श्रीगणेशपुराणे क्रीडाखण्डे द्व्यशीतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे द्व्यशीतितमोऽध्यायः
गुणेशनामकरणं

॥ क उवाच ॥

ततः शिवगणाः शम्भुं वृत्तान्तं तन्यवेदयन् ।
आश्चर्यं परमं देवं शिवा पुत्रसमन्विता ॥ १ ॥
जाता पुत्रावलोकार्थं ततो याहि निज स्थलम् ।
एवं गणवचः श्रुत्वा तुतोष गिरिजापतिः ॥ २ ॥


आगत्य वीक्ष्य तं बालमद्भुतं शशिसन्निभम् ।
स्फटिकाद्रिनिभं कुन्दधवलं कज्जलोचनम् ॥ ३ ॥
आश्चर्यं परमं लेभे प्रोवाच च वचस्तदा ।
॥ शिव उवाच ॥
नायं बालोऽनादिसिद्धो जराजन्मविवर्जितः ॥ ४ ॥
लीलाविग्रहवानेष स्वप्रकाशो गुणातिगः ।
शुद्धसत्त्वमयः सर्वजीवेशो भुवनेश्वरः ॥ ५ ॥
मुनिध्येयोऽखिलाधारो ब्रह्मभूतोऽखिलप्रदः ।
॥ क उवाच ॥
एवमुक्त्वा कराभ्यां स बालमादत्त शङ्करः ॥ ६ ॥
लालयित्वा हृदि स्थाप्य सर्वहृत्स्थोऽपि यः सदा ।
पुनरूचे च गिरिजां शिवोऽशिवहरो विभुः ॥ ७ ॥
परमात्मा गुणातीतः पुत्रतां ते समागतः ।
परानुष्ठानतो देवि साक्षाद् दृष्टो विभुस्त्वया ॥ ८ ॥
॥ क उवाच ॥
ततो विप्रान् समाहूय पूजयित्वा गणाधिपम् ।
पुण्याहं वाचयित्वा च मातृपूजनपूर्वकम् ॥ ९ ॥
कृत्वाऽऽभ्युदयिकं श्राद्धं प्राशयित्वा घृतं मधु ।
अभिमन्त्र्य शिशुं भूमिं गिरिजा तं स्तनं ददौ ॥ १० ॥
गौतमादीन् पूजयित्वा ददौ दानान्यनेकशः ।
ततस्ते तदनुज्ञाता नाम प्रोचुर्महर्षयः ॥ ११ ॥
अयं ते बालतां यातोऽनादिसिद्धोऽखिलेश्वरः ।
निर्माता सर्वलोकान्ना चराचरगरोर्गुरुः ॥ १२ ॥
मायावी वेदवेदान्ताऽगोचरो मध्यगे रवौ ।
अवतीर्णः सुमुहूर्ते कीर्तिमाविष्करिष्यति ॥ १३ ॥
भाद्रशुक्लचतुर्थ्यां तु शशिवारे च वायुभे ।
सिंहलग्ने पञ्चशुभग्रहयुक्तेऽभवत्सुतः ॥ १४ ॥
श्रीमान् पराक्रमयुतोऽद्भुतकर्मा महाबलः ।
भविष्यति च लोकानां भक्तानामतिसौख्यदः ॥ १५ ॥
एकादशदिने शम्भो कुरुनामास्य सुन्दरम् ।
॥ क उवाच ॥
एवमुक्त्वा गताः सर्वे मुनयो निजमन्दिरम् ॥ १६ ॥
हरो बालं विनिक्षिप्य गिरिजाशयने शुभे ।
विसृज्य लोकानखिलान् बहिरायान्मुदान्वितः ॥ १७ ॥
ततः शेषो ययौ तत्र फणाच्छायामथाकरोत् ।
नीरजस्कां धरां चक्रुर्मेघास्तत्र सुखाववुः ॥ १८ ॥
मारुतो मालतीगन्धो ननृतुश्चाप्सरोगणाः ।
जगुर्गन्धर्व सङ्घाश्चतुष्टुवुश्चारणा विभुम् ॥ १९ ॥
ततो मुनिगणाः सर्वेमृन्मूर्तिञ्च कुरुत्तमाम् ।
मण्डपं शोभनं कृत्वा कदलीपुष्पमण्डितम् ॥ २० ॥
पुपूजुः परया भक्त्या पद्मासनगता मुदा ।
गुणेशेति गुणेशेति जेपुः सर्वे निरन्तरम् ॥ २१ ॥
अहोरात्रोषिताः सवे रात्रौ च जागरान्विताः ।
यथाशक्ति द्विजान्भोज्य चक्रुस्ते पारणं द्विजाः ॥ २२ ॥
एवं दशदिने विप्रान्भोजयामासुरादरात् ।
गृहे गृहे महोत्साहांश्चक्रुर्देवस्य तुष्टये ॥ २३ ॥
एकादशे तु दिवसे सर्व मुनिगणाः शिवम् ।
आहूता आययुर्नाम कर्तुं शिवसुतस्य ह ॥ २४ ॥
मानितास्तेन ते सम्यक् कारयामासुरुत्तमम् ।
सर्वेशत्वाद् गुणेशेति सर्वविघ्नहरं शुभम् ॥ २५ ॥
शिवोऽपि तान्मुनीन्प्राह सम्यङनाम समीरितम् ।
सर्वारम्भेषु पूज्योऽयमिति तस्मै वरं ददौ ॥ २६ ॥
पूजिता मुनयः सर्वे दत्त्वा दानानि सर्वशः ।
आज्ञां गृहीत्वा शम्भोस्ते स्वस्वाश्रमपदं ययुः ॥ २७ ॥
अन्तर्गृहगता देवी पुपूजे देवताः स्वयम् ।
तदादि सा तिथिः ख्याता गुणेशस्य वरप्रदा ॥ २८ ॥
तस्यां महोत्सवः कार्यश्चतुर्थ्यां स्वशुभाप्तये ।
मृन्मयीं प्रतिमां कृत्वा पूजयेच्च यथाविधि ॥ २९ ॥
कृत्वा मण्डपिकां चारुमुपोष्य जागृयान्निशि ।
मोदकापूपलड्डूकैः पायसैः पूजयेद्विभुम् ॥ ३० ॥
अपरस्मिन्दिने विप्रान्भोजयेच्च यथाविधि ।
एकविंशतिसङ्ख्याकान् यथाशक्ति च दक्षिणाम् ॥ ३१ ॥
दत्त्वा तेभ्यो नमस्कृत्य पश्चाद्भोजनमाचरेत् ।
यो न पूजयते चास्यां गणेशं मृन्मयं नरः ॥ ३२ ॥
स विघ्नैरभिभूतः सन्नानारोगैः प्रपीड्यते ।
न तस्य दर्शनं कुर्यात्पतितस्येव कर्हिचित् ॥ ३३ ॥
जाते तु दर्शने तस्य गणेशं नाम संस्मरेत् ।
चतुर्थ्या महिमानं नो न शक्यं सुनिरूपितुम् ॥ ३४ ॥
कर्माणि तु गुणेशस्य यथामति निरूपये ।
गुप्तरूपाः सिन्धुदूताः शङ्करालयसंस्थिताः ॥ ३५ ॥
तमुदन्तं तु ते गत्वा प्रावदन्सिन्धवे तदा ।
समासीनाय योधैश्च बहुभिर्वेष्टिताय च ॥ ३६ ॥
स्थापयित्वाऽप्सरोनृत्यं गानं गन्धर्वसम्भवम् ।
॥ दूता ऊच ॥
दक्षिणेदण्डकारण्ये त्रिसन्ध्याक्षेत्रसंज्ञिते ॥ ३७ ॥
गत्वा तत्र दृष्टवन्तो भगवन्तं शिवाभिधम् ।
अष्टाशीतिसहस्राणां मुनीनामाश्रमान्बहून् ॥ ३८ ॥
एकस्मिन्दिवसे बालं शिवा प्रासूत षडभुजम् ।
लावण्यकोशं त्रैलोक्येऽनुपमं महसोज्ज्वलम् ॥ ३९ ॥
दशाहस्सु महोत्साहैर्गतेषु मुनिपुङ्गवाः ।
चक्रुर्नाम गुणेशेति तस्य बालस्य शङ्करः ॥ ४० ॥
वयं वादित्रनिर्घोषैर्बधिरा इव तस्थिम ।
यदि हन्तुं गमिष्यामः सप्तकोटिगणास्तदा ॥ ४१ ॥
एकैकस्य बलं घोरं पर्वतोन्मूलनक्षमम् ।
निहन्युः सहसाऽभ्येत्य वृत्तान्तं को निवेदयेत् ॥ ४२ ॥
॥ क उवाच ॥
एवं वदत्सु दूतेषु शुश्रुवे व्योमवाक् तदा ।
उत्पन्नः क्वापि ते हन्ता सिन्धो सावधतां व्रज ॥ ४३ ॥
॥ सिन्धुरुवाच ॥
वध्यतां वध्यतां कोऽयं ब्रूते दुष्टवचोऽत्र ह ।
॥ क उवाच ॥
केचिदुड्डीय पतिता धावयित्वाऽपरे ययुः ॥ ४४ ॥
तावद्दैत्यो महामूर्च्छां सम्प्राप्तः पतितो भुवि ।
चिन्तामग्नो म्लानमुखो निरुत्साहो हतप्रभः ॥ ४५ ॥
उवाच विस्खलद्वाचो मुहूर्त्तात्प्राप्य चेतनाम् ।
त्रैलोक्यकण्टकस्यापि कण्टकः कः उपस्थितः ॥ ४६ ॥
कथं हन्याद्गजः सिंहं मशको वाथ वारणन् ।
त्रयस्त्रिंशत्कोटिदेवा निर्जिताः क्षणमात्रतः ॥ ४७ ॥
तस्य मे मरणं कस्माज्जायेत व्योमवाङमृषा ।
ऋताऽस्तु वा गमिष्यामि भक्षितुं तमहं रिपुम ॥ ४८ ॥
एवमुक्त्वा क्षणार्द्धात्स भद्रासनगतोऽभवत् ।
सर्वे वीरास्ततो याताः श्रुत्वा वार्तां तथाविधाम् ॥ ४९ ॥
त्वमेव मृत्योर्मृत्युश्च तव मृत्युः कथं भवेत् ।
इत्यूचुस्ते भवेद्वापि तं वयं घातयामहे ॥ ५० ॥
स्वर्गे भूमौ तले वापि गगने वा वसेद् यदि ।
देह्याज्ञां नो गमिष्यामो दैत्यास्तानब्रवीदथ ॥ ५१ ॥
सखीनां सेवकानां च पीत्वा वाक्यामृतं परम् ।
प्रीतोऽहं यान्तु शीघ्रं तु यत्र मे स रिपुर्भवेत् ॥ ५२ ॥
अनेकमायया हत्वा रिपुं मम निवेद्यताम् ।
॥ क उवाच ॥
एवमाज्ञां गृहीत्वा ते सङ्ख्यातीता ययुस्ततः ॥ ५३ ॥
त्रिसन्ध्याक्षेत्रमासाद्य गुप्तरूपेण चावसन् ।
गौरीसुतं तत्र कुत्र मायया हन्म इत्युत ॥ ५४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गुणेशनामकरणं नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-82

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...