श्रीगणेशपुराणे उपासनाखण्डे
चत्वारिंशोऽध्यायः
स्तोत्र निरूपणं
॥ ब्रह्मोवाच ॥
आक्रम्य देवधिष्ण्यानि दैत्योऽगाद् ब्रह्मणः पदम् ।
पराक्रमं दैत्यकृतं श्रुत्वा देव मुखात् पुरा ॥ १ ॥
ब्रह्मा ययौ नाभिपद्मं विष्णुः क्षीरनिधिं ययौ ।
दैत्यस्य मानसौ पुत्रौ प्रचण्डश्चण्ड एव च ॥ २ ॥
प्रचण्डं स्थापयामास ब्रह्मलोकेऽधिनायकम् ।
ततश्चण्डं च वैकुण्ठे चकार स्वामिनं स्वयम् ॥ ३ ॥
ततः कैलासमगमत् तं च दौर्भ्यामचालयत् ।
भयभीता च गिरिजाऽऽलिलिङ्गे शङ्करं भृशम् ॥ ४ ॥
ततः कैलासमगमद् युद्धाकाङ्क्षी महासुरः ।
तेन तुष्टो महादेवो दैत्यस्य पौरूषेण च ॥ ५ ॥
बहिर्ययौ वरं दातुं निजभक्तसुखप्रदः ।
ददर्श त्रिपुरं दैत्यं वरं वृण्वित्यथाऽब्रवीत् ॥ ६ ॥
स वव्रे यदि तुष्टोऽसि देहि कैलासमद्य मे ।
गच्छ मन्दारशिखरं यावन्मम मनोरथः ॥ ७ ॥
शङ्करोऽपि ददौ तस्मे कैलासं स्वल्पकालिने ।
स्वयं जगाम गिरिशो मन्दाराद्रिं गणैर्वृतः ॥ ८ ॥
कैलासशिखरारूढो जहर्ष त्रिपुरासुरः ।
एवं देवान् वशे कृत्वा पुनरायाद् रसातलम् ॥ ९ ॥
भीमकायोऽपि बलवान् भूमण्डल गतो बलात् ।
वशे चकार नृपतीन् ऋषीन् सर्वान् बबन्ध च ॥ १० ॥
अग्निकुण्डानि सर्वाणि देवतृप्तिकराणि च ।
आश्रमांश्च बभञ्जाऽऽशु तीर्थानि च विशेषतः ॥ ११ ॥
तापसांस्रासयामास कारागार समाश्रयात् ।
स्वाहास्वधावषट्कारान् वेदस्याभ्यसनानि च ॥ १२ ॥
सदाचारान् सदा द्वेष्टि सर्वगर्वसमन्वित ।
वज्रदंष्ट्रोऽथ सप्तापि पातालानि वशेऽनयत् ॥ १३ ॥
शेषं च वासुकिं चैव तक्षकं सर्वभोगिनः ।
निर्विषान् सविषांश्चैव चकार वशवर्तिनः ।
वज्रदंष्ट्रो रत्नजातं बुभुजेऽप्रेषयच्च तम् ॥ १४ ॥
नागाङ्गनाभिश्च कुतूहलेन रेमे सदाऽसौ समदोऽतिहर्षात् ।
भोगान् विभुञ्जन् विविधानि रत्नान्यादाय यातस्त्रिपुरान्तिके सः ॥ १५ ॥
पातालवश्यतां शंसन् लेभे मानं ततोऽधिकम् ॥ १६॥
वस्त्राणि च महार्हाणि ग्रामान् दासाननेकशः ।
एवं त्रिलोकान् वशगान् कृत्वा दैत्यो ननन्द ह ॥ १७ ॥
देवाः सर्वे गुहावासाश्चिन्तयामासुरन्वहम् ।
कथमस्य वधः कस्मिन्काले वापि भविष्यति ॥ १८ ॥
कस्माद्वेति न जानीमो लब्धोऽनेन वरं कुतः ।
एवं व्याकुचित्तेषु सुरेषु मुनिसत्तम ॥ १९ ॥
आययौ नारदस्तत्र त्रैलोक्यचर इच्छया ।
ददर्शं दीनान्देवांस्तानुत्ततार नभः पथात् ॥ २० ॥
दृष्ट्वा सर्वे नारदं तमुत्तस्थु सहसाऽऽदरात् ।
आलिलिङ्गुश्च नेमुश्च पुपूजुश्च यथाक्रमम् ॥ २१ ॥
॥ देवा ऊचुः ॥
त्रिपुरेण समाक्रान्तं त्रैलोक्यं सचराचराम् ॥ २२ ॥
स्थाथानि नो गृहीतानि केशास्तेनापि निर्जिताः ।
शरणं कं व्रजामोऽद्य कथं तस्य वधो भवेत् ॥ २३ ॥
वराश्च केन दत्ता नो वदाऽस्य त्रिपुरस्य भोः ।
॥ नारद उवाच ॥
कथयामि समासेन दैत्यस्य चेष्टितं महत् ॥ २४ ॥
दिव्यवर्षसहस्रं स तताप परमं तपः ।
प्रसादयामास विभुं गणेशं देवनायकम् ॥ २५ ॥
तेनाऽस्मै दुर्धरा दत्ता वराः सर्वभयङ्कराः ।
देवर्षिपितृभूतेभ्यो यक्षरक्षः पिशाचतः ॥ २६ ॥
न नागेभ्यो भयं दत्तं विनैकं शङ्करं विभुम् ।
प्रसादयन्तु देवेशं द्विरदाननमादरात् ॥ २७ ॥
आराधयन्तु सर्वेऽपि विघ्नेशं सर्वसिद्धिदम् ।
॥ देवा ऊचुः ॥
कथमाराधनं तस्य देवदेवस्य धीमतः ॥ २८ ॥
कर्तव्यं मुनिशार्दूल कृपया तद्वदस्व नः ।
॥ नारद उवाच ॥
अहमेकाक्षरं मन्त्रं कथयाम्यखिलान् प्रति ॥ २९ ॥
तेन मन्त्रेण ते सर्वे मया दत्तेन भक्तितः ।
अनुष्ठानं प्रकुर्वन्तु सर्वेऽपि स्थिरमानसाः ॥ ३० ॥
यावतं प्रत्यक्षतामेति देवोऽसौ गणनायकः ।
स एव तद्वधोपायं वदिष्यत्यखिलान् प्रति ॥ ३१ ॥
नान्योपायं प्रपश्यामि तस्मात् कुर्वन्तु मे वचः ।
॥ ब्रह्मोवाच ॥
इत्युक्त्वा नारदः सर्वानुपदिश्य मनुं च तम् ॥ ३२ ॥
जगाम तत्क्षणादेव वीणागानरतो मुनिः ।
ततः सर्वे सुरवरा गणेशध्यानतत्पराः ॥ ३३ ॥
एकपादस्थिताः केचित् केचित् पद्मासनस्थिताः ।
केचिद् वीरासनयुताः केचिन्मीलितलोचना ।
निराहारा जितश्वासा जेपुर्मन्त्रं मुनीरितम् ॥ ३४ ॥
ततो बहुगते काले करूणाब्धिर्गजाननः ।
अनुष्ठानं निरीक्ष्यैषां देवानां चिरकालजम् ॥ ३५ ॥
आविर्बभूव गणपस्तेषामग्रे वरप्रदः ।
उल्लसत्स्वर्णमुकुटश्चारूकुण्डलमण्डितः ॥ ३६ ॥
दन्तन्यस्तकरो राजत्कटिसूत्रवराङ्गदः ।
पाशं सृणिं च परशुं कमलं च भुजैर्दधत् ॥ ३७ ॥
रक्तचन्दनकस्तूरीसिन्दूरशशिभूषणः ।
विद्युत्तेजोलसत्कान्तिः कोटिसूर्यसमप्रभः ॥ ३८ ॥
दृष्ट्वैवं सहसा देवं विनायकमनामयम् ।
तेजसा धर्षिताः सर्वे भयमापुश्च केचन ॥ ३९ ॥
प्रणेमुः सहसा केचिद् देवास्तं द्विरदाननम् ।
पूजयामासुरपरे हर्षगद्गदभाषिणः ॥ ४० ॥
स्वसङ्कष्ट विनाशाय तुष्टुवु कोऽपि तं विभुम् ।
प्रसादसुमुखं देवं सुसुखं सङ्कटापहम् ॥ ४१ ॥
॥ देव ऊचुः ॥
नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय ।
नमो नमस्तेऽखिलकारकाय सर्वेन्द्रियाणामधिवासिनेऽपि ॥ ४२ ॥
नमो नमो भूतमयाय तेऽस्तु नमो नमो भूतकृते सुरेश ।
नमो नमः सर्वधियां प्रबोध नमो नमो विश्वलयोद्भवाय ॥ ४३ ॥
नमो नमो विश्वभृतेऽखिलेश नमो नमः कारणकारणाय ।
नमो नमो वेदविदामदृश्य नमो नमः सर्ववरप्रदाय ॥ ४४ ॥
नमो नमो वागविचारभूत नमो नमो विघ्ननिवारणाय ।
नमो नमोऽभक्तमनोरथघ्न नमो नमो भक्तमनोरथज्ञ ॥ ४५ ॥
नमो नमोऽभक्तमनोरथेश नमो नमो विश्वविधानदक्ष ।
नमो नमो दैत्यविनाशहेतो नमो नमः सङ्कटनाशकाय ॥ ४६ ॥
नमो नमः कारूणिकोत्तमाय नमो नमो ज्ञानमयाय तेऽस्तु ।
नमो नमोऽज्ञानविनाशनाय नमो नमो भक्तविभूतिदाय ॥ ४७ ॥
नमो नमोऽभक्तविभूतिहन्त्रे नमो नमो भक्तविमोचनाय ।
नमो नमोऽभक्त विबन्धनाय नमो नमस्ते प्रविभक्तमूर्ते ॥ ४८ ॥
नमो नमस्तत्त्वविबोधकाय नमो नमस्तत्त्वविदुत्तमाय ।
नमो नमस्तेऽखिलकर्मसाक्षिणे नमो नमस्ते गुणनायकाय ॥ ४९ ॥
॥ ब्रह्मोवाच ॥
एवं स्तुत सुरैर्देवो द्विरदानन ईश्वरः ।
उवाच परमप्रीतो हर्षयत् सुरसत्तमान् ॥ ५० ॥
॥ गणेश उवाच ॥
स्तोत्रेण तपसा चैव सुराः सन्तुष्टिमागतः ।
ददामि सकलाभीष्टं तद् वृणुध्वं सुरेश्वराः ॥ ५१ ॥
॥ देव ऊचुः ॥
यदि तुष्टोऽसि देवेश त्रिपुरं जहि दानवम ।
सर्वैषामधिकारान् नो गृहीत्वा यस्तु तिष्ठति ॥ ५२ ॥
त्वयैवास्याऽभयं दत्तं सर्वामरसमूहतः ।
अतः स्म सङ्कटं प्राप्ताः सङ्कटान्मोचयाऽऽशु नः ॥ ५३ ॥
त्वामे शरणं प्राप्ता एष एव वरो हि नः ।
॥ गणेश उवाच ॥
वारयिष्ये भयं सर्वं तस्माद् घोरतराद् हि वः ॥ ५४ ॥
भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम् ।
सङ्कष्टनाशनमिति विख्यातं च भविष्यति ॥ ५५ ॥
पठतां शृण्वतां चैव सर्वकामप्रदं नृणाम् ।
त्रिसन्ध्यं यः पठेदेतत् सङ्कष्टं नाप्नुयात क्वचित् ॥ ५६ ॥
॥ ब्रह्मोवाच ॥
इति दत्त्वा वरं तेषां सुराणां जगदीश्वरः ।
पश्यतां मुनिदेवानां तत्रैवाऽन्तर्दधे विभुः ॥ ५७॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे स्तोत्रनिरूपणं नाम
चत्वारिंशोऽध्यायः ॥ ४० ॥


कोई टिप्पणी नहीं:
एक टिप्पणी भेजें