श्रीगणेशपुराणे क्रीडाखण्डे अष्टाशीतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे अष्टाशीतितमोऽध्यायः
मञ्चकासुरवध

॥ व्यास उवाच ॥

अद्भुतानि चरित्राणि श्रुतानि त्वन्मुखाम्बुजात् ।
ब्रह्मन्नघौघहारीणि गुणेशेन कृतानि वै ॥ १ ॥
तथापि श्रोतुमिच्छा नो नापैति सर्ववित्तम ।
अतो बालस्य चरितं पुनर्मे ब्रूहि सादरम् ॥ २ ॥


॥ ब्रह्मोवाच ॥
श‍ृणुष्वावहितोत ब्रह्मन् गुणेशस्य कथां पुनः ।
श्रुतिरस्य च पापानां संहर्त्रीं धर्ममोक्षदा ॥ ३ ॥
अष्टमे मासि मध्यान्हे ग्रीष्मर्तौ गिरिजा किल ।
ऊष्मणा पीडितां गेहे सा ययौ पुष्पवाटिकाम् ॥ ४ ॥
अशोकाश्चन्दना यत्र पनसाश्च बिभीतकाः ।
मालतीचम्पका जातीचिञ्चिणीपिचुमन्दकाः ॥ ५ ॥
पारिजातकवृक्षाश्च घनच्छायासमन्विताः ।
रम्यं शीतजलं चारु सरः कमलमण्डितम् ॥ ६ ॥
तत्र मञ्चकवर्ये सा सख्यानीते शुभास्तरे ।
सुष्वाप गिरिजा बालयुक्ता निःशङ्कचेतसा ॥ ७ ॥
सखीभ्यां वीजिता बालव्यजनेनाश्ममुष्टिना ।
सुषुप्तिमगमद् यावत्तावदैत्यो महाबलः ॥ ८ ॥
तल्पासुर इतिख्यातो वायुरूपोऽविशत्ततः ।
मञ्चकान्तर्गतः सोऽथ तेन साकं ययौ दिवम् ॥ ९ ॥
तस्य शब्देन सन्त्रस्ते ते सख्यौ पतिते भुवि ।
आक्रन्दं परमं चक्रे पर्यङ्कस्था तदा शिवा ॥ १० ॥
व्योमस्था पर्यदेवत् सा धाव धावेति शङ्कर ।
किं मया विकृतं देव किमर्थं मामुपेक्षसे ॥ ११ ॥
अयं दैत्योऽतिबलवान् व्योमाक्रम्य प्रधावति ।
परहस्तगतां कान्तां शक्तः कथमुपेक्षसे ॥ १२ ॥
अस्य पुत्रस्य योगेन नानादुःखमभून्मम ।
अस्माद् दैत्यान्मृतिर्मे किं सपुत्राया विनिर्मिता ॥ १३ ॥
अयमेव न जातश्चेत्कथं बन्धनमाप्नुयाम् ।
॥ क उवाच ॥
एवामाक्रन्दनं श्रुत्वा उमाबालो महामनाः ॥ १४ ॥
तदा मुहुर्जगर्जासौ घनवद्गर्जयन्दिशः ।
चकम्पे धरणी तेन ससमुद्रवनाकरा ॥ १५ ॥
तामदृष्ट्वा तु शोचत्सु गणेषु प्रमथादिषु ।
पादाघातेन बालोऽथ मञ्चकं समताडयत् ॥ १६ ॥
बिभ्युर्भूतानि सहसा शतधेवाभवन्नभः ।
मञ्चकः खण्डशस्तेन भूत्वा निपतितो भुवि ॥ १७ ॥
ततस्तल्पासुरो दृश्यो जातो बालो दधार तम् ।
हस्तेनैकेन जननीं दधारासौ स्वलीलया ॥ १८ ॥
घनमुक्तं तोयबिन्दुं चञ्च्वैव चातकः क्षणात् ।
स्कन्धारूढां तु तां कृत्वा शिखां वामेन तस्य च ॥ १९ ॥
ततस्तत्याज भूदेशे तं बालः सहसा बलात् ।
पद्मासनं दैत्यदेहे कृत्वा योगीव तस्थिवान् ॥ २० ॥
स भूमौ पतितो दूरान्मर्दितो बलवत्तरम् ।
प्राणांस्तत्याज दैत्योऽथ वमन्नास्यादसृङ्मुहुः ॥ २१ ॥
स तु दृष्टो जनैर्दैत्य एकविंशतियोजनः ।
चूर्णयन्वृक्षपाषाणानाश्रमान् शरणान्यपि ॥ २२ ॥
ततो दृष्टो बालकोऽसौ गणैः सखिजनैरपि ।
ऊचुस्ते गौरि बालोऽयं रमते कुशली बली ॥ २३ ॥
सा तु भ्रान्त्यैव नाजानाद्गगनं धरणीं शिशुम् ।
मुनयस्तामथोचुस्ते सावधानमना सति ॥ २४ ॥
भव दैत्यो हतस्तेन धृत्वा रूपं महत्तरम् ।
उन्मील्य नयने पश्य पुनर्बालं शिवं शुभम् ॥ २५ ॥
॥ क उवाच ॥
तद्वाक्यात् प्रतिबुद्धा साऽपश्यद् दैत्यं च बालकम् ।
॥ गौर्युवाच ॥
विपरीतं मया दृष्टं गूढो बालेन वा कथम् ॥ २६ ॥
हतोऽनेन महादैत्य एकविंशतियोजनः ।
मातॄणामृणमुत्तीर्णो बालो मे जीवितप्रदः ॥ २७ ॥
इत्युक्त्वा बालमादाय कारयामास शान्तिकम् ।
दत्त्वा दानानि च ददौ स्तनपानं शिशोरपि ॥ २८ ॥
दृष्ट्वा ते कौतुकं तस्य प्रशशंसुर्मुदान्वितः ।
एतस्मिन्नन्तरे घोरं चक्रे शब्दं महासुरः ॥ २९ ॥
दुन्दुभेः सदृशं सोऽपि ख्यातो दुन्दुभिनामतः ।
यस्य पाणितलाघाताद्धरा चूर्णत्वमागता ॥ ३० ॥
आच्छादितो दिनमणिर्देहेन गगनस्पृशा ।
गणबालस्वरूपेण गौरीबालं जुहाव सः ॥ ३१ ॥
इत एहि रमावोऽद्य सोऽपि यातस्तदैव तम् ।
स्वाङ्कं कृत्वा तु तं बालं हालाहलफलं ददौ ॥ ३२ ॥
अध्यद्धिति फलं बालं शीघ्रमित्यब्रवीच्च सः ।
दूरदेशात्समानीतं जन्ममृत्युजरापहम् ॥ ३३ ॥
स तु जानन्दुष्टभावं फलं तज्जगृहे ततः ।
अभक्षयदयाचत् स फलान्तरमभीः पुनः ॥ ३४ ॥
॥ क उवाच ॥
अमृत विषतां याति विषं तत्तां शिवेच्छया ।
धृत्वा वक्षः स्थलं तस्य तत्क्षणादुदतिष्ठत ॥ ३५ ॥
तज्जानुनोर्न्यस्य पादौ कराभ्यां जगृहे शिखाम् ।
पराभ्यांश्मश्रुणी गृह्य दोलयामास लीलया ॥ ३६ ॥
ननर्त जानुभागेऽस्य भूमण्डलभरान्वितः ।
स पीडित उवाचाऽथ जानुभागादवातर ॥ ३७ ॥
तव भारेण नृत्येन मम देहोऽतिपीडितः ।
मुञ्च मुञ्च गमिष्यामि स्वालयं गिरिजासुत ॥ ३८ ॥
॥ क उवाच ॥
एवं सम्प्रार्थितस्तेन न मोचयति बालकः ।
उदतिष्ठद्बलादैत्यो भग्नदेहस्तु पूर्वतः ॥ ३९ ॥
बलाच्चकर्ष बालोऽपिःमूर्धानमस्य तत्क्षणात् ।
कण्ठनालात् तच्छिरोऽपि बालहस्तगतं बभौ ॥ ४० ॥
रुधिराक्ता मही सर्वा तत्क्षणं समपद्यत ।
शिरःकमलहस्तोऽसौ खेलते गिरिजासुतः ॥ ४१ ॥
शोणितेन विलिप्ताङ्गो गणा मात्रे न्यवेदयन् ।
सा गत्वा पश्यति स्माऽथ पुत्रं दृष्ट्वा तथाविधम् ॥ ४२ ॥
तच्छिरो दूरतः क्षिप्त्वा वस्त्रेण च ममार्ज तम् ।
स्नापयित्वा स्वयं स्नात्वा ददौ स्तन्यं तदा मुदा ॥ ४३ ॥
ततः सख्यो गणाश्चापुः पप्रच्छुः क्षेममर्भकम् ।
सोवाच परमं क्षेम बालके शिवभक्तितः ॥ ४४ ॥
मरीचिरक्षणाच्चापि कुशलं मम बालके ।
ततस्ते तं निरासुर्वै दुरतो दुष्टदानवम् ॥ ४५ ॥
ततो हर्षयुता जग्मुर्गणाः सख्यो निजं गृहम् ।
पार्वती हर्षसंयुक्ता सबाला प्राविशद्गृहम् ॥ ४६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे मञ्चक-दुन्दुभिवधो नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-88

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...