श्रीगणेशपुराणे क्रीडाखण्डे नवतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे नवतितमोऽध्यायः
अविजयवध

॥ क उवाच ॥

ततो द्वादशमासे तु गिरिजा सुतमद्भुतम् ।
उपविष्टालिभिःसार्धमङ्के कृत्वा स्वलङ्कृतम् ॥ १ ॥
कोटिसूर्यनिभं कोटिभूषणैश्च विराजितम् ।
ततस्तस्या महानासीदुत्सवो नृत्यदर्शने ॥ २ ॥


बालकानां हरस्याऽथ ज्ञात्वा वाञ्छां शिशुस्तदा ।
थेथीथेयीति शब्देन ननर्त गिरिजासुतः ॥ ३ ॥
श्रुत्वा तदीयं तं शब्दं हरो नर्तितुमागतः ।
शिवं नृत्यन्तमालोक्य ननर्त श्रीवरोऽपि च ॥ ४ ॥
तत इन्द्रादयो देवास्तत्र नर्तितुमागताः ।
स यथा नर्तते बालस्तेऽपि नृत्यन्ति तादृशम् ॥ ५ ॥
दर्शयन्ति तथा भावं स यथा दर्शयत्यपि ।
मनुष्याः पशवो वृक्षा यक्षराक्षसपन्नगाः ॥ ६ ॥
मुनयो मनवो भूपा भुवनानि चतुर्दश ।
एकविंशतिस्वर्गस्थाः सचेतनमचेतनम् ॥ ७ ॥
बालप्रभावान्ननृते बालच्छन्देन भूतलम् ।
मुनिपत्न्यो देवपत्न्यो ननृतुर्गिरिकन्यया ॥ ८ ॥
नूपुराणां सिञ्जितेन क्षुद्रघण्टारवेण च ।
पादाघातस्य शब्देन दिशो विदिश एव च ॥ ९ ॥
गगनं पर्वता आसन् नादयुक्तास्तदा मुने ।
चकम्पे धरणी शेषो रविश्चन्द्रश्च तारकाः ॥ १० ॥
ततो नृत्यस्यातिशयं ज्ञात्वा गौरी न्यषेधयत् ।
न चक्रे बालको वाक्यं यदा गौरीसमीरितम् ॥ ११ ॥
नूपुराख्यो महादैत्यो महाकृष्णतनुर्दृढः ।
पातालचरणो व्योमसंस्पर्शिदृढमस्तकः ॥ १२ ॥
नूपुरान्तर्गतो दुष्टः सूक्ष्मरूपः शिशोरसौ ।
स बालस्तं बबन्धाशु मायया बलवत्तरम् ॥ १३ ॥
श‍ृङ्खलाभिश्चतुर्दन्तं यथा मदच्युतं गजम् ।
अङ्के जग्राह तं बालं पुनरेवाद्रिकन्यका ॥ १४ ॥
तद्भारेण पिपीडाऽथ भूभारेण समेन सा ।
उवाच वचसा गौरी कथं गुरुतरो भवान् ॥ १५ ॥
इदानीमेव जातोऽसि तस्मादुत्तर मेऽङ्कतः ।
मम प्राणा गमिष्यन्ति तव भारेण बालक ॥ १६ ॥
॥ क उवाच ॥
श्रुत्वा मातुर्वचो बालः पीडिता सा भृशं तदा ।
उत्ततार बलादङ्काद् दधावाङ्घ्रियुगं शिशुः ॥ १७ ॥
ततो निसृत्य दैत्योऽसौ व्योम्नि बभ्राम पक्षिवत् ।
तमसाऽव्यापि भूः सर्वा तेन सञ्छादिते रवौ ॥ १८ ॥
सोऽकस्मान्निपपातोर्व्यां शतधा चाभवत्खलः ।
ततस्ते मुनयो देवाः परमानन्दनिर्वृताः ॥ १९ ॥
तुष्टुवुर्बालरूपं तं परमात्मानमव्ययम् ।
॥ देवर्षय ऊचुः ॥
न जानीमो वयं देव रूपाणि तव यन्महः ॥ २० ॥
लीलामायाश्च विविधा दैन्यदानवनाशिकाः ।
चरणात्याजितोदैत्यो रविमण्डललोपकः ॥ २१ ॥
भ्रमित्वा व्योमनि भृशं पतितः शतधाऽभवत् ।
संहृत्य जीवसङ्घातान् वृक्षानाश्रमपर्वतान् ॥ २२ ॥
तव नृत्यं ततो वीक्ष्य सर्वे नृत्यं प्रचक्रिरे ।
॥ क उवाच ॥
ततस्ते पुपुजुः सर्वे तं बालं विश्वरूपिणम् ।
नृत्योत्सवे निवृत्ते तु गौतमादीन् विसृज्य सा ॥ २३ ॥
पार्वती बालमादाय लालयित्वा स्तनं ददौ ॥ २४ ॥
स्त्रियः सर्वा विसृज्यार्थ विवेश निजमन्दिरम् ।
ततः पुनः कदाचित्स मुनिबालैः समन्वितः ॥ २५ ॥
गृहाद्बहिः क्रीडनार्थं ययौ चिक्रीड लीलया ।
मल्लयुद्धं च ते चक्रुर्द्वन्द्वशोऽनेकधा बहु ॥ २६ ॥
पातयामासुरागृह्य शिखायां ते परस्परम् ।
जघ्नुः शिरः शिरोभिश्च जानुभिर्जानुनी तथा ॥ २७ ॥
कूर्परं कूर्परेणैव चरणं चरणेन च ।
रुरुहुः पृष्ठभागं ते स्कन्धभागं परस्परम् ॥ २८ ॥
लत्ताप्रहारान्निर्जघ्नुरुदरे मस्तकेऽपि च ॥ २९ ॥
केचिच्च पुपुजुर्बालं गन्धपुष्पाक्षतादिभिः ॥ ३० ॥
केचिन्नीत्वाश्रमपदं भोजयामासुरन्धसा ।
नमश्चक्रुः पदयुगं केचिन्मालां ददुः शुभाम् ॥ ३१ ॥
अविपुत्रस्वरूपेण दैत्यः सिन्धुप्रणोदितः ।
यं दृष्ट्वा भयमभ्येति दण्डपाणिर्भयानकः ॥ ३२ ॥
स्वबलेन जघानारींस्तीक्ष्णधारनखो बली ।
बिरुदं बाहुदेशे स जित्वा सर्वान्न्बबन्ध ह ॥ ३३ ॥
विशालाक्षो बृहच्छृङ्गो महागोत्रविदारणः ।
पुच्छाघातेन जीवानां यश्चक्रे नाशनं खलः ॥ ३४ ॥
उन्मूलयामास द्रुमान् शृङ्गाघातेन पर्वतान् ।
पृष्ठलग्नो मनुष्याणां बलान्मारयते बली ॥ ३५ ॥
स ययौ पार्वतीबालं हन्तुकामो महासुरः ।
पृष्ठतो धावयित्वा स यावन्मारयते तु तम् ॥ ३६ ॥
दधार श‍ृङ्गयोर्बालो हस्ताभ्यां तावदेव हि ।
रुरोह च स तत्पृष्ठे हयपृष्ठे यथाऽर्भकः ॥ ३७ ॥
ततो मुनिसुताः केचित्पुच्छं धृत्वा व्यकर्षयन् ।
केचिद्दण्डैश्च लगुडैर्निजघ्नुर्दैत्यपुङ्गवम् ॥ ३८ ॥
सोऽवमत्य तु तान् जघ्ने पुच्छान्तेन स सत्वरम् ।
निपेतुस्ते तदा भूमौ पुच्छाघातेन पीडिताः ॥ ३९ ॥
दृष्टवा तस्य बलं बालोऽवतरच्च दधार तम् ।
आस्फालयत्तदा पृष्ठे भ्रामयित्वा चिरं तु तम् ॥ ४० ॥
सहस्रधा विशीर्णाङ्गो ममार सहसाऽसुरः ।
अन्त्यशब्देन तस्याथ बिभाय भुवनत्रयम् ॥ ४१ ॥
वमन् रक्तं बहुमुखात्प्रसार्य विकृतं मुखम् ।
ततो बाला मुनीनां तेऽकथयन्नचलोद्भवाम् ॥ ४२ ॥
अनेन निधनं नीत अविजेयो महासुरैः ।
निहन्तुं नः समायातः क्रीडता बलशालिना ॥ ४३ ॥
॥ क उवाच ॥
अम्बा निरीक्ष्य निहतं महादैत्यं सुतं च तम् ।
आश्चर्यं परमं कृत्वा निनाय निजमन्दिरम् ॥ ४४ ॥
दध्योदनं भ्रामयित्वा बालोपरि जलेन ह ।
तत्याज दूरतो गेहात् स्तनपानं ततो ददौ ॥ ४५ ॥
तानि खण्डानि दैत्यस्य तत्यजुर्दूरतो गणाः ।
मुनयो मुनिपत्न्यश्च मुनिबालाः स्त्रियोऽपि च ॥ ४६ ॥
प्रशशंसुः सुतं गौर्या देवाः पुष्पाणि तत्यजुः ।
आशिषोऽपि ददुर्विप्रा नृत्यन्तेस्माप्सरोगणाः ॥ ४७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे नूपूरासुर-मेषासुरवधो नाम नवतितमोऽध्यायः ॥ ९० ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-90

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...