श्रीगणेशपुराणे उपासनाखण्डे द्वात्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे द्वात्रिंशोऽध्यायः

मन्त्रकथनं
॥ नारद उवाच ॥
शक्रे तु नलिनीं याते तत्पुरं त्वहमागतः ।
बृहस्पति पुरोगांस्तांस्तत्रापश्यं स्थितान् सुरान् ॥ १ ॥
तेभ्यो ह्यकथयं सर्वमुभयोः शापकारणम् ।
अहल्याया महेन्द्रस्य संयोगं च विरूपताम् ॥ २ ॥
सहस्रभगतां यातः शक्रो गौतमशापतः ।
अहल्याधर्षणाद् देवास्तत्सङ्गात् सा शिलाऽभवत् ॥ ३ ॥


॥ ब्रह्मोवाच ॥
श्रुत्वा ते नारदोक्तं तत् सर्वे देवाः शुचान्विताः ।
अतिदुःखाद् रुदन्तस्ते निश्वासोच्छवासविभ्रमैः ॥ ४ ॥
॥ देवा ऊचुः ॥
येनाकारि शतं यज्ञा दानवा येन निर्जिताः ।
त्रैलोक्यं पालितं येन भुक्तमैद्रपदं शुभम् ॥ ५ ॥
पूजिता बहवो देवा ब्राह्मणा ब्रह्मवित्तमाः ।
भुक्ता नानाविधा भोगा अन्येषामतिदुर्लभाः ॥ ६ ॥
कुत्र स्थास्यत्यसौ देवो भोक्ष्यते स्वप्स्यते कथम् ।
कमद्य शरणं यामः स्वकृते तत्कृतेऽपि वा ॥ ७ ॥
पालयिष्यति कोऽस्मान्वै पदमैन्द्रं शचीं तथा ।
कथं प्रसन्नतां यायाद् गौतमो मुनिसत्तमः ॥ ८ ॥
स्वीयभार्या वियुक्तः सँस्तत्कृतागः स्मरन् रूषा ।
अन्योपायं न पश्यामो गौतमस्य प्रसादतः ॥ ९ ॥
तस्मान्नारद यास्यामो गौतमं सान्त्वितुं मुनिम् ।
एवं ते निर्ययुर्देवा नारदेन समन्विताः ॥ १० ॥
गौतमं ते समासाद्य बद्धाञ्जलिपुटा मुनिम् ।
तुष्टवुर्विविधैर्वाक्यैस्तमेव शरणं गताः ॥ ११ ॥
॥ देवा ऊचुः ॥
तव प्रभावं वक्तुं नो मुने शक्तिर्न विद्यते ।
गरिमाणं वदेत् को नु मेरोर्हिमवतोऽपि च ।
वृष्टिधारा रजो भूमेर्गङ्गायाः सिकता अपि ॥ १२ ॥
कमम्बुधेर्गुणान् विष्णोर्गणयेत् को नु मूढधीः ।
प्रातरेवोप्तबीजानां मध्यान्हे सस्यसम्पदः ॥ १३ ॥
सम्पादितास्त्वयापूर्वमविता ऋषिसत्तमाः ।
वालखिल्यैर्यजिं कृत्वाऽपर इन्द्रो विनिर्मितः ॥ १४ ॥
ब्रह्मादिभिः प्रार्थितास्ते पक्षिणान्तमकल्पयन् ।
पयसां निधिरेकेन प्राशितश्चुलकेन यत् ॥ १५ ॥
अपरा सृष्टिरारब्धा गाधिपुत्रेण धीमता ।
स्तम्भितो भुज इन्द्रस्य च्यवनेन महात्मना ॥ १६ ॥
तस्मात्सर्वात्मना पुंसां भवतां सेवनं नतिः ।
दर्शनं भाषणं पूजा स्पर्शनं पापनाशनम् ॥ १७ ॥
उपकारे रतानां च दीनानुग्रहकारिणाम् ।
इन्द्रार्थे शरणं यातान्कृपां कर्तुं त्वमर्हसि ॥ १८ ॥
