श्रीगणेशपुराणे उपासनाखण्डे
सप्तपञ्चाशत्तमोऽध्यायः
भ्रुशुण्ड्युपाख्यानं
॥ शक्र उवाच ॥
हन्त ते कथयिष्यामि कथामेकां पुरातनीम् ।
यथा तेनाऽऽपि सादृश्यं गणनाथस्य भक्तितः ॥ १ ॥
दण्डकारण्य देशेषु नगरे नन्दुराभिधे ।
एकः कैवर्तको दुष्टो नाम्ना नामैव विश्रुतः ॥ २ ॥
आबाल्याच्चौर्यनिरतो यौवने जारकर्मकृत् ।
प्रत्यक्षं दृष्टिविगमाद्धरते च शपत्यपि ॥ ३ ॥
शपथान् कुरुते मिथ्या परहृद्भेदकारकान् ।
ततो निःसारितो ग्रामाद्द्यूतमद्यरतो यतः ॥ ४ ॥
लोकैर्बहिर्दूरतरं गिरिकन्दरकानने ।
स्थितः कान्तायुतो मार्गे जघान पथिकान् बहून् ॥ ५ ॥
एवं बहुधनो जातो नानालङ्करणैः स्त्रियम् ।
भूषयामास ससुतां तोषयामास मायया ॥ ६ ॥
शस्त्रं खड्गं च खेटं च पाशान्धनुरनुत्तमम् ।
दण्डं चोभयतो लोहं वहन् पूर्णे महेषुधी ॥ ७ ॥
वृक्षाग्रे कोटरे वापि स्थितो मारयते बहून् ।
नानाविधानि वस्तूनि वासांस्याभरणानि च ॥ ८ ॥
गृहे सञ्चयते नीत्वा विक्रीणाति पुरान्तरे ।
यथेष्टं भजते नित्यं विषयान् मन्दिरे निजे ॥ ९ ॥
एवं पापसमाचारो हन्त्यरण्ये पशूनपि ।
एकदा कस्यचित् पृष्ठे धावितो योजनावधि ॥ १० ॥
स तु तस्माद्गतो दूरं स्खलित्वा पतितो भुवि ।
तत उत्थाय कष्टेन शनैः शनैर्ययौ खलः ॥ ११ ॥
अपश्यत्पथि गच्छन् स तीर्थं गाणेश्वरं शुभम् ।
अकरोन्मज्जनं तत्र श्रममेव व्यपोहितुम् ॥ १२ ॥
ततोऽगच्छन् स्वविषयं ददर्श पथि मुद्गलम् ।
जपन्तं गणनाथस्य मन्त्रं नामसमन्वितम् ॥ १३ ॥
खड्गमुद्यम्य निष्कोशं मुद्गलस्यान्तिकं ययौ ।
कैवर्तको नाम नामा हन्तुं कृतमतिस्तदा ॥ १४ ॥
जगलुस्तस्य शस्त्राणि खड्गोऽपि दृढमुष्टितः ।
अन्यथा चाभवद् बुद्धिस्तस्य दुष्टस्य तत्क्षणात् ॥ १५ ॥
द्विरदाननभक्तस्य मुद्गलस्य प्रभावतः ।
जहास मुनिमुख्योऽसौ दृष्ट्वा तं तु तथाविधम् ॥ १६ ॥
पप्रच्छ संयतः कस्माच्छस्त्राणि गलितानि ते ।
बद्धान्यपि च सर्वाणि पतितानि कुतो वद ॥ १७ ॥
॥ इन्द्र उवाच ॥
गणेशतीर्थस्नानेन मुनेरालोकनेन च ।
ज्ञानवैराग्ययुक्तोऽसावब्रवीन् मुद्गलं वचः ॥ १८ ॥
॥ कैवर्त्तक उवाच ॥
आश्चर्यं परमं मन्ये कुण्डस्नानेन मे मतिः ।
विपरीताऽभवद्ब्रह्मन् विशेषाद् दर्शनेन ते ॥ १९ ॥
