श्रीलिङ्गमहापुराण -[उत्तरभाग] -010

श्रीलिङ्गमहापुराण -[उत्तरभाग] -010
॥ श्रीसाम्बसदाशिवाय नमः ॥
दसवाँ अध्याय
उमापति शिव के माहात्म्य का वर्णन तथा शिव के आदेश से ही सृष्टि-पालन आदि सभी कार्यों का संचालन
श्रीलिङ्गमहापुराणे उत्तरभागे दशमोऽध्यायः
उमापतेर्महिमवर्णनं

॥ सनत्कुमार उवाच ॥
भूय एव ममाचक्ष्व महिमानमुमापतेः ।
भवभक्त महाप्राज्ञ भगवन्नन्दिकेश्वर ॥ १ ॥
॥ शैलादिरुवाच ॥
सनत्कुमार सङ्क्षेपात्तव वक्ष्याम्यशेषतः ।
महिमानं महेशस्य भवस्य परमेष्ठिनः ॥ २ ॥


नास्य प्रकृतिबन्धोऽभूद्बुद्धिबन्धो न कश्चन ।
न चाहङ्कारबन्धश्च मनोबन्धश्च नोऽभवत् ॥ ३ ॥
चित्तबन्धो न तस्याभूच्छ्रोत्रबन्धो न चाभवत् ।
न त्वचां चक्षुषां वापि बन्धो जज्ञे कदाचन ॥ ४ ॥
जिह्वाबन्धो न तस्याभूद्घ्राणबन्धो न कश्चन ।
पादबन्धः पाणिबन्धो वाग्बन्धश्चैव सुव्रत ॥ ५ ॥
उपस्थेन्द्रिय बन्धश्च भूततन्मात्रबन्धनम् ।
नित्यशुद्धस्वभावेन नित्यबुद्धो निसर्गतः ॥ ६ ॥
नित्यमुक्त इति प्रोक्तो मुनिभिस्तत्त्ववेदिभिः ।
अनादि मध्यनिष्ठस्य शिवस्य परमेष्ठिनः ॥ ७ ॥
बुद्धिं सूते नियोगेन प्रकृतिः पुरुषस्य च ।
अहङ्कारं प्रसूतेऽस्या बुद्धिस्तस्य नियोगतः ॥ ८ ॥
अन्तर्यामीति देहेषु प्रसिद्धस्य स्वयंभुवः ।
इन्द्रियाणि दशैकं च तन्मात्राणि च शासनात् ॥ ९ ॥
अहङ्कारोऽतिसंसूते शिवस्य परमेष्ठिनः ।
तन्मात्राणि नियोगेन तस्य संसुवते प्रभो ॥ १० ॥
महाभूतान्यशेषेण महादेवस्य धीमतः ।
ब्रह्मादीनां तृणान्तं हि देहिनां देहसङ्गतिम् ॥ ११ ॥
महाभूतान्यशेषाणि जनयन्ति शिवाज्ञया ।
अध्यवस्यति सर्वार्थान्बुद्धिस्तस्याज्ञया विभोः ॥ १२ ॥
अन्तर्यामीति देहेषु प्रसिद्धस्य स्वयंभुवः ।
स्वभावसिद्धमैश्वर्यं स्वभावादेव भूतयः ॥ १३ ॥
तस्याज्ञया समस्तार्थानहङ्कारोऽतिमन्यते ।
चित्तं चेतयते चापि मनः सङ्कल्पयत्यपि ॥ १४ ॥
श्रोत्रं शृणोति तच्छक्त्या शब्दस्पर्शादिकं च यत् ।
शम्भोराज्ञबलेनैव भवस्य परमेष्ठिनः ॥ १५ ॥
वचनं कुरुते वाक्यं नादानादि कदाचन ।
शरीराणामशेषाणां तस्य देवस्य शासनात् ॥ १६ ॥
करोति पाणिरादानं न गत्यादि कदाचन ।
सर्वेषामेव जन्तूनां नियमादेव वेधसः ॥ १७ ॥
विहारं कुरुते पादो नोत्सर्गादि कदाचन ।
समस्तदेहिवृन्दानां शिवस्यैव नियोगतः ॥ १८ ॥
उत्सर्गं कुरुते पायुर्न वदेत कदाचन ।
जन्तोर्जातस्य सर्वस्य परमेश्वरशासनात् ॥ १९ ॥
आनन्दं कुरुते शश्वदुपस्थं वचनाद्विभोः ।
सर्वेषामेव भूतानामीश्वरस्यैव शासनात् ॥ २० ॥
अवकाशमशेषाणां भूतानां सम्प्रयच्छति ।
आकाशं सर्वदा तस्य परमस्यैव शासनात् ॥ २१ ॥
निर्देशेन शिवस्यैव भेदैः प्राणादिभिर्निजैः ।
बिभर्त्ति सर्वभूतानां शरीराणि प्रभञ्जनः ॥ २२ ॥
निर्देशाद्देवदेवस्य सप्तस्कन्धगतो मरुत् ।
लोकयात्रां वहत्येव भेदैः स्वैरावहादिभिः ॥ २३ ॥
नागाद्यैः पञ्चभिर्भेदैः शरीरेषु प्रवर्तते ।
अपदेशेन देवस्य परमस्य समीरणः ॥ २४ ॥
हव्यं वहति देवानां कव्यं कव्याशिनामपि ।
पाकं च कुरुते वह्निः शङ्करस्यैव शासनात् ॥ २५ ॥
भुक्तमाहारजातं यत्पचते देहिनां तथा ।
उदरस्थः सदा वह्निर्विश्वेश्वरनियोगतः ॥ २६ ॥
सञ्जीवयन्त्यशेषाणि भूतान्यापस्तदाज्ञया ।
अविलङ्घ्या हि सर्वेषामाज्ञा तस्य गरीयसी ॥ २७ ॥
चराचराणि भूतानि बिभर्त्येव तदाज्ञया ।
आज्ञया तस्य देवस्य देवदेवः पुरन्दरः ॥ २८ ॥
जीवतां व्याधिभिः पीडां मृतानां यातनाशतैः ।
विश्वंभरः सदाकालं लोकैः सर्वैरलङ्घ्यया ॥ २९ ॥
देवान् पात्य सुरान् हन्ति त्रैलोक्यमखिलं स्थितः ।
अधार्मिकाणां वै नाशं करोति शिवशासनात् ॥ ३० ॥
वरुणः सलिलैर्लोकान् सम्भावयति शासनात् ।
मज्जयत्याज्ञया तस्य पाशैर्बध्नाति चासुरान् ॥ ३१ ॥
पुण्यानुरपं सर्वेषां प्राणिनां सम्प्रयच्छति ।
वित्तं वित्तेश्वरस्तस्य शासनात् परमेष्ठिनः ॥ ३२ ॥
उदयास्तमये कुर्वन्कुरुते कालमाज्ञया ।
आदित्यस्तस्य नित्यस्य सत्यस्य परमात्मनः ॥ ३३ ॥
पुष्पाण्यौषधिजातानि प्रह्लादयति च प्रजाः ।
अमृतांशुः कलाधारः कालकालस्य शासनात् ॥ ३४ ॥
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ।
अन्याश्च देवताः सर्वास्तच्छासनविनिर्मिताः ॥ ३५ ॥
गन्धर्वा देवसङ्घाश्च सिद्धाः साध्याश्च चारणाः ।
यक्षरक्षःपिशाचाश्च स्थिताः शास्त्रेषु वेधसः ॥ ३६ ॥
ग्रहनक्षत्रताराश्च यज्ञा वेदास्तपांसि च ।
ऋषीणां च गणाः सर्वे शासनं तस्य धिष्ठिताः ॥ ३७ ॥
कव्याशिनां गणाः सप्तसमुद्रा गिरिसिन्धवः ।
शासने तस्य वर्तन्ते काननानि सरांसि च ॥ ३८ ॥
कलाः काष्ठा निमेषाश्चमुहूर्ता दिवसाः क्षपाः ।
ऋत्वब्दपक्षमासाश्च नियोगात्तस्य धिष्ठिताः ॥ ३९ ॥
युगमन्वन्तराण्यस्य शम्भोस्तिष्ठन्ति शासनात् ।
पराश्चैव परार्धाश्च कालभेदास्तथापरे ॥ ४० ॥
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ।
मनुष्याश्च प्रवर्तन्ते देवदेवस्य धीमतः ॥ ४१ ॥
जातानि भूतवृन्दानि चतुर्दशसु योनिषु ।
सर्वलोकनिषण्णानि तिष्ठन्त्यस्यैव शासनात् ॥ ४२ ॥
चतुर्दशसु लोकेषु स्थिता जाताः प्रजाः प्रभोः ।
सर्वेश्वरस्य तस्यैव नियोगवशवर्तिनः ॥ ४३ ॥
पातालानि समस्तानि भुवनान्यस्य शासनात् ।
ब्रह्माण्डानि च शेषाणि तथा सावरणानि च ॥ ४४ ॥
वर्तमानानि सर्वाणि ब्रह्माण्डानि तदाज्ञया ।
वर्तन्ते सर्वभूताद्यैः समेतानि समन्ततः ॥ ४५ ॥
अतीतान्यप्यसंख्यानि ब्रह्माण्डानि तदाज्ञया ।
प्रवृत्तानि पदार्थौङ्घैः सहितानि समन्ततः ॥ ४६ ॥
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मक्तैः ।
करिष्यन्ति शिवस्याज्ञां सर्वैरावरणैः सह ॥ ४७ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे उमापतेर्महिमवर्णनं नाम दशमोऽध्यायः ॥ १० ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-10

कोई टिप्पणी नहीं:

123