाद् विनिःसृत्य तेषु यातेषु वै दिवम् ।
कमुपायं स कृतवान् कृतवीर्यपिता तदा ॥ १ ॥


॥ शक्र उवाच ॥
ब्रह्मलोकं जगामाशु ददर्श कमलासनम् ।
दुःखितो नारदाच्छृत्वा वंशविच्छेदमात्मनः ॥ २ ॥
प्रणम्य तमपृच्छत् स वंशविच्छेदकारणम् ।
मम पुत्रोऽतिधर्मात्मा वदान्यो यज्ञकारकः ॥ ३ ॥
देवतातिथिभक्तश्च मान्यमानयिता भृशम् ।
नानाविधप्रयत्नं स पुत्रार्थं कृतवान् विधे ॥ ४ ॥
तथापि नाभवत् कस्मात् तस्य पुत्रः सुरेश्वर ।
राज्यं प्रकृतिसात् कृत्वा वायुभक्षः स्थितो वने ॥ ५ ॥
अस्थिमात्रावशेषोऽसावद्य श्वो वा मरिष्यति ।
जन्मान्तरीयं तस्यैनो येन गच्छेल्लयं प्रभो ॥ ६ ॥
तमुपायं दयां कृत्वा वद मे कमलासन ।
तं प्रापयिष्ये तत्राहं स्ववंशस्य विवृद्धये ॥ ७ ॥
एवं सुललितां वाणीं श्रुत्वोचाच तथा विधिः ।
श्रूयतां तव पुत्रस्य पूर्वजन्म मयेरितम् ॥ ८ ॥
सामनाम्नाभवत् पूर्वं तत्रैव नगरेऽन्त्यजः ।
दुष्कर्माऽतितरां यस्य दर्शनं पुण्यनाशकृत् ॥ ९ ॥
एकदा तेन वित्तस्य लोभेन पथि घातिताः ।
द्वादश ब्राह्मणाः शान्तास्त्यक्तास्तेन गुहान्तरे ॥ १० ॥
सर्वं तदीमादाय निशि स्वगृहमागतः ।
माघकृष्णचतुर्थ्यां स उदये शशिनो नृप ॥ ११ ॥
गणेशेति गणेशेति पुत्रमाहूय सत्वरम् ।
अलब्धान्न जलस्तेन सहैव बुभुजे मुदा ॥ १२ ॥
कालेन तस्य पुत्रोऽसौ पञ्चत्वमगमन्निशि ।
चन्द्रोदये चतुर्थ्यां तु कृष्णायामेव भूभुज ॥ १३ ॥
अज्ञानकृतसङ्कष्ट चतुर्थीव्रतसम्भवात् ।
पुण्याद्वैनायकं धाम जगाम सुखदं तु सः ॥ १४ ॥
विमानवरमारुढो वीक्ष्यमाणोऽप्सरैगणैः ।
वैमानिकैः स्तुयमानो दिव्यपुष्पैरथार्चितः ॥ १५ ॥
तेनैव पुण्यशेषेण कृतवीर्याभिधो नृपः ।
तव पुत्र समापेदे पुत्रत्वमधुना भुवि ॥ १६ ॥
तदघौघक्षयात् तस्य पुत्र उत्पत्स्यतेऽनघ ।
इति ब्रह्मवचः श्रुत्वा चकम्पे स नृपोत्तमः ॥ १७ ॥
पप्रच्छ पुनरेवासावुपायं पापनाशनम् ।
॥ कृतवीर्य पितोवाच ॥
ब्रह्महत्याकृतस्तस्य पापं नश्येत् कथं विधे ॥ १८ ॥
तद् वदस्व दयासिन्धो यद्यपि स्यात् सुदुष्करम् ।
॥ ब्रह्मोवाच ॥
स चेद् व्रतं तु सङ्कष्टचतुर्थीसंज्ञकं तव ॥ १९ ॥
सुतः करिष्यते सम्यक्तेन पापात् प्रमोक्ष्यते ।
॥ राजोवाच ॥
कथं तत्क्रियते ब्रह्मन् कस्मिन् मासे व्रतं शुभे ॥ २० ॥
तत्सर्वं वद मे स्वामिन् येन पापं लयं व्रजेत् ।
॥ ब्रह्मोवाच ॥
चतुर्थी भौमवारे तु माघे कृष्णे भवेद्यदि ॥ २१ ॥
शुभे मुहूर्ते चन्द्रे च कुर्यात् प्रारम्भमस्य ह ।
दन्तधावनपूर्वाणि स्नानानि चैकविंशतिम् ॥ २२ ॥
कुर्वीत नित्यकर्माणि जपेन्मत्रं ततः परम् ।
निराहारो भवेन्मौनि परनिन्दाविवर्जितः ॥ २३ ॥
दुष्टकर्म च ताम्बूलं वर्जयेन्नियमेन च ।
वर्जयेज्जलपानं च परद्रोहं च पैशुनम् ॥ २४ ॥
तिलामलककल्केन दिनान्ते स्नानमाचरेत् ।
एकाक्षरं षडर्णं वा जपेद्वा वैदिकं मनुम् ॥ २५ ॥
गणेशप्रीतये तस्य नाममन्त्रं यथाविधि ।
ध्यायेत् स्थिरेण मनसा देवदेवं गजाननम् ॥ २६ ॥
मुहुर्तमात्रेण ततः पूजयेद् गणनायकम् ।
उपचारैः षोडशभिर्नैवेद्यर्विविधैरपि ॥ २७ ॥
मोदकापूपशष्कूलीलड्डूकैर्वटकैरपि ।
पायसैर्विविधैरन्नैर्व्यञ्जनैर्लेह्यचोष्यकैः ॥ २८ ॥
फलैर्नानाविधैः पूगताम्बूलैर्दक्षिणादिभिः ।
एकविंशतिदूर्वाभिर्दीपैश्च कुसुमैरपि ॥ २९ ॥
चन्द्रोदयेऽर्घ्यदानेन तिथये मन्त्रपूर्वकम् ।
गजाननाय पश्चात्तु चन्द्राय च ततः परम् ॥ ३० ॥
निवेद्य पूजनं नत्वा क्षमाप्य च ततः पुनः ।
ब्राह्मणान्भोजयेद् भक्त्या शक्त्या वा चैकविंशतिम् ॥ ३१ ॥
दश द्वादश वाऽशक्तो दक्षिणाभिः सुतोषयेत् ।
कथां श्रुत्वा ततः सम्यक् स्वयं भुञ्जीत वाग्यतः ॥ ३२ ॥
गीतवादित्रघोषेण शेषां रात्रिं ततो नयेत् ।
एवं व्रतं चैकवर्षं कृतं चेद् यत्नतो नृप ॥ ३३ ॥
सर्वपापक्षयात्तस्य भविता पुत्र उत्तमः ।
अन्य वा चिन्तयेत्कामं यं यं तं प्राप्नुयान्नरः ॥ ३४ ॥
सर्वसङ्कटनाशः स्यात् परचक्राद् भयं न हि ।
शमीमूले जपंस्तिष्ठन्नुपवासपरायणः ॥ ३५ ॥
चन्द्रस्योदयपर्यन्तं व्रतमेतत् समाचरेत् ।
अन्धो मूको जडः पङ्गुस्तदीप्सितमवाप्नुयात् ॥ ३६ ॥
दारान् पुत्रान् धनं राज्यं लभते नात्र संशयः ।
श्रावणादिषु मासेषु घृतलड्डवादिकं पृथक् ॥ ३७ ॥
भक्षेयद् वर्षपर्यन्तं तस्य सिद्धिरनुत्तमा ।
श्रावणे सप्तलड्डुकान्नभस्ये दधिभक्षणम् ॥ ३८ ॥
आश्विने चोपवासं च कार्तिके दुग्धपानकम् ।
मार्गशीर्षे निराहारं पौषे गोमूत्रपानकम् ॥ ३९ ॥
तिलाञ्च भक्षयेन्माघे फाल्गुने घृतशर्कराम् ।
चैत्रमासे पञ्चगव्यं वैशाखे शतपत्रिकाम् ॥ ४० ॥
घृतस्य भोजनं ज्येष्ठे आषाढे मधुभक्षणम् ।
॥ कृतवीर्यपितो उवाच ॥
अङ्गारकचतुर्थ्यां तु विशेषोऽभिहितः कुतः ॥ ४१ ॥
वद त्वं कृपया ब्रह्मन् प्रश्रयावनताय मे ।
शृण्वतो न च मे तृप्तिर्गजानन कथां शुभाम् ॥ ४२ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थीव्रतकथनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-59

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...