बाल्यात् प्रभृति मे दुष्टा बुद्धिः पापरताऽभवत् ।
असङ्ख्यातानि पापानि कृतान्यद्यावधि प्रभो ॥ २० ॥
इदानीमेव निर्विण्णा मतिर्मे त्वप्रसादतः ।
नादास्ये पुनरेतानि शस्त्राणि पतितानि मे ॥ २१ ॥
कुरू मेऽनुग्रहं पूर्णमुद्धरस्व भवार्णवात् ।
साधवो ह्यनुगृह्णन्ति दीनान् दुष्कृतिनोऽपि च ॥ २२ ॥
न साधुसङ्गमः क्वापि वृथा दृष्टो महामुने ।
यथा शेवधिसम्पर्को न धातुषु वृथा भवेत् ॥ २३ ॥
॥ शक्र उवाच ॥
एवमुक्तो मुद्गलोऽसौ तं जगाद कृपान्वितः ।
शरणागतसंत्यागे स्मरन्दोषं विशेषतः ॥ २४ ॥
॥ मुद्गल उवाच ॥
विधिप्रयुक्ते दानादौ नाधिकारोऽस्ति कुत्रचित् ।
तथापि ते नामजपं कथयामि प्रसादतः ॥ २५ ॥
गजाननस्य परमं सर्वसिद्धिकरं नृणाम् ।
ततः प्रणाममकरोत् कैवर्तो मुद्गलं मुनिम् ॥ २६ ॥
(स करं स्थापयामास तस्य मूर्ध्न्य भयङ्करम्)
गणेशाय नम इति नाममन्त्रमुपादिशत् ।
स्वयष्टिं रोपयामास पुरस्तस्य धरातले ॥ २७ ॥
उवाच चैनं सम्प्रीत्या यावदागमनं मम ।
तावज्जपस्व नामेदं यावद्यष्टिश्च साङ्कुरा ॥ २८ ॥
एकासनगतो वायुभक्ष एकाग्रमानसः ।
सायं प्रातर्जलं देहि यष्टिमूले निरन्तरम् ॥ २९ ॥
॥ शक्र उवाच ॥
उपदिष्टो मुद्गलेन नामा कैवर्तकस्तदा ।
निराशो जीविते तस्थौ तस्मिन्नन्तर्हिते मुनौ ॥ ३० ॥
एकासनगतोऽरण्ये जजाप नाममन्त्रकम् ।
पुरोधाय मुनेंर्यष्टिं वृक्षच्छायासमाश्रितः ॥ ३१ ॥
निराहारो निरीहश्च जितेन्द्रियगणो वशी ।
एवं सहस्रवर्षान्ते सा यष्टिः साङ्कुराऽभवत् ॥ ३२ ॥
ततः प्रतीक्षामकरोन्मुनेरागमनस्य यः ।
वल्मीकवेष्टिततनुर्लताजालसमन्वितः ॥ ३३ ॥
ततो मुनिर्मुद्गलोऽपि दैवात्तं देशमाययौ ।
संस्मार च तदा यष्टिं तं च कैवर्तकं यदा ॥ ३४ ॥
ददर्श भ्रममाणः स साङ्कुरां यष्टिमुत्तमाम् ।
वल्मीकाक्रान्त देहं च तं च कैवर्तकं मुनिः ॥ ३५ ॥
दुश्चरं मुनिभिः सर्वैरास्थितं तप उत्तमम् ।
लक्षितं नेत्रमात्रेण यतता मुनिना तदा ॥ ३६ ॥
उत्साद्य तस्य देहस्थं वल्मीकं मुनिसत्तमः ।
मन्त्रितेन जलेनास्य सिषेचाङ्गं च सर्वशः ॥ ३७ ॥
तदैव दिव्यदेहं तं जगाद मुनिसत्तमः ।
प्राप्तवन्तं गणेशस्य सारूप्यं करयोगतः ॥ ३८ ॥
द्विकरं प्रजपन्तं च नाम वैनायकं शुभम् ।
उन्मीलीते तदा नेत्रे मुनिना बोधितस्तु सः ॥ ३९ ॥
तस्य नेत्रोद्भवे वह्निर्विद्युद्वद् गगनं गतः ।
त्रिलोकीमुद्यतो दग्धुं मुनिना वारितो यतः ॥ ४० ॥
सोऽपि तं मुनिमानम्य स्वगुरुं करूणायुतम् ।
आलिलिङ्ग मुदा युक्तस्तनयः पितरं यथा ॥ ४१ ॥
उपदिष्टो मुद्गलेन नाम कैवर्तकस्तदा ।
वल्मीकात् पुनरूत्पन्नं मानयामास तं सुतम् ॥ ४२ ॥
चकार नाम कर्मास्य मुद्गलो मुनिरादरात् ।
भूमध्यान्निर्गता शुण्डा भ्रुशुण्डीति ततो नृप ॥ ४३ ॥
एकाक्षरं च मन्त्रं च तस्मै प्राहाथ मुद्गलः ।
वरानस्मै ददौ पश्चाद्भव त्वं मुनिसत्तमः ॥ ४४ ॥
इन्द्रादिदेवगन्धर्वैः सिद्धैरर्च्यतमो भव ।
यथा गजाननो देवो ध्यातो दृष्टोऽघनाशनः ॥ ४५ ॥
तथाहि त्वमपि मुने भ्रुशुण्डिः प्रथितो भव ।
यस्य ते दर्शनं स्यात् स कृतकृत्यो भवेन्नरः ॥ ४६ ॥
आयुश्च कल्पलक्षं ते भविता मम वाक्यतः ।
एवं बहुविधान् तस्मै वरान् यच्छति मुद्गले ॥ ४७ ॥
ययुरिन्द्रादयो द्रष्टुं मुनयो नारदादयः ।
ऊचुस्तं प्रणिपत्यैव भ्रुशुण्डे तव दर्शनात् ॥ ४८ ॥
सार्थकं जन्म नो विद्या पितरौ च तपो यशः ।
त्वमेव गणनाथोऽसि पूजनीयोऽसि नो मुने ।
स तु सम्पूज्य तान् सर्वान् प्रणम्य च विसृज्य च ॥ ४९ ॥
पुनः पद्मासनगतो जजापैकाक्षरं मनुम् ।
पुरो मूर्तिं प्रतिष्ठाप्य गणेशस्य मनोहराम् ॥ ५० ॥
उपचारैः षोडशभिरपूपुजद्दिनेदिने ।
आश्रमश्च बभौ वापीसरोवृक्षलतादिभिः ॥ ५१ ॥
त्यक्तवैरैः सिंहमृगैर्नकुलैर्भुजगोत्तमैः ।
ततो वर्षशतस्यान्ते प्रसन्नोऽभूद्गजाननः ॥ ५२ ॥
उवाच मत्स्वरूपस्त्वं किमर्थं तपसे तपः ।
कृतकृत्योऽसि सायुज्यमायुषोऽन्ते च लप्स्यसे ॥ ५३ ॥
इदं क्षेत्र सुविख्यातं नामलेति भविष्यति ।
अनुष्ठानकृतामन्त्र नानासिद्धिप्रदं नृणाम् ॥ ५४ ॥
मन्मूर्तिदर्शनादत्र न पुनर्जन्मभाग् भवेत् ।
अपुत्रश्च लभेत् पुत्रान् विद्यार्थी ज्ञानमाप्नुयात् ॥ ५५ ॥
॥ शक्र उवाच ॥
इति ते कथितं सर्वं शूरसेन नृपोत्तम ।
यत्वया परिपृष्टं मे किमन्यच्छ्रोतुमिच्छसि ॥ ५६ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे भ्रुशुण्ड्युपाख्यानं
नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें