श्रीगणेशपुराणे उपासनाखण्डे एकोनचत्वारिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे एकोनचत्वारिंशोऽध्यायः
इन्द्रपराजयः

॥ व्यास उवाच ॥

ततः किमकरोद् ब्रह्मं त्रिपुरो वरदर्पितः ।
तत्सर्वं कौतुकं मह्यं वक्तुमर्हस्यशेषतः ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततः काश्मीरपाषाणभवां मूर्तिं गजाननीम् ।
स्थापयामास विधिवद् ब्रह्मणैर्मन्त्रकौविदैः ॥ २ ॥


महान्तं काञ्चनं दिव्यं मणिमुक्ताविभूषितम् ।
गणेशपुरमध्ये स प्रासादं कृतवान् शुभम् ॥ ३ ॥
उपचारैः षोडशभिः पूजयामास तं विभुम् ।
नमस्कारैरसङ्ख्यातैः स्तुतिभिः प्रार्थनैरपि ॥ ४ ॥
क्षमाप्य देवदेवेशमनुज्ञाप्य ययौ बहिः ।
ददौ दादान्यनेकानि ब्राह्मणेभ्यो यथार्हतः ॥ ५ ॥
ततस्तदभवत्स्थानं बङ्गाले त्रिपुरस्य ह ।
गणेशपुरमित्येवं सर्वेषां सर्वसिद्धिदम् ॥ ६ ॥
ततः स त्रिपुरो दैत्यो गजाननवरोद्धतः ।
नृलोकान् पालयामास देवानामाक्रमे रतः ॥ ७ ॥
पदातयस्तुरङ्गाश्च गजाश्च रथिनस्तथा ।
दशदिग्भ्यो ययुस्तं तु सेवार्थं बलवत्तराः ॥ ८ ॥
राजानः सेवका जाता आनुकूल्येन तस्य ह ।
प्रतिकूला गता मृत्युं युद्धं कर्तुमनीश्वराः ॥ ९ ॥
एवमाक्रम्य भूखण्ड ततोऽगादमरावतीम् ।
तत इन्द्रो देवगणैर्नानायुद्ध करैर्वृतः ॥ १० ॥
ऐरावतसमारूढो ययौ युद्धाय दंशितः ।
सोऽपि सेनां त्रिधा चक्रे चतुरङ्गां महाबलः ॥ ११ ॥
भीमकायं महादैत्यं वज्रदंष्ट्रं च दानवम् ।
धनुर्युद्धे गदायुद्धे शस्त्रयुद्धे च कोविदम् ॥ १२ ॥
अस्त्रयुद्धे मल्लयुद्धे निष्णातं दैत्यपुङ्गवम् ।
भीमकायमवोचत् स नृलोकस्याधिपो भव ॥ १३ ॥
कालकूटं वज्रदंष्ट्रं जगाद त्रिपुरो बली ।
त्रिभागयाऽनया याहि सेनया त्वं रसातलम् ॥ १४ ॥
शेषमुख्यान् सर्वनागान् वशान् कुरू ममायज्ञा ।
अहं त्रिभागया शक्रमाक्रमिष्येऽखिलान् सुरान् ॥ १५ ॥
भीमकायो वज्रदंष्ट्रो यथऽऽज्ञप्तो प्रतस्थतुः ।
चतुरङ्गबलैर्युक्तः स्वयं नन्दनमाययौ ॥ १६ ॥
दिव्यान् वृक्षान् बभञ्जुस्ते वार्यमाणास्तु सैनिकाः ।
तत्र स्थित्वा दैत्यराजो दूतान् शक्राय प्राहिणोत् ॥ १७ ॥
अत्रानयन्तु तं शक्रं दर्शनाय त्वरान्विताः ।
वदन्तु मम वाक्यं वा मृत्युलोकं व्रजाऽधुना ॥ १८ ॥
