श्रीलिङ्गमहापुराण -[उत्तरभाग] -007

श्रीलिङ्गमहापुराण -[उत्तरभाग] -007
॥ श्रीसाम्बसदाशिवाय नमः ॥
सातवाँ अध्याय
भगवान् विष्णु के अष्टाक्षर तथा द्वादशाक्षर मन्त्र जप की महिमा में ऐतरेय ब्राह्मण की कथा
श्रीलिङ्गमहापुराणे उत्तरभागे सप्तमोऽध्यायः
द्वादशाक्षरप्रशंसा

॥ ऋषय ऊचुः ॥
किं जपान्मुच्यते जन्तुः सर्वलोकभयादिभिः ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ १ ॥
अलक्ष्मीं वाथ सन्त्यज्य गमिष्यति जपेन वै ।
लक्ष्मीवासो भवेन् मर्त्यः सूत वक्तुमिहार्हसि ॥ २ ॥


॥ सूत उवाच ॥
पुरा पितामहेनोक्तं वसिष्ठाय महात्मने ।
वक्ष्ये सङ्क्षेपतः सर्वं सर्वलोकहिताय वै ॥ ३ ॥
शृण्वन्तु वचनं सर्वे प्रणिपत्य जनार्दनम् ।
देवदेवमजं विष्णुं कृष्णमच्युतमव्ययम् ॥ ४ ॥
सर्वपापहरं शुद्धं मोक्षदं ब्रह्मवादिनम् ।
मनसा कर्मणा वाचा यो विद्वान् पुण्यकर्मकृत् ॥ ५ ॥
नारायणं जपेन्नित्यं प्रणम्य पुरुषोत्तमम् ।
स्वपन्नारायणं देवं गच्छन्नारायणं तथा ॥ ६ ॥
भुञ्जन्नारायणं विप्रास्तिष्ठञ्जाग्रत् सनातनम् ।
उन्मिषन्निमिषन् वापि नमो नारायणेति वै ॥ ७ ॥
भोज्यं पेयं च लेह्यं च नमो नारायणेति च ।
अभिमन्त्र्य स्पृशन् भुङ्क्ते स याति परमां गतिम् ॥ ८ ॥
सर्वपापविनिर्मुक्तः प्राप्नोति च सतां गतिम् ।
अलक्ष्मीश्च मया प्रोक्ता पत्नी या दुःसहस्य च ॥ ९ ॥
नारायणपदं श्रुत्वा गच्छत्येव न संशयः ।
या लक्ष्मीर्देवदेवस्य हरेः कृष्णस्य वल्लभा ॥ १० ॥
गृहे क्षेत्रे तथावासे तनौ वसति सुव्रताः ।
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥ ११ ॥
इतमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः ॥ १२ ॥
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ।
तस्मात् सर्वेषु कालेषु नमो नारायणेति च ॥ १३ ॥
जपेत् स याति विप्रेन्द्रा विष्णुलोकं सबान्धवः ।
अन्यच्च देवदेवस्य शृण्वन्तु मुनिसत्तमाः ॥ १४ ॥
मन्त्रो मया पुराभ्यस्तः सर्ववेदार्थसाधकः ।
द्वादशाक्षरसंयुक्तो द्वादशात्मा पुरातनः ॥ १५ ॥
तस्यैवेह च माहात्म्यं सङ्क्षेपात् प्रवदामि वः ।
कश्चिद् द्विजो महाप्राज्ञस्तपस्तप्त्वा कथञ्चन ॥ १६ ॥
पुत्रमेकं तयोत्पाद्य संस्कारैश्च यथाक्रमम् ।
योजयित्वा यताकालं कृतोपनयनं पुनः ॥ १७ ॥
अध्यापयामास तदा स च नोवाच किञ्चन ।
न जिह्वा स्पन्दते तस्य दुःखितोऽभूद् द्विजोत्तमः ॥ १८ ॥
वासुदेवेति नियतमैतरेयो वदत्यसौ ।
पिता तस्य तथा चान्यां परिणीय यथाविधि ॥ १९ ॥
पुत्रानुत्पादयामास तथैव विधिपूर्वकम् ।
वेदानधीत्य सम्पन्ना बभूवुः सर्वसम्मताः ॥ २० ॥
ऐतरेयस्य सा माता दुःखिता शोकमूर्च्छिता ।
उवाच पुत्राः सम्पन्ना वेदवेदाङ्गपारगाः ॥ २१ ॥
ब्राह्मणैः पूज्यमाना वै मोदयन्ति च मातरम् ।
मम त्वं भाग्यहीनायाः पुत्रो जातो निराकृतिः ॥ २२ ॥
ममात्र निधनं श्रेयो न कथञ्चन जीवितम् ।
इत्युक्तः स च निर्गम्य यज्ञवाटं जगाम वै ॥ २३ ॥
तस्मिन् याते द्विजानां तु न मन्त्राः प्रतिपेदिरे ।
ऐतरेये स्थिते तत्र ब्राह्मणा मोहितास्तदा ॥ २४ ॥
ततो वाणी समुद्भूता वासुदेवेति कीर्तनात् ।
ऐतरेयस्य ते विप्राः प्रणिपत्य यथातथम् ॥ २५ ॥
पूजां चक्रुस्ततो यज्ञं स्वयमेव समागतम् ।
ततः समाप्य तं यज्ञमैतरेयो धनादिभिः ॥ २६ ॥
सर्ववेदान् सदस्याह स षडङ्गान् समाहिताः ।
तुष्टुवुश्च तथा विप्रा ब्रह्माद्याश्च तथा द्विजाः ॥ २७ ॥
ससर्जुः पुष्पवर्षाणि खेचराः सिद्धचारणाः ।
एवं समाप्य वै यज्ञमैतरेयो द्विजोत्तमाः ॥ २८ ॥
मातरं पूजयित्वा तु विष्णोः स्थानं जगाम ह ।
एतद्वै कथितं सर्वं द्वादशाक्षरवैभवम् ॥ २९ ॥
पठतां शृण्वतां नित्यं महापातकनाशनम् ।
जपेद्यः पुरुषो नित्यं द्वादशाक्षरमव्ययम् ॥ ३० ॥
स याति दिव्यमतुलं विष्णोस्तत्परमं पदम् ।
अपि पापसमाचारो द्वादशाक्षरतत्परः ॥ ३१ ॥
प्राप्नोति परमं स्थानं नात्र कार्या विचारणा ।
किं पुनर्ये स्वधर्मस्था वासुदेवपरायणाः ॥ ३२ ॥
दिव्यं स्थानं महात्मानः प्राप्नुवन्तीति सुव्रताः ॥ ३३ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे द्वादशाक्षरप्रशंसानाम सप्तमोऽध्यायः ॥ ७ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-07

कोई टिप्पणी नहीं:

123