श्रीलिङ्गमहापुराण -[उत्तरभाग] -006

श्रीलिङ्गमहापुराण -[उत्तरभाग] -006
॥ श्रीसाम्बसदाशिवाय नमः ॥
छठा अध्याय
भगवान् विष्णु से अलक्ष्मी (ज्येष्ठा–दरिद्रा ) तथा लक्ष्मी का प्रादुर्भाव एवं लक्ष्मी तथा दरिद्रा के निवासयोग्य स्थानों का वर्णन
श्रीलिङ्गमहापुराणे उत्तरभागे षष्ठेऽध्यायः
अलक्ष्मीवृत्तं

॥ ऋषय ऊचुः ॥
मायावित्वं श्रुतं विष्णोर्देवदेवस्य धीमतः ।
कथं ज्येष्ठासमुत्पत्तिर्देवदेवाज्जनार्दनात् ॥ १ ॥
वक्तुमर्हसि चास्माकं लोमहर्षण तत्त्वतः ।
॥ सूत उवाच ॥


अनादिनिधनः श्रीमान् धाता नारायणः प्रभुः ॥ २ ॥
जगद्द्वैधमिदं चक्रे मोहनाय जगत्पतिः ।
विष्णुर्वै ब्राह्मणान् वेदान् वेदधर्मान् सनातनान् ॥ ३ ॥
श्रियं पद्मां तथा श्रेष्ठां भागमेकमकारयत् ।
ज्येष्ठामलक्ष्मीमशुभां वेदबाह्यान्नराधमान् ॥ ४ ॥
अधर्मं च महातेजा भागमेक मकल्पयत् ।
अलक्ष्मीमग्रतः सृष्ट्वा पश्चात् पद्मां जनार्दनः ॥ ५ ॥
ज्येष्ठा तेन समाख्याता अलक्ष्मीर्द्विजसत्तमाः ।
अमृतोद्भववेलायां विषानन्तरमुल्बणात् ॥ ६ ॥
अशुभा सा तथोत्पन्ना ज्येष्ठा इति च वै श्रुतम् ।
ततः श्रीश्च समुत्पन्ना पद्मा विष्णुपरिग्रहः ॥ ७ ॥
दुःसहो नाम विप्रर्षिरुपयेमेऽशुभां तदा ।
ज्येष्ठां तां परिपूर्णोऽसौ मनसा वीक्ष्य धिष्ठिताम् ॥ ८ ॥
लोकं चचारं हृष्टात्मा तया सह मुनिस्तदा ।
यस्मिन् घोषो हरेश्चैव हरस्य च महात्मनः ॥ ९ ॥
वेदघोषस्तथा विप्रा होमधूमस्तथैव च ।
भस्माङ्गिनो वा यत्रासंस्तत्र तत्र भयार्दिता ॥ १० ॥
पिधाय कर्णौ संयाति धावमाना इतस्ततः ।
ज्येष्ठामेवंविधां दृष्ट्वा दुःसहो मोहमागतः ॥ ११ ॥
तया सह वनं गत्वा चचार स महामुनिः ।
तपो महद्वने घोरे याति कन्या प्रतिग्रहम् ॥ १२ ॥
न करिष्यामि चेत्युक्त्वा प्रतिज्ञाय च तामृषिः ।
योगज्ञानपरः शुद्धो यत्र योगीश्वरो मुनिः ॥ १३ ॥
तत्रायान्तं महात्मानं मार्कण्डेयमपश्यत ।
प्रणिपत्य महात्मानं दुःसहो मुनिमब्रवीत् ॥ १४ ॥
भार्येयं भगवन् मह्यं न स्थास्यति कथञ्चन ।
किं करोमीति विप्रर्षे ह्यनया सह भार्यया ॥ १५ ॥
प्रविशामि तथा कुत्र कुतो न प्रविशाम्यहम् ।
॥ मार्कण्डेय उवाच ॥
शृणु दुःसह सर्वत्र अकीर्तिरशुभान्विता ॥ १६ ॥
अलक्ष्मीरतुला चेयं ज्येष्ठा इत्यभिशब्दिता ।
नारायणपरा यत्र वेदमार्गानुसारिणः ॥ १७ ॥
रुद्रभक्ता महात्मानो भस्मोद्धूलितविग्रहाः ।
स्थिता यत्र जना नित्यं मा विशेथाः कथञ्चन ॥ १८ ॥
नारायण हृषीकेश पुण्डरीकाक्ष माधव ।
अच्युतानन्त गोविन्द वासुदेव जनार्दन ॥ १९ ॥
रुद्र रुद्रेति रुद्रेति शिवाय च नमो नमः ।
नमः शिवतरायेति शङ्करायेति सर्वदा ॥ २० ॥
महादेव महादेव महादेवेति कीर्तयेत् ।
उमायाः पतये चैव हिरण्यपतये सदा ॥ २१ ॥
हिरण्यबाहवे तुभ्यं वृषाङ्काय नमो नमः ।
नृसिंह वामनाचिन्त्य माधवेति च ये जनाः ॥ २२ ॥
वक्ष्यन्ति सततं हृष्टा ब्राह्मणाः क्षत्रियास्तथा ।
वैश्याः शूद्राश्च ये नित्यं तेषां धनगृहादिषु ।
आरामे चैव गोष्ठेषु न विशेथाः कथञ्चन ॥ २३ ॥
ज्वालामालाकरालं च सहस्रादित्यसन्निभम् ।
चक्रं विष्णोरतीवोग्रं तेषां हन्ति सदाशुभम् ॥ २४ ॥
स्वाहाकारो वषट्कारो गृहे यस्मिन् हि वर्तते ।
तद्धित्वा चान्यमागच्छ समाघोषेथ यत्र वा ॥ २५ ॥
वेदाभ्यासरता नित्यं नित्यकर्मपरायणाः ।
वासुदेवार्चनरता दूरतस्तान् विसर्जयेत् ॥ २६ ॥
अग्निहोत्रं गृहे येषां लिङ्गार्चा वा गृहेषु च ।
वासुदेवतनुर्वापि चण्डिका यत्र तिष्ठति ॥ २७ ॥
दूरतो व्रज तान् हित्वा सर्वपापविवर्जितान् ।
नित्यनैमित्तिकैर्यज्ञैर्यजन्ति च महेश्वरम् ॥ २८ ॥
तान् हित्वा व्रज चान्यत्र दुःसह त्वं सहानया ।
श्रोत्रिया ब्राह्मणा गावो गुरवोऽतिथयः सदा ॥ २९ ॥
रुद्रभक्ताश्च पूज्यन्ते यैर्नित्यं तान् विवर्जयेत् ।
॥ दुःसह उवाच ॥
यस्मिन् प्रवेशो योग्यो मे तद् ब्रूहि मुनिसत्तम ॥ ३० ॥
त्वद्वाक्याद्भयनिर्मुक्तो विशान्मेषां गृहे सदा ।
॥ मार्कण्डेय उवाच ॥
न श्रोत्रिया द्विजा गावो गुरवोऽतिथयः सदा ।
यत्र भर्ता च भार्या च परस्परविरोधिनौ ॥ ३१ ॥
सभार्यस्त्वं गृहं तस्य विशेथा भयवर्जितः ।
देवदेवो महादेवो रुद्रस्त्रिभुवनेश्वरः ॥ ३२ ॥
विनिन्द्यो यत्र भगवान् विशस्व भयवर्जितः ।
वासुदेवरतिर्नास्ति यत्र नास्ति सदाशिवः ॥ ३३ ॥
जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम् ।
पर्वण्यभ्यर्चनं नास्ति चतुर्दश्यां विशेषतः ॥ ३४ ॥
कृष्णाष्टम्यां च रुद्रस्य सन्ध्यायां भस्मवर्जिताः ।
चतुर्दश्यां महादेवं न यजन्ति च यत्र वै ॥ ३५ ॥
विष्णोर्नामविहिना ये सङ्गताश्च दुरात्मभिः ।
नमः कृष्णाय शर्वाय शिवाय परमेष्ठिने ॥ ३६ ॥
ब्राह्मणाश्च नरा मूढा नवदन्ति दुरात्मकाः ।
तत्रैव सततं वत्स सभार्यस्त्वं समाविश ॥ ३७ ॥
वेदघोषो न यत्रास्ति गुरुपूजादयो न च ।
पितृकर्मविहीनांस्तु सभार्यस्त्वं समाविश ॥ ३८ ॥
रात्रौ रात्रौ गृहे यस्मिन् कलहो वर्तते मिथः ।
अनया सार्धमनिशं विश त्वं भयवर्जितः ॥ ३९ ॥
लिङ्गार्चनं यस्य नास्ति यस्य नास्ति जपादिकम् ।
रुद्रभक्तिर्विनिन्दा च तत्रैव विश निर्भयः ॥ ४० ॥
अतिथिः श्रोत्रियो वापि गुरुर्वा वैष्णवोपि वा ।
न सन्ति यद्गृहे गावः सभार्यस्त्वं समाविश ॥ ४१ ॥
बालानां प्रेक्षमाणानां यत्रादत्त्वा त्वभक्षयन् ।
भक्ष्याणि तत्र संहृष्टः सभार्यस्त्वं समाविश ॥ ४२ ॥
अनभ्यर्च्य महादेवं वासुदेवमथापि वा ।
अहुत्वा विधिवद्यत्र तत्र नित्यं समाविश ॥ ४३ ॥
पाप कर्मरता मूढा दयाहीनाः परस्परम् ।
गृहे यस्मिन् समासन्ते देशे वा तत्र संविश ॥ ४४ ॥
प्राकारागारविध्वंसा न चैवेड्या कुटुम्बिनी ।
तद्गृहं तु समासाद्य वस नित्यं हि हृष्टधीः ॥ ४५ ॥
यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी ।
ब्रह्मवृक्षश्च यत्रास्ति सभार्यास