श्रीगणेशपुराणे उपासनाखण्डे चतुस्त्रिंशोऽध्यायः

 

श्रीगणेशपुराणे उपासनाखण्डे चतुस्त्रिंशोऽध्यायः
चिन्तामणितीर्थ वर्णनं

॥ नारद उवाच ॥

कदम्बवृक्षस्य तले निधाय नासाग्रदृष्टिं परमासने सः ।
मनो निरूध्याऽथ जजाप मन्त्रं षडक्षरं जम्भरिपुर्नरेन्द्र ॥ १ ॥
सहस्रवर्षाणि गतानि तस्य मरूत्पतेर्मारुतभक्षणस्य ।
वल्मीकगुल्मानि शरीरदेशे जातानि वै भूधरवत् स्थिरस्य ॥ २ ॥
ततः प्रसन्नो भगवान् गणेशो यः सर्वगः सर्वविदुग्रतेजाः ।
स्वतेजसा वह्निशशीनतेजांस्याच्छादयन् सर्व विलोचनानि ॥ ३ ॥


चतुर्भुजो रत्नकिरीटमाली चार्वङ्गदः कुण्डलमण्डिगण्डः ।
मुक्तामयं दाम च नूपुरे च बिभ्रन्महार्घे कटिसूत्रमुच्चैः ॥ ४ ॥
यः पुष्कराक्षः पृथुपुष्करोऽपि बृहत्करः पुष्करशालिमालः ।
आविर्बभूवाखिलदेवमूर्तिः सिन्दूरशालि पुरतो मघोनः ॥ ५ ॥
तं दृष्ट्वा भयभीतोऽभूत् किमिदं किमिवागतम् ।
कथं च जीवितं मे स्यादस्थिप्राणमयस्य च ॥ ६ ॥
विघ्नोऽयं किं महानद्य न जाने केन निर्मितः ।
स्वेदस्रावि शरीरं मे कम्पते बोधिपत्रवत् ॥ ७ ॥
इत्थं विक्लवितं तस्य बुबुधेऽखिल दृग्विभुः ।
विनायको महेन्द्रं तमुवाच मञ्जुलं वचः ॥ ८ ॥
॥ विनायक उवाच ॥
मा भयं कुरू देवेश मां न वेत्सि कथं सुर ।
यन्निर्गुणं निर्विकारं चिदानन्दं सनातनम् ॥ ९ ॥
कारणातीतमव्यक्तं जगत् कारणकारणम् ।
यं ध्यायसि सदा देवं मन्त्रेणाऽनेन निश्चलः ॥ १० ॥
श्रान्तोऽसि बहुकालं त्वमिति प्रत्यक्षतां गतः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः ॥ ११ ॥
ब्रह्माण्डानामनन्तानामुत्पत्तिप्रलयावनम् ।
मत्त एवेति विद्धि त्वं वृणु यद् वाञ्छसेऽनघ ॥ १२ ॥
॥ नारद उवाच ॥
श्रुत्वा तस्य वचो रम्यं बुबुधे बलभेदनः ।
भगवन्तं महाकायं देवदेवं विनायकम् ॥ १३ ॥
ननाम परया भक्त्या तत उत्थाय सत्वरः ।
अवीदिच्छचीकान्तः प्रत्यक्षं ब्रह्मरुपिणम् ॥ १४ ॥
॥ नारद उवाच ॥
ब्रह्मादयोऽपि नो देवा विदुस्त्वां सदिगीश्वराः ।
गुणाँस्तव महाबाहो सृष्टिस्थित्यन्तकारिणः ॥ १५ ॥
पदं तु कृत्रिमं मह्यं शतयज्ञसमुद्भवम् ।
दत्तं तत्राप्यन्तराया भवन्ति बहुधा मम ॥ १६ ॥
मया कथं तु विज्ञेयो महिमा ते गजानन ।
यस्य तेऽनुग्रहः पूर्णो भविष्यति महेश्वर ॥ १७ ॥
स एव महिमानं ते जानीयाद् विघ्नकारण ।
तस्य ते गुणरूपाणि वक्तुं शक्तिर्भविष्यति ॥ १८ ॥
निराधारोऽखिलाधारो नित्यज्ञानोऽजरोऽमरः ।
नित्यानन्देन सम्पूर्णो मायावी क्षर एव च ॥ १९ ॥
अक्षरः परमात्मा च विश्वरूपोऽखिलेश्वरः ।
उग्रैस्तपोभिस्त्वां ज्ञात्वा निर्वृत्ताः सनकादयः ॥ २० ॥
षडक्षर प्रभावेण दृष्टोऽसि परमेश्वर ।
पुराऽयं ब्रह्मणाऽऽदिष्टो मन्त्रो मेऽनुग्रहेण वै ॥ २१ ॥
उक्तवांश्चैव मां ब्रह्मा यदाऽमुं विस्मरिष्यसि ।
तदैव भ्रश्यसे स्थानदुर्दशां चैव यास्यसि ॥ २२ ॥
ततो मयाऽतिलुब्धेन दुर्भाग्यवशगेन तु ।
धर्षिता मुनिपत्नीं सा ततो दुर्गतिमाप्तवान् ॥ २३ ॥
पुनश्च धिषणोक्तेन तेन मन्त्रेण दृष्टवान् ।
स्वरूपं तव देवेश सहस्रनयनोऽधुना ॥ २४ ॥
अन्यमेकं वरं याचे यतस्त्वं चिन्तितार्थदः ।
इदं कदम्बनगरं चिन्तामणिपुरं त्विति ॥ २५ ॥
अनुष्ठानफलं प्राप्तं यत् ते दृढपदाम्बुजम् ।
इदानीं तु वर याचे यं तं मे देहि विघ्नप ॥ २६ ॥
तव विस्मरणं देव न भवेन्मे तथा कुरू ।
मनो मे रमतां नित्यं तव पादाम्बुजे विभो ॥ २७ ॥
अद्य प्रभृति लोकेऽस्मिन् ख्यातिं यातु गजानन ।
चिन्तामणीति तीर्थं तु सरश्च प्रथतामिदम् ॥ २८ ॥
अस्मिन् स्नानेन दानेन धर्मकामार्थमुक्तयः ।
जनानां सिद्धयः सन्तु प्रसादात् ते जगद्गुरो ॥ २९ ॥
॥ मुनिरुवाच ॥
आकर्ण्य वचनं शाक्रं मेघगम्भीरनिस्वनः ।
उवाच श्लक्ष्णया वाचा विघ्नेशो जगतां पतिः ॥ ३० ॥
॥ विनायक उवाच ॥
इदं सम्पत्स्यते सर्वं यत् त्वया प्रार्थितं विभो ।
अन्य एको वरस्तेऽस्तु स्वपदे त्वं स्थिरो भव ॥ ३१ ॥
अविस्मृतिश्च सततं मम तेऽस्तु सुरेश्वर ।
यदा च सङ्कटं ते स्यात् तदा मां स्मर वासव ॥ ३२ ॥
आविर्भावेन ते कार्यं सर्वं सम्पादयेऽनिशम् ।
इदं चिन्तामणिपुरं ख्यातं भुवि भविष्यति ॥ ३३ ॥
कदम्बपुरमित्येतत् तीर्थं चिन्तामणीति च ।
अत्र स्नानेन सर्वेषां सिद्धयोऽपि करेस्थिताः ॥ ३४ ॥
चिन्तितं च प्रदास्यामि चिन्तामणि विनायकः ।
॥ नारद उवाच ॥
एवं वरं ततो लब्ध्वा स्वः सिन्धुमायद् हरिः ॥ ३५ ॥
कृत्वाऽभिषेकं तद्द्वारा पूजयामास तं विभुम् ।
गजाननं महाभागं परिवारसमन्वितम् ॥ ३६ ॥
पूजितः सुरनाथेन तत्रैवान्तर्दधे विभुः ।
स्थापयामास शक्रोऽपि स्फाटिकां मूर्तिमादरात् ॥ ३७ ॥
वैनायकीं शुभां दिव्यां सर्वावयवसुन्दराम् ।
कारयामास विपुलं प्रासादं रत्नकाञ्चनैः ॥ ३८ ॥
नत्वा प्रदक्षिणीकृत्य शक्रः स्वं पदमभ्यगात् ।
तदेतद् भुवि विख्यातं चिन्तामणिसरो महत् ॥ ३९ ॥
अद्यापि सा शुभजला गङ्गा शक्रस्य शासनात् ।
कृत्वाऽभिषेकं तन्मूर्तौ यातिस्वं धाम सर्वदा ॥ ४० ॥
एवं ते क्षेत्रमहिमा कथितोऽद्भुतदर्शनः ।
सर्व दोषहरः श्रीमान् सर्वकामप्रदः शुभ ॥ ४१ ॥
तत्र गत्वा महीपाल स्नानं कुरू यथाविधि ।
सर्वदोषविनिर्मुक्तो भविष्यसि न संशयः ॥ ४२ ॥
॥ ब्रह्मोवाच ॥
ततो ययौ मुनिः शीघ्रमनुपृच्छ्य च तं नृपम् ।
आशीर्भिरभिनन्द्यैव स रूक्माङ्गदमादरात् ॥ ४३ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे चिन्तामणितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-34

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...