श्रीलिङ्गमहापुराण -[उत्तरभाग] -009
॥ श्रीसाम्बसदाशिवाय नमः ॥
नौवाँ अध्याय
पशु, पाश एवं पशुपति की व्याख्या, पाशुपतयोग का माहात्म्य तथा पशुपाशमोक्ष विवरण
श्रीलिङ्गमहापुराणे उत्तरभागे नवमोऽध्यायः
पाशुपतव्रतवर्णनं
॥ ऋषय ऊचुः ॥
देवैः पुरा कृतं दिव्यं व्रतं पाशुपतं शुभम् ।
ब्रह्मणा च स्वयं सूत कृष्णेनाक्लिष्टकर्मणा ॥ १ ॥
पतितेन च विप्रेण धैन्धुमूकेन वै तथा ।
कृत्वा जप्त्वा गतिः प्राप्ता कथं पाशुपतं व्रतम् ॥ २ ॥
कथं पशुपतिर्देवः शङ्करः परमेश्वरः ।
वक्तुमर्हसि चास्माकं परं कौतूहलं हि नः ॥ ३ ॥
॥ सूत उवाच ॥
पुरा शापाद्विनिर्मुक्तो ब्रह्मपुत्रो महायशाः ।
रुद्रस्य देवदेवस्य मरुदेशादिहागतः ॥ ४ ॥
त्यक्त्वा प्रसादाद्रुद्रस्य उष्ट्रदेहमजाज्ञया ।
शिलादपुत्रमासाद्य नमस्कृत्य विधानतः ॥ ५ ॥
मेरुपृष्ठे मुनिवरः श्रुत्वा धर्ममनुत्तमम् ।
माहेश्वरं मुनिश्रेष्ठा ह्यपृच्छच्च पुनः पुनः ॥ ६ ॥
नन्दिनं प्रणिपत्यैनं कथं पशुपतिः प्रभुः ।
वक्तुमर्हसि चास्माकं तत्सर्वं च तदाह सः ॥ ७ ॥
तत्सर्वं श्रुतवान् व्यासः कृष्णद्वैपायनः प्रभुः ।
तस्मादहनुमश्रुत्य युष्माकं प्रवदामि वै ॥ ८ ॥
सर्वे शृण्वन्तु वचनं नमस्कृत्वा महेश्वरम् ।
॥ सनत्कुमार उवाच ॥
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ ९ ॥
कैः पाशैस्ते निबध्यन्ते विमुच्यन्ते च ते कथम् ।
॥ शैलादिरुवाच ॥
सनत्कुमार वक्ष्यामि सर्वमेतद्यथातथम् ॥ १० ॥
रुद्रभक्तस्य शान्तस्य तव कल्याणचेतसः ।
ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य धीमतः ॥ ११ ॥
पशवः परिकीर्त्यन्ते संसारवशवर्तिनः ।
तेषां पतित्वाद् भगवान् रुद्रः पशुपतिः स्मृतः ॥ १२ ॥
अनादिनिधनो धाता भगवान् विष्णुरव्ययः ।
मायापाशेन बध्नाति पशुवत् परमेश्वरः ॥ १३ ॥
स एव मोचकस्तेषां ज्ञानयोगेन सेवितः ।
अविद्यापाशबद्धानां नान्यो मोचक इष्यते ॥ १४ ॥
तमृते परमात्मानं शङ्करं परमेश्वरम् ।
चतुर्विंशतितत्त्वानि पाशा हि परमेष्ठिनः ॥ १५ ॥
तैः पाशैर्मोचयत्येकः शिवो जीवैरुपासितः ।
निबध्नाति पशूनेकश्चतुर्विंशतिपाशकैः ॥ १६ ॥
स एव भगवान् रुद्रो मोचयत्यपि सेवितः ।
दशेन्द्रियमयैः पाशैरन्तः करणसम्भवैः ॥ १७ ॥
भूततन्मात्रपाशैश्च पशून्मोचयति प्रभुः ।
इन्द्रियार्थमयैः पाशैर्बद्धा विषयिणः प्रभुः ॥ १८ ॥
आशु भक्ता भवन्त्येव परमेश्वरसेवया ।
भज इत्येष धातुर्वै सेवायां परिकीर्तितः ॥ १९ ॥
तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी ।
ब्रह्मदिस्तम्बपर्यन्तं पशून् बद्धा महेश्वरः ॥ २० ॥
त्रिभिर्गुणमयैः पाशैः कार्यं कारयति स्वयम् ।
दृढेन भक्तियोगेन पशुभिः समुपासितः ॥ २१ ॥
मोचयत्येव तान् सद्यः शङ्करः परमेश्वरः ।
भजनं भक्तिरित्युक्ता वाङ्मनः कायकर्मभिः ॥ २२ ॥
सर्वकार्येणहेतुत्वात्पाशच्छेदपटीयसी ।
सत्यः सर्वग इत्यादि शिवस्य गुणचिन्तना ॥ २३ ॥
रुपोपादानचिन्ता च मानसं भजनं विदुः ।
वाचिकं भजनं धीराः प्रणवादिजपं विदुः ॥ २४ ॥
कायिकं भजनं सद्भिः प्राणायामादि कथ्यते ।
धर्माधर्ममयैः पाशैर्बन्धनं देहिनामिदम् ॥ २५ ॥
मोचकः शिव एवैको भगवान् परमेश्वरः ।
चतुर्विशतितत्त्वानि मायाकर्मगुणा इति ॥ २६ ॥
कीर्त्यन्ते विषयाश्चेति पाशा जीवनिबन्धनात् ।
तैर्बद्धाः शिवभक्त्यैव मुच्यन्ते सर्वदेहिनः ॥ २७ ॥
पञ्चक्लेशमयैः पाशैः पशून् बध्नाति शङ्करः ।
स एव मोचकस्तोषां भक्त्या सम्यगुपासितः ॥ २८ ॥
अविद्यामस्मितां रागं द्वेषं च द्विपदां वराः ।
वदन्त्यभिनिवेशं च क्लेशान् पाशत्वमागतान् ॥ २९ ॥
तमो मोहो महामोहस्तामिस्र इति पण्डिताः ।
अन्धतामिस्र इत्याहुरविद्यां पञ्चधा स्थिताम् ॥ ३० ॥
ताञ्जीवान् मुनिशार्दूलाः सर्वांश्चैवाप्यविद्यया ।
शिवो मोचयति श्रीमान् नान्यः कश्चिद् विमोचकः ॥ ३१ ॥
अविद्यां तम इत्याहुरस्मितां मोह इत्यपि ।
महामोह इति प्राज्ञा रागं योगपरायणाः ॥ ३२ ॥
द्वेषं तामिस्र इत्याहुरन्धतामिस्र इत्यपि ।
तथैवाभिनिवेशं च मिथ्याज्ञानं विवेकिनः ॥ ३३ ॥
तमसोऽष्टविधा भेदा मोहश्चाष्टविधः स्मृतः ।
महामोहप्रभेदाश्च बुधैर्दश विचिन्तिताः ॥ ३४ ॥
अष्टादशविधं चाहुस्तामिस्रं च विचक्षणाः ।
अन्धतामिस्रभेदाश्च तथाष्टादशधा स्मृताः ॥ ३५ ॥
अविद्ययास्य संबन्धो नातीतो नास्त्यनागतः ।
भवेद्रागेण देवस्य शम्भोरङ्गनिवासिनः ॥ ३६ ॥
कालेषु त्रिषु सम्बन्धस्तस्य द्वेषेण नो भवेत् ।
मायातीतस्य देवस्य स्थाणोः पशुपतेर्विभोः ॥ ३७ ॥
तथैवाभिनिवेशेन सम्बन्धो न कदाचन ।
शङ्करस्य शरण्यस्य शिवस्य परमात्मनः ॥ ३८ ॥
कुशलाकुशलैस्तस्य सम्बन्धो नैव कर्मभिः ।
भवेत्कालत्रये शम्भोरविद्यामतिवर्तिनः ॥ ३९ ॥
विपाकैः कर्मणां वापि न भवेदेव सङ्गमः ।
कालेषु त्रिषु सर्वस्य शिवस्य शिवदायिनः ॥ ४० ॥
सुखदुःखैरसंस्पृश्यः कालत्रितयवर्तिभिः ।
स तैर्विनश्वरैः शम्भुर्बोधानन्दात्मकः परः ॥ ४१ ॥
आशयैरपरामृष्टः कालत्रितयगोचरैः ।
धियां पतिः स्वभूरेष महादेवो महेश्वरः ॥ ४२ ॥
अस्पृश्यः कर्मसंस्कारैः कालत्रितयवर्तिभिः ।
तथैव भोगसंस्कारैर्भगवानन्तकान्तकः ॥ ४३ ॥
पुंविशेषपरो देवो भगवान् परमेश्वरः ।
चेतनाचेतनायुक्तप्रपञ्चादखिलात्परः ॥ ४४ ॥
लोके सातिशयत्वेन ज्ञानैश्वर्यं विलोक्यते ।
शिवेनातिशयत्वेन शिवं प्राहुर्मनीषिणः ॥ ४५ ॥
प्रतिसर्गं प्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ।
उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ ४६ ॥
कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ।
सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ ४७ ॥
अनादिरेष सम्बन्धो विज्ञानोत्कर्षयोः परः ।
स्थितयोरीदृशः सर्वः परिशुद्धः स्वभावतः ॥ ४८ ॥
आत्मप्रयोजनाभावे परानुग्रह एव हि ।
प्रयोजनं समस्तानां कार्याणां परमेश्वरः ॥ ४९ ॥
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ।
शिवरुद्रादिशब्दानां प्रणवोपि परः स्मृतः ॥ ५० ॥
शम्भोः प्रणववाच्यस्य भावना तज्जपादपि ।
या सिद्धिः स्वपराप्राप्या भवत्येव न संशयः ॥ ५१ ॥
ज्ञानतत्त्वं प्रयत्नेन योगः पाशुपतः परः ।
उक्तस्तु देवदेवेन सर्वेषामनुकम्पया ॥ ५२ ॥
स होवाचैव याज्ञवल्क्यो यदक्षरं गार्ग्ययोगिनः ।
अभिवदन्ति स्थूलमनन्तं महाश्चर्यम-दीर्घमलोहितम-मस्तकमासायमत एवो
पुनारसमसङ्गमगन्धमरसम-चक्षुष्कमश्रोत्रमवाङ्मनोतेजस्कम-प्रमाणमनुसुखम-नामगोत्रममरमजरमनामयम-मृतमोंशब्दममृतमसंवृतम-पूर्वमनपरमनन्तमबाह्यं
तदश्नाति किञ्चन न तश्नाति किञ्चन ॥ ५३ ॥
एतत् कालव्यये ज्ञात्वा परं पाशुपतं प्रभुम् ।
योगे पाशुपते चास्मिन् यस्यार्थः किल उत्तमे ॥ ५४ ॥
कृत्वोङ्कारं प्रदीपं मृगय गृहपतिं सूक्ष्ममाद्यन्तरस्थं संयम्य द्वारवासं पवनपटुतरं
नायकं चेन्द्रियाणाम् ।
वाग्जालैः कस्य हेतोर्विभटसि तु भयं दृश्यते नैव किञ्चिद्देहस्थं पश्य शम्भुं भ्रमसि
किमु परे शास्त्रजालेन्धकारे ॥ ५५ ॥
एवं सम्यग्बुधैर्ज्ञात्वा मुनीनामथ चोक्तं शिवेन ।
असमरसं पञ्चधा कृत्वाभवं चात्मनि योजयेत् ॥ ५६ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे पाशुपतव्रतवर्णनं नाम
नवमोऽध्यायः ॥ ९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें