श्रीगणेशपुराणे उपासनाखण्डे
षष्टितमोऽध्यायः
अङ्गारक चतुर्थी व्रतोपाख्यान
॥ ब्रह्मोवाच ॥
अङ्गारकचतुर्थ्यास्तु महिमानं महीपते ।
शृणुष्वावहितो भूत्वा कथयामि समासतः ॥ १ ॥
अवन्तीनगरे राजन् भारद्वाजो महामुनि ।
वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः ॥ २ ॥
अग्निहोत्ररतो नित्यं शिष्याध्ययनतत्परः ।
नदीतीरगतस्तिष्ठन्ननुष्ठानरतो मुनिः ॥ ३ ॥
एकस्मिन्नेव समये दृष्टा तेनाप्सरोवरा ।
तां दृष्ट्वा चकमे भौक्तुं भारद्वाजो महामुनिः ॥ ४ ॥
अकस्मात् कामिनीं दृष्ट्वा कामासक्तोऽभवन्मुनिः ।
कामबाणाभिभूतः सन्निपपात महितले ॥ ५ ॥
अतिविह्वलगात्रस्य तस्य रेतः प्रचस्खले ।
प्रविष्टं तस्य तद् रेतः पृथिवीबिलमध्यतः ॥ ६ ॥
तत एकः कुमारोऽभूज्जपाकुसुमसन्निभः ।
तं धरित्री स्नेहवशात् पालयामास सादरम् ॥ ७ ॥
जनुः स्वं तेन धन्यं सा मनु ते पितरौ कुलम् ।
ततः स सप्तवर्षस्तां पप्रच्छ जननीं निजाम् ॥ ८ ॥
मयि लोहितिमा कस्मान्मानुषं देहमास्थिते ।
कश्च मे जनको मातस्तन्ममाचक्ष्व साम्प्रतम् ॥ ९ ॥
॥ धरण्युवाच ॥
भारद्वाजमुने रेतः स्खलितं मयि सङ्गतम् ।
ततो जातोऽसि रे पुत्र वर्धितोऽसि मया शुभम् ॥ १० ॥
॥ स उवाच ॥
तर्हि तं मे मुनिं मातर्दर्शयस्व तपोनिधिम् ।
॥ ब्रह्मोवाच ॥
तमादाय तदा देवी भारद्वाजं जगाम कुः ॥ ११ ॥
उवाच प्रणिपत्यैनं त्वद्वीर्यप्रसवं सुतम् ।
वर्धितं तं पुरोधार्य स्वीकुरुष्व मुनेऽधुना ॥ १२ ॥
तदायज्ञा ययौ धात्री स्वधाम रुचिरं तदा ।
भारद्वाजः सुतं लब्ध्वा मुमुदे चालिलिङ्ग तम् ॥ १३ ॥
आघ्राय शिर उत्सङ्गे स्थापयामास तं मुदा ।
सुमुहूर्ते शुभे लग्ने चकारोपनयं मुनिः ॥ १४ ॥
वेदशास्त्राण्युपादिश्य गणेशस्य मनुं शुभम् ।
उवाच कुर्वनुष्ठानं गणेशप्रीतये चिरम् ॥ १५ ॥
सन्तुष्टो दास्यते कामान् सर्वांस्तव मनोगतात् ।
ततः स नर्मदातीरे पद्मासनगतो मुनिः ॥ १६ ॥
सन्नियम्येन्द्रियाण्याशु ध्यायन् हेरम्बमन्तरा ।
जजाप परमं मन्त्रं वायुभक्षो भृशं कृशः ॥ १७ ॥
एवं वर्षसहस्रं स तपस्तेपे सुदारुणम् ।
माघकृष्णचतुर्थ्यां तमुदये शशिनोऽमले ॥ १८ ॥
दर्शयामास रूपं स्वं गणनाथोऽथ दिग्भुजम् ।
दिव्याम्बरं भालचन्द्रं नानायुधलसत्करम् ॥ १९ ॥
चारुशुण्डं लसद्दन्तं शूपकर्णं सकुण्डलम् ।
सूर्यकोटिप्रतिकाशं नानालङ्कारमण्डितम् ॥ २० ॥
ददर्श रूपं देवस्य स बालः पुरतः स्थितम् ।
उत्थाय प्रणिपतत्यैनं तुष्टाव जगदीश्वरम् ॥ २१ ॥
॥ भौम उवाच ॥
नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे ।
सुरासुराणामीशाय सर्वशक्त्युपबृंहिणे ॥ २२ ॥
निरामयाय नित्याय निर्गुणाय गुणच्छिदे ।
नमो ब्रह्मविदां श्रेष्ठ स्थितिसंहारकारिणे ॥ २३ ॥
नमस्ते जगदाधार नमस्त्रैलोक्यपालक ।
ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे ॥ २४ ॥
लक्ष्यालक्ष्यस्वरूपाय दुर्लक्षणभिदे नमः ।
नमः श्रीगणनाथाय परेशाय नमो नमः ।
इति स्तुतः प्रसन्नात्मा परमात्मा गजाननः ॥ २५ ॥
उवाचश्लक्ष्णया वाचा बालकं सम्प्रहर्षयन् ।
॥ गजानन उवाच ॥
तवोग्रतपसा तुष्टो भक्त्या स्तुत्याऽनयाऽपि च ॥ २६ ॥
बालभावेऽपि धैर्यात्ते ददामि वाञ्छितान् वरान् ।
एवमुक्तो भूमिपूत्रो वच ऊचे गजाननम् ॥ २७ ॥
॥ भौम उवाच ॥
धन्या दृष्टिर्जननमपि मे दर्शनात्ते सुरेश
धन्यं ज्ञानं कुलमपि विभोः भूः सशैलाऽद्य धन्या ।
धन्यं चैतत्सकलमपि तपो येन दृष्टोऽखिलेशो
धन्या वाणी वसतिरपि यया संस्तुतो मूढभावात् ॥ २८ ॥
यदि तुष्टोऽसि देवेश स्वर्गे भवतु मे स्थितिः ।
अमृतं पातुमिच्छामि देवैः सह गजानन ॥ २९ ॥
कल्याणकारि मे नाम ख्यातिमेतु जगत्त्रये ।
दर्शनं मे चतुर्थ्यां ते जातं पुण्यप्रदं विभो ॥ ३० ॥
अतः सा पुण्यदा नित्यं सर्वसङ्कष्टहारिणी ।
कामदा व्रतकर्तॄणां त्वत्प्रसादात् सदाऽस्तु च ॥ ३१ ॥
॥ गणेश उवाच ॥
अमृतं पास्यसे सम्यग् देवैः सह धरासुत ।
मङ्गलेति च नाम्ना त्वं लोके ख्यातिं गमिष्यसि ॥ ३२ ॥
अङ्गारकेति रक्तत्वाद् वसुमत्या यतः सुतः ।
अङ्गारकचतुर्थीं ये करिष्यन्ति नरा भुवि ॥ ३३ ॥
तेषामब्धसमं पुण्यं सङ्कष्टीव्रतसम्भवम् ।
निर्विघ्नता सर्वकार्ये भविष्यति न संशयः ॥ ३४ ॥
अवन्तीनगरे राजा भविष्यसि परन्तप ।
व्रतानामुत्तमं यस्मात् कृतं ते व्रतमुत्तमम् ॥ ३५ ॥
यस्य सङ्कीर्तनान्मर्त्यः सर्वान् कामानवाप्नुयात् ।
॥ ब्रह्मोवाच ॥
इति दत्वा वरोदेवः पिदधे द्विरदाननः ॥ ३६ ॥
ततस्तु मङ्गलो देवं स्थापयामास भक्तितः ।
शुण्डामुखं दशभुजं सर्वांवयवसुन्दरम् ॥ ३७ ॥
प्रासादं कारयामास गजाननमुदावहम् ।
संज्ञां मङ्गलमूर्तीति देवदेवस्य सोऽकरोत् ॥ ३८ ॥
ततोऽभवत् कामदातृक्षेत्रं सर्वजनस्य तत् ।
अनुष्ठानात् पूजनाच्च दर्शनात् सर्वमोक्षदम् ॥ ३९ ॥
ततो विनायको देवो विमानवरमुत्तमम् ।
प्रेषयामास स्वगणैर्भौममानेतुमन्तिकम् ॥ ४० ॥
ते गत्वा तेन देहेन तं भौममानयन् बलात् ।
गणेशस्यान्तिकं राजंस्तदद्भुतमिवाभवत् ॥ ४१ ॥
ततो भौमोऽभवत् ख्यातस्त्रैलोक्ये सचराचरे ।
यतो भौमेन सङ्कष्टचतुर्थी भौमसंयुता ॥ ४२ ॥
कृता प्राप्तं च स्वर्गे चामृतपानं सुरैः सह ।
अतश्चाङ्गारकयुता चतुर्थी प्रथिता भुवि ॥ ४३ ॥
चिन्तितार्थप्रदानेन चिन्तामणिरिति प्रथाम् ।
प्रयातो मङ्गलमूर्तिः सर्वानुग्रहकारकः ॥ ४४ ॥
पारिनेरात्तु नगरात् पश्चिमे प्रथितोऽभवत् ।
चिन्तामणिरितिख्यातः सर्व विघ्ननिवारणः ॥ ४५ ॥
अधुना सिद्धगन्धर्वैः पूज्यते स विधूदये ।
ददाति वाञ्छितानर्थान् पुत्रपौत्रादि सम्पदः ॥ ४६ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे
अङ्गारकचतुर्थीव्रतोपाख्येन षष्टितमोऽध्यायः ॥ ६० ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें