श्रीगणेशपुराणे क्रीडाखण्डे चतुरशीतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे चतुरशीतितमोऽध्यायः
बालासुरवध

॥ क उवाच ॥

मासे द्वितीये गौरी तं सायमभ्यज्य बालकम् ।
स्थापयामास दोलायां गायति स्म मुदा बहु ॥ १ ॥
तावदाखू समायातौ मायारूपधरौ सुतम् ।
तौ क्षेमकुशलौ दैत्यौ तद्वधकाङ्क्षिणावुभौ ॥ २ ॥


नखदंष्ट्रायुधौ घोरौ मन्दिराभ्यन्तरं गतौ ।
युध्यन्तौ पालनाभ्याशे स्फुरदङ्गरुहौ खलौ ॥ ३ ॥
ययोश्चीत्कारशब्देन श्रुतयो बधिरीकृताः ।
पादाघातेन भूः सर्वा कृष्टक्षेत्रसमा कृता ॥ ४ ॥
ततो यष्टिं गृहित्वा सा भीषयामास तावुभौ ।
पलायनपरौ चोभावुपरिष्टाद् गतौ तदा ॥ ५ ॥
युध्यन्तौ पतितौ घोरौ बालकोपरि तावुभौ ।
उरःस्थलाभिघातात् स बुबुधे बालकोत्तमः ॥ ६ ॥
कृत्वा कर्कशशब्दं तु सा बिभाय तदा शिवा ।
बालभावेन हस्तौ स चालयामास भीतितः ॥ ७ ॥
तदाघातादुभौ नष्टजीवितौ पतितावधः ।
वमन्तौ रुधिरं वक्त्राद् दृष्ट्वा भ्रान्ता शिवाऽभवत् ॥ ८ ॥
किञ्चिज्जीवितशेषौ तौ बहिर्नीतौ गणैस्तदा ।
मोक्षं जग्मतुराघाताद् गणेशकरसम्भवात् ॥ ९ ॥
तद्देहौ पतितौ घोरौ दशयोजनविस्तृतौ ।
कोलाहलो महानासीद् दृष्ट्वा देहौ तथा गतौ ॥ १० ॥
गणानां च सखीनां च पार्वत्या सुमहाँस्तदा ।
विध्वस्ता आश्रमा वृक्षाः पर्वता भुवनानि च ॥ ११ ॥
पतद्भयां तच्छरीराभ्यां निर्जीवाभ्यां महान्त्यपि ।
छित्त्वा छित्त्वा तु तद्देहौ गणा निन्युर्बहिस्तदा ॥ १२ ॥
पार्वती भयवित्रस्ता बालमादाय सत्वरम् ॥
पाययामास स्रेहेन स्तन्यं बालकवत्सला ॥ १३ ॥
ऋषिपत्न्यः समायाता पार्वतीमूचिरेऽनघाः ।
पुण्यं महत् तु ते गौरि येन विघ्नं विनश्यति ॥ १४ ॥
द्विमासिकेन बालेन हतौ दुष्टौ महासुरौ ।
अग्रे त्रिभुवनेऽनेन सदृशो न भविष्यति ॥ १५ ॥
मातः राक्षसभूरत्र यत्नः कार्यः शिशाविह ।
नेष्यन्ति राक्षसा गुप्ता असुरा मायिनः परे ॥ १६ ॥
॥ क उवाच ॥
एवमुक्त्वा गता देव्यो गणास्तां तु समूचिरे ।
अयं तु ते शिवे बालो हनिष्यति दिने दिने ॥ १७ ॥
अस्माभिस्तु कियत्कालं बहिः कार्या हतासुराः ।
ततस्तु मुनयो जग्मू रक्षां चक्रुरथार्भके ॥ १८ ॥
ददौ दानानि तेभ्यः सा विससर्ज प्रणम्य तान् ।
ततस्तृतीये मासे तु स्वस्वकार्यरते जने ।
मध्यान्हे पार्वती बालं गृहीत्वा मञ्चकेऽस्वपत् ॥ १९ ॥
तत्परीचारिकाः सुप्ताः काश्चित्कार्यान्तरे स्थिताः ।
चक्रुः काश्चिद् वारि वार्तामेतस्मिन्नन्तरेऽसुरः ॥ २० ॥
क्रूराख्यश्चोतुवेषेण विवेश गिरिजालयम् ।
वञ्चयित्वा लोकदृष्टिं श्वेवदुष्टो महाबलः ॥ २१ ॥
स निरीक्ष्य शिवां सुप्तां जहृषे मनसा तदा ।
यावन्निद्राति गिरिजा तावन्नेष्ये शिशुं त्वहम् ॥ २२ ॥
लाघवान्मञ्चकारूढो बालमादाय मस्तके ।
मञ्चकाधः पपाताशु चुक्रोश बालकस्तदा ॥ २३ ॥
ततः प्रबुद्धा गिरिजा बिडालास्यगतं शिशुम् ।
निरीक्ष्य धाव धावेति प्राकोशद् भयविह्वला ॥ २४ ॥
निमील्य नयने मूर्च्छामगाद् दुःखेन भीतितः ।
कण्ठे दशति यावत् स तावद्बालो दधार तम् ॥ २५ ॥
कर्णयोरुभयोर्दोर्भ्यां स्वभावात् पादताडनात् ।
न्यपातयच्छिरोदेशे मञ्चकाधो महासुरम् ॥ २६ ॥
स भिन्नह्दयोऽधावद् बहिर्गत्वा पपात ह ।
महावातेन वृक्षात्तु पक्वं किञ्चित्फलं यथा ॥ २७ ॥
दुर्गन्धं रुधिरं तस्य पतितं धरणीतले ।
आच्छादयन्नासिकां सा गिरिजा शोकविह्वला ॥ २८ ॥
आदाय तस्मै प्रादात्सा स्तनपानं शिशोस्तदा ।
आगता बालशब्देन सर्वास्ताः परिचारिकाः ॥ २९ ॥
स्पृशन्ति स्म तदाङ्गानि प्रत्येकं कौतुकान्विताः ।
अजरामरतामस्य निश्चित्य मनसा तु ताः ॥ ३० ॥
स तु दीर्घ बिडालोऽभूत्तदा द्वादशयोजनम् ।
कियत्यश्चूर्णिताः सख्यः कियत्यः परिचारिकाः ॥ ३१ ॥
गणाश्चैव समायाता ओतुं दृष्ट्वा तथाविधम् ।
आश्चर्यं परमं चक्रुर्बालकस्य पराक्रमे ॥ ३२ ॥
क्व दैत्यो मायिको दुष्टः क्व बालचरणाहतिः ।
इन्द्रादीनामवध्या ये हन्यन्तेऽनेन लीलया ॥ ३३ ॥
इत्यनुज्ञां गृहीत्वा ते गणा याता निजं पदम् ।
केचिच्च बलिनो दैत्यमाकृष्य तत्यजुर्बहिः ॥ ३४ ॥
कटिदेशे गृहीत्वैनं साऽविशन्निजमन्दिरम् ।
ततश्चुतर्थे मासे तु मुनिपत्न्यः समागताः ॥ ३५ ॥
नानासौभाग्यद्रव्याणि गृहीत्वोत्तरगे रवौ ।
अबालाश्च सबालाश्च पार्वत्या मन्दिरं शुभम् ॥ ३६ ॥
तासामासनसत्कारान्ददौ दाक्षायणी तदा ।
नमस्करोति ता नारीः कटौ बालं प्रगृह्य च ॥ ३७ ॥
परस्परं समर्च्यन्त्यो हरिद्राकुङ्कुमादिभिः ।
भूमौ संस्थाप्य बालानि गतिमन्त्यगतीनि च ॥ ३८ ॥
पार्वतीयस्ततस्तेषु कीडतेस्मापि बालकः ।
तेन सर्वे शुशुभिरे शशिनोडुगणो यथा ॥ ३९ ॥
दृष्ट्वा ता मुनिपत्न्यस्तमूचुर्गिरिसुतामिति ।
धन्याऽसि गौरि पुत्रेण शिवदत्तेन भास्वता ॥ ४० ॥
तव बालस्य सान्निध्याद्भासन्ते नोऽपि बालकाः ।
निधिसङ्गेन हेमत्वं लोहेनापि समाप्यते ॥ ४१ ॥
एवं कौतुकयुक्तास्ता आनर्चुश्व परस्परम् ।
हरिद्राभिः कुङ्कुमेक्षुखण्डचन्दनगृञ्जकैः ॥ ४२ ॥
तिलैर्गुडैस्तालपत्रैर्नानापरिमलैरपि ।
काश्चिदङ्गे हरिद्रां च मुखेषु च लिलिम्पिरे ॥ ४३ ॥
एतस्मिन्नन्तरे दैत्यो नाम्ना बालासुरो महान् ।
बालरूपी समवयास्तन्मध्ये क्रीडितुं ययौ ॥ ४४ ॥
चिक्रीड पार्वतीयेन युद्ध्यन्निव विनोदतः ।
यथा सिंहेन क्रोष्टा तु महिषो वा गजेन च ॥ ४५ ॥
कण्ठेन कण्ठं सङ्घृष्य पेततुर्भुवि दारुणौ ।
मस्तके चरणाभ्यां सोऽहनद् दुष्टो गजाननम् ॥ ४६ ॥
कचादानाय हस्ताभ्यां विचकर्ष बलादमुम् ।
स्वयं च गर्जते दुष्टो वृद्धः क्रोष्टा यथा निशि ॥ ४७ ॥
दृष्ट्वा तथाविधौ तौ सा गिरिजा प्राहता स्त्रियः ।
कस्यर्षेर्दृढबालोऽयं ताडयित्वा शिशुं मम ॥ ४८ ॥
क्रन्दतेऽसौ खर इव प्रहरे प्रहरे खलः ॥
अर्भकाणां स्वभावोऽयमित्युपेक्षितवत्यसौ ॥ ४९ ॥
तौ तु भूमिगतौ बालौ लुण्ठतःस्मानुवत्सलौ ।
धृत्वा परस्परं केशानाकर्षन्तौ च सर्वशः ॥ ५० ॥
हसन्तौ हासयन्तौ च बालकांश्च मुनिस्त्रियः ।
जानन्नपि महादैत्यं खेलति स्म विनायकः ॥ ५१ ॥
ततो बालासुरो दुष्टो हस्ताभ्यां बलवत्तरम् ।
जीवग्राहं कण्ठदेशे दधार गणनायकम् ॥ ५२ ॥
तथा तं सोऽपि जग्राह रुद्धश्वासोऽसुरोऽभवत् ।
विह्वलं दैत्यपुत्रं तं दृष्ट्वा दुश्चित्ततां स्त्रियः ॥ ५३ ॥
ययुश्च चुक्रुशुर्बालो निहतोऽतेन निश्चितम् ।
धावमाना ययुः काश्चिन्नाशकन्मोचितुं हि तौ ॥ ५४ ॥
स्त्रियश्च पुरुषाः सर्वे ततस्तामम्बिकां शुभाम् ।
ऊचुर्विमोचयैनं त्वं मनिपुत्रो मरिष्यति ॥ ५५ ॥
ततः सा पार्वती बालं मुञ्च मुञ्चेति साऽब्रवीत ।
अस्मिन्मृते शपिष्यन्ति मुनयो नस्तपोन्विताः ॥ ५६ ॥
जीवदानात्परं पुण्यं नास्ति ब्रह्माण्डगोलके ।
गमिष्यति महाशक्तिस्तव तेषां तु शापतः ॥ ५७ ॥
॥ क उवाच ॥
एवं यावत्प्रार्थयते गिरिजा तावदेव हि ।
नेत्रद्वारेण तत्प्राणा गता बुद्बुदवत्क्षणात् ॥ ५८ ॥
ददृशुस्तं ततः सर्वे दशयोजनमायतम् ।
करालवक्त्रं पतितं चूर्णयित्वा महाद्रुमान् ॥ ५९ ॥
ततः स्त्रियो ययुर्भीता बालमादाय सत्वराः ।
वृकवृन्दं हि दृष्ट्वैव धेनवोऽजा यथा भयात् ॥ ६० ॥
गिरिजापि स्वकं गृह्य भ्रामयित्वा सुतं मृदम् ।
दत्त्वा स्तनं कारयित्वा शान्तिकं द्विजपुङ्गवैः ॥ ६१ ॥
ददौ दानानि तेभ्यः सा जगृहे आशिषो बहु ।
न जाने आसुरीं मायां कियन्तो यान्ति नाशितुम् ॥ ६२ ॥
ततस्ते विलयं यान्ति मम बालान्महाखलाः ।
ईश्वरे सानुकूले कः पीडितुं क्षमते जनम् ॥ ६३ ॥
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं मुनिपत्न्यो ययुश्च ते ।
गणास्तं दूरतः क्षिप्त्वा स्नात्वा स्वं धाम लेभिरे ॥ ६४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बिडालसुरबालासुरवधो नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-उपासना-खण्ड-अध्याय-84

कोई टिप्पणी नहीं:

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...