॥ गौतम उवाच ॥
भवतां दर्शनं चर्मचक्षुषां नैव जायते ।
मम पुण्येन जातं तत् कामसम्पादनं नृणाम् ॥ १९ ॥
जन्माश्रमतपोदानं देह आत्मा व्रतानि च ।
सार्थकानीक्षणेनैव जातानि भवतां खलु ॥ २० ॥
इदानीं प्रार्थितं किं वस्तन्निरुप्यं ममाग्रतः ।
शक्यं चेत् तत्करिष्येऽहं भवत्स्मृतिबलेन तत् ॥ २१ ॥
॥ मुनिरुवाच ॥
इति तद्वचनं श्रुत्वा जहृषुस्ते दिवौकसः ।
चन्द्रोदये यथा हर्षं प्राप्नोति जलधिः स्फुटम् ॥ २२ ॥
यथा वा बालभाषाभिः पितरौ मुदमीयतुः ।
प्रार्थना चक्रिरे सर्वे गौतमं तं महामुनिम् ॥ २३ ॥
॥ देवा ऊचुः ॥
ईश्वरस्यापराधेन कामो भस्मत्वमागतः ।
आगस्कारी त्वया शक्रो न च प्राणैर्वियोजितः ॥ २४॥
इदानीं स यथास्थानं स्वकीयं प्राप्नुयान्मुने ।
क्षमित्वा तस्य चागांसि सर्वेषां वचनाद्धि नः ॥ २५ ॥
कृते तस्मिन्प्रसादे तु सर्वेषां वाच्छितं भवेत् ।
॥ नारद उवाच ॥
श्रुत्वा देवसमूहस्य वचनानि स गौतमः ॥ २६ ॥
प्रहस्य प्रत्युवाचेदं सर्वान् देवगणान्प्रति ।
॥ गौतम उवाच ॥
नामापि तस्य न ग्राहयं पतितस्य कृतागसः ॥ २७ ॥
कपटस्य शठस्यापि दुष्टस्याप्यविवेकिनः ।
अनुतापविहीनस्य निष्कृतिर्नैव विद्यते ॥ २८ ॥
तथापि भवतां वाक्यात्करिष्ये तत्प्रियं सुराः ।
भवन्तोऽपि यदा रुष्टास्तदाशापः पतेन्ययि ॥ २९ ॥
पूतो भवति जन्तुर्हि बहुभिर्योऽनुगृह्यते ।
अत एकं वदे मन्त्रं तस्मै तं प्रदिशन्तु च ॥ ३० ॥
सर्वकर्ता सर्वहर्ता सर्वपाता कृपानिधिः ।
विनायको देवदेवो ब्रह्मविष्णुशिवात्मकः ॥ ३१ ॥
षडक्षरस्तस्य मन्त्रो महासिद्धि प्रदायकः ।
उपदेशे कृते तस्य दिव्यदेहो भवेत् तु सः ॥ ३२ ॥
भगानि तस्य यावन्ति तावन्नेत्रो भविष्यति ।
स्वराज्यं प्राप्स्यते शक्र इति सत्यं वदामि वः ॥ ३३ ॥
अभिधाय सुरानित्थं तूष्णीमासीत्स गौतमः ।
तं च ते पूजयित्वा तु नमश्चक्रुर्मुदान्विताः ॥ ३४ ॥
प्रदक्षिणीकृत्य पुनः प्राप्याऽनुज्ञां ययुः सुराः ।
प्रशंसन्तो मुनिं तत्र यत्रास्ते बलवृत्रहा ॥ ३५ ॥
गौतमाज्ज्ञानसम्पन्नात् सात्त्विकोऽन्यो न वर्तते ॥ ३६॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे मन्त्रकथनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-32

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...