श्रीगणेशपुराणे उपासनाखण्डे
त्रयस्त्रिशतितमोऽध्यायः
षडक्षरमन्त्र प्रभावात् इन्द्रस्य दिव्यदेहधारणमं
॥ नारद उवाच ॥
ऊचुर्देवा वृत्रहणं बहिर्याहि शतक्रतो ।
वयं हि सहितास्तत्र नारदेन सुरर्षिणा ॥ १ ॥
तं गत्वा गौतममुनिं प्रसाद्य त्वामिहागताः ।
उपायस्तेन कथितो वरोदत्तस्तवापि च ॥ २ ॥
दोषे जाते स्वयं सन्तः ख्यापयन्ति जनेषु तम् ।
तत्र प्रतिविधिं सम्यक् कुर्वन्ति तन्निरर्थकम् ॥ ३ ॥
आच्छादने दोषवृद्धिः ख्यापने तु लयो भवेत् ।
तस्मात्त्वमपि देवेन्द्र बहिरागत्य तं वद ॥ ४ ॥
देवर्षि प्रति तं ब्रूहि कुरुपायं मुनीरितम् ।
वैनायकं महामन्त्रं गृहाण त्वं षडक्षरम् ॥ ५ ॥
ब्रह्मा ददर्श चाङ्गुष्ठं विवाहे गिरिजेशयोः ।
चस्कन्द स तदा रेतो लज्जितोऽवाङ्मुखो गतः ॥ ६ ॥
ज्ञात्वा महेशः कृतवान्निर्दोषं तमुपायतः ।
इति वाणीं स श्रुत्वैव देवर्षिगणनिर्मिताम् ॥ ७ ॥
आजगाम बहिः शक्रो नलिनीकोशतो नृप ।
सर्वेषां तत्र देवानां श्रुत्वा वाक्यानि सादरम् ॥ ८ ॥
पूयशोणितदिग्धाङ्गो मलिनः पूतिगन्धवान् ।
दृष्ट्वा तथा विधं देवा नेमुः सर्वे सुरेश्वरम् ॥ ९ ॥
आच्छाद्य घ्राणरन्ध्राणि वस्त्राग्रैर्नृपसत्तम ।
सुस्नातं पुनराचान्तं तमिन्द्रं वाक्पतिस्तदा ॥ १० ॥
षडक्षरं महामन्त्रं गणेशस्योपदिष्टवान् ।
उपदेशे कृते तेन दिव्यदेहोऽभवच्च सः ॥ ११ ॥
सहस्रनयनः श्रीमान् बभौ सूर्य इवापरः ।
ततो वाद्यनिनादैश्च जयशब्दैर्दिवौकसाम् ॥ १२ ॥
गन्धर्वाणां गानरवैर्नादिता विदिशो दिशः ।
मुमुचुः पुष्पवर्णाणि सर्वेदेवा मुदान्विताः ॥ १३ ॥
आशिषोऽथ ददुः सर्वे मुनयो नारदादयः ।
आलिलिङ्गुर्मुदादेवास्तुष्टुवुश्चापरे च तम् ॥ १४ ॥
केऽप्यूचुस्तं सुमनसः सनाथा हि वयं त्वया ।
विना त्वां नैव शोभामो विना चन्द्रं नभो यथा ॥ १५ ॥
विना स्वपितरौ बाला न सुखं यान्ति सर्वथा ।
तथा विना वयं त्वां हि लभामः शर्म न क्वचित् ॥ १६ ॥
॥ मुनिरुवाच ॥
श्रुत्वेथं देववचनं जहर्षं च शतक्रतुः ।
उवाच च प्रसन्नात्मा तथ्यं वाक्यं सुरान् प्रति ॥ १८ ॥
॥ इन्द्र उवाच ॥
मया कृतं कर्म सुदुष्करं यद्देवर्षि वाक्येन विमोहितेन ।
लब्धं फलं दुःसहमद्य सर्वैरुद्धारितोऽहं दुरितप्रकोपात् ॥ १८ ॥
नमामि सर्वानमरप्रबर्हानृषींश्च सर्वान् सुगुरुप्रभावान् ।
उद्धर्तुमात्मानमतोऽखिला मां संत्रातुमर्हाः शरणं प्रपन्नम् ॥ १९ ॥
कथं प्रयत्नो रचितो भवद्भिः प्रसादनायास्य हि गौतमस्य ।
कथं नु मन्त्रं परमं मदर्थे स उक्तवांस्तत् कथयन्तु सर्वे ॥ २० ॥
॥ देवा ऊचुः ॥
मुनि पुरस्कृत्य गुरूं वयं च गता मुनि तं प्रणिपत्य सम्यक् ।
प्रसादितो वागमृतैर्विचित्रैः संयाच्यमानोऽप्यवदत् स्वमन्त्रम् ॥ २१ ॥
यस्योपदेशेन सहस्रनेत्रो जातो भवान् सर्वसुखाय देव ।
प्रयाहि देवत्वमरावतीं स्वां प्रशाधि सर्वान् विबुधांश्च लोकान् ॥ २२ ॥
॥ इन्द्र उवाच ॥
नाहं प्रयास्ये स्वपुरीं प्रसादं विना गणेशस्य सुरर्षिवर्याः ।
व्रजन्तु यूयं कृतसाधुकृत्या धामानि दिव्यानि मुदा रमन्तः ॥ २३ ॥
एतावताऽलं प्रकटीकृतोऽहं लज्जाविलीनो बहुदुर्गतिश्च ।
प्रसादितो यन्मुनिरुग्रतेजा भवत् प्रसादाद्बहुनेत्रता मे ॥ २४ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे षडक्षरमन्त्र प्रभाव
वर्णनं त्रयस्त्रिशतितमोऽध्यायः ॥ ३३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें