श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशीतितमोऽध्याययः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाशीतितमोऽध्याययः
गणेशकवचं

॥ क उवाच ॥

श्रुत्वा मुनिमुखात्पुत्रं गिरिजाया महाबलम् ।
पञ्चमे मासि सम्प्राप्ते मरीचिर्वीक्षितुं ययौ ॥ १ ॥
भूतभव्यभविष्यज्ञः समलोष्ठाश्मकाञ्चनः ।
वेदशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥ २ ॥


संहारे रक्षणे सृष्टौ मनसा जगतः क्षमः ।
तं दृष्ट्वा पादयोस्तस्य पतिता सखिभिः सह ॥ ३ ॥
उपवेश्यासने पादौ क्षालयामास भक्तितः ।
तज्जलं पावनं पीत्वा सिषेचान्तर्गृहं मुदा ॥ ४ ॥
उपचारैः षोडशभिः पुपूजेश्वरभावना ।
उवाच पार्वती तुष्टाऽलभ्यं दृष्टं पदं हि ते ॥ ५ ॥
॥ मुनिरुवाच ॥
अहमात्ममना देवि ! न व्रजामि हि कुत्रचित् ।
अकस्माद्ध्यानविषयस्तव पुत्रो बभूव मे ॥ ६ ॥
तस्य ते दर्शनाकाङ्क्षी शिवस्याप्यहमागतः ।
॥ क उवाच ॥
एवमाकर्ण्य सा वाक्यं तस्यर्षेस्तनयं स्वकम् ॥ ७ ॥
अतिप्रीतिमना गौरी तस्याङ्के संन्यवेशयत् ।
ऊचे सा तं महाभाग्यं फलितं दर्शनात्तव ॥ ८ ॥
पुण्यं च परमं प्राप्तं शुभमग्रे भविष्यति ।
॥ मुनिरुवाच ॥
गौरि तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ॥ ९ ॥
षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।
वायुभक्षा उपासन्ते यं ते सोऽयं तवात्मजः ॥ १० ॥
गुणत्रयविभेदेन त्रितनुस्त्रिक्रियाकरः ।
यत्सत्तयाऽथ शेषोऽपि वहते मस्तके भुवम् ॥ ११ ॥
अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।
चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् ॥ १२ ॥
युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।
द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः ॥ १३ ॥
मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।
तृतीये तु युगे देवो रक्तवर्णश्वतुर्भुजः ॥ १४ ॥
गजानन इति ख्यातो धूम्रवर्णः कलौ युगे ।
धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा ॥ १५ ॥
एतस्य रक्षणं गौरि दैत्येभ्यः कुरु सर्वदा ।
॥ गौर्युवाच ॥
एषोऽतिचपलो बालो दैत्यान् हन्ति बहूनपि ॥ १६ ॥
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ।
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धमर्हसि ॥ १७ ॥
॥ मुनिरुवाच ॥
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेत्रायां तु मयूरवाहनमिमं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ १८ ॥
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ १९ ॥
ललाटं काश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ ॥ २० ॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥ २१ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ २२ ॥
स्कन्धौ पातु गजस्कन्धः स्तनो विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान ॥ २३ ॥
धराधरः पातु पार्श्वे पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ २४ ॥
गणक्रीडो जानुजङ्घा ऊरूमण्डलमूर्तिमान् । (जानुजङ्घे ऊरूमङ्गलमूर्तिमान्)
एकदन्तो महाबुद्धिः पादौ गुल्फो सदाऽवतु ॥ २५ ॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥ २६ ॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूमकेतुः सदाऽवतु ॥ २७ ॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ २८ ॥
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः ॥ २९ ॥
कौबेर्य्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ ३० ॥
राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ॥ ३१ ॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं दयां कुलम् ।
वपुर्धनं च धान्यं च गृहं दारान् सुतान् सखीन् ॥ ३२ ॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ॥ ३३ ॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षः पिशाचतः ॥ ३४ ॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत् ॥ ३५ ॥
युद्धकालेपठेद्यस्तु विजयं प्राप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ॥ ३६ ॥
सप्तवारं पठेद् यस्तु दिननामेकविंशतिम् ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ ३७ ॥
एकविंशतिवारं च पठेत् तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥ ३८ ॥
राजदर्शनवेलायां पठेद्यस्तु त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत् ॥ ३९ ॥
इदं गणेशकवचं मुद्गलेन समीरितम् ।
कश्यपाय च तेनाऽथ माण्डव्याय महर्षये ॥ ४० ॥
सर्वरक्षाकरं सर्वकाम प्रपूरकम् ॥
मुद्गलायचते नाथ माण्डव्यायमहर्षये ॥ ४० ॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ।
सर्वरक्षाकरं सर्वमनः कामपूरकम् ॥ ४१ ॥
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ ४२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गणेशकवचं नाम पञ्चाशीतितमोऽध्याययः ॥ ८५ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-85

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...