तत्र त्वां पालयिष्यामि साम्ना देह्यमरावतीम् ।
यदि युद्धे च ते बुद्धिस्तदा शीघ्रं प्रयाहि माम् ॥ १९ ॥
ते गत्वा शक्रमाचख्युस्त्रिपुरासुरचेष्टितम् ।
श्रुत्वेत्थं वचनं तेषां वज्राहत इवाचलः ॥ २० ॥
चकम्पे चाचलरिपुर्वायुनेव यथा तरूः ।
चिन्तया व्याकुलीभूतः किमेतदिति चिन्तयन् ॥ २१ ॥
क्रोधानलेन जज्वाल संरक्ताखिललोचनः ।
कुर्वन् भस्मेव लोकानां शोषयन्निव वारिधीन् ॥ २२ ॥
उवाच दूतान् गच्छन्तु यान्तु युद्धाय सत्वराः ।
स्वयमैरावतारूढो जगर्ज सुरशत्रुहा ॥ २३ ॥
तेन नादेन महता क्षोभयन् भुवनत्रयम् ।
श्रुत्वा तद्वचनं ते तु गता दूता यथागतम् ॥ २४ ॥
विबुधाश्चापि सन्नद्धा नानाशस्त्राऽसिपाणयः ।
भिण्डिपालकराः केचित् केचिच्छक्त्यृष्टि पाणयः ॥ २५ ॥
मुद्गरासिधाराः केचिद्धनुर्बाणकराः परे ।
गदाखेटकराः केचित् केचित्तु दण्डपाणयः ॥ २६ ॥
एवं देवगणैर्युक्तो वज्रभृन्निर्ययौ बहिः ।
कृतस्वस्त्ययनो विप्रैर्नानावादित्रनिस्वनैः ॥ २७ ॥
त्रिपुरो दूतवाक्येन ज्ञात्वा युद्धोद्यमन्तु तम् ।
सन्नद्धामकरोत्सेनां प्रहृष्टां चतुरङ्गिणीम् ॥ २८ ॥
असङ्ख्यातां समादाय हयारूढोऽभिनिर्ययौ ।
परस्परं ददृशतुस्ते सेने वीरभूषणे ॥ २९ ॥
कोलाहलो महानासीद् बृंहितैर्हेषितैरपि ।
क्ष्वेडितै रथघोषैश्च वाद्यघोषैरनेकधा ॥ ३० ॥
ततो हुङ्कारमात्रेण नोदितास्त्रिपुरेण ते ।
वीरा युयुधिरे देवैः स सम्मर्दो महानभूत् ॥ ३१ ॥
नाभूत स्वपरबोधोऽपि जघ्नुरेव परस्परम् ।
एवं सुतुमुले जन्ये मृतास्ते दानवा बहु ॥ ३२ ॥
सुमनसोऽपि पतिता दैत्यशस्त्र प्रपीडिताः ।
बभुस्ते सैनिकास्तत्र पुष्पिता इव किंशुकाः ॥ ३३ ॥
अशय्याः शयिताः केचिदङ्घ्रिहीनास्तथाऽपरे ।
क्रमेलका गजाध्यक्षा रथाश्वाश्च पदातिनः ॥ ३४ ॥
ततः पलायनपरा दैत्या याता दिशो दश ।
सिंहं दृष्ट्वैव सहसा मृगा जीवनकाङ्क्षिणः ॥ ३५ ॥
ततो निवार्य तत्सैन्यं वृन्दारकरिपुः स्वयम् ।
क्रोधानलमहाज्वालो गर्जन्मेघ इवापरः ॥ ३६ ॥
शक्रसान्निध्यमगमद् भक्षयन्निव रोदसी ।
स्वखड्गेनाहनत् तीव्रं हस्तं वज्रधरं हरेः ॥ ३७ ॥
वज्रं पपात तद्धस्तात् तदद्भुतमिवाभवत् ।
तदादायाऽहनद् द्दैत्यस्तेनैवैरावतं गजम् ॥ ३८ ॥
ऐरावतः प्रहारेण पलायनपरो ययौ ।
ततो जघान स हरिर्मुष्टिना दैत्यपुङ्गवम् ॥ ३९ ॥
स क्षणं पतितो भूमौ तत उत्थाय वेगवान् ।
जघान मुष्टिना शक्रं धरण्यां तमपातयत् ॥ ४० ॥
तत उत्थाय मघवा दैत्यं प्राह रूषान्वितः ।
इदानीं मल्लयुद्धाय सज्जीभवाऽसुरेश्वर ॥ ४१ ॥
ततः स विस्मयाविष्ट उवाच बलगर्वितः ।
किमर्थ त्वं निजप्राणे निर्दयोऽसि सुरेश्वर ॥ ४२ ॥
कृमिकीटपतङ्गानां प्राणोऽतीव प्रियो मतः ।
गच्छ देव धरण्यां ते स्थानं दत्तं मया शुभम् ॥ ४३ ॥
॥ ब्रह्मोवाच ॥
इति तद्वचनं श्रुत्वा जगाद बलवृत्रहा ।
यद्यहं जीवितात् त्वां हि मोचयामि न चेद्रिपो ॥ ४४ ॥
तदाऽहं धरणीं यामि त्वदाज्ञावशगोऽधम ।
त्वमेव हतमूर्धाऽद्य धरणीं यास्यसे खल ॥ ४५ ॥
वदत्येवं तु देवेन्द्र दैन्येन्द्रो निजघान तम् ।
मुष्टिना हृदये दुष्टस्ततो युद्धमभूत् तयोः ॥ ४६ ॥
चाणूरकृष्णयोर्यद्वत् परस्परजयैषिणोः ।
हृदयं हृदयेनैव हस्तं हस्तेन जघ्नतुः ॥ ४७ ॥
जानुभ्यां जानुनी चोरू ताभ्यां तौ च निजघ्नतुः ।
मस्तकं मस्तकेनैव कूर्परं कूर्परेण तु ॥ ४८ ॥
पृष्ठं पृष्ठेन पादाभ्यां पादौ तावभिजघ्नतुः ।
पादों गृहीत्वा दैत्योऽस्य भ्रामयित्वा मुहुर्मुहः ॥ ४९ ॥
तत्याज दूरतः शक्रं यथा न ज्ञायते क्वचित् ।
आरूरोह स्वयं तं तु चतुर्दन्तं गजेश्वरम् ॥ ५० ॥
ततो देवगणाः सर्वे हिमवद्गिरिगह्वरम् ।
ययुः शक्रं विचिन्वन्तो दैत्यसन्त्रासतापिताः ॥ ५१ ॥
कुत्र वा पतितो देवो द्रक्ष्यामो वा कथं विभुम् ।
एवं सञ्चिन्तयन्तस्ते भ्रमन्तो ददृशुश्च तम् ॥ ५२ ॥
अधोमुखं समायान्तं देवेन्द्रं तं तदैव ह ।
प्रणेमुर्देवसङ्घास्तमालिलिङ्गस्तथाऽपरे ॥ ५३ ॥
पूजयामासुरपरे बीजयामास कश्चन ।
पादसंवाहनं चास्य चक्रुः केचन भक्तितः ॥ ५४ ॥
तत्रैव न्यवसन् सर्वे गुप्तरूपाः सुरास्तदा ।
दैत्यस्त्वैरावतारूढो ययौ ताममरावतीम् ॥ ५५ ॥
देवस्थानानि दैत्यानामिन्द्रासनगतः स्वयम् ।
ददौ विभज्य प्रत्येकं मानपूर्वं सुरद्विषाम् ॥ ५६ ॥
दिव्य वादित्रनिर्घोषैः शृण्वन् गान्धर्वनिस्वनान् ।
किन्नरैः सेव्यमानस्तु रेमे चाप्सरसां गणैः ॥ ५७ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे इन्द्रपराजयोनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-39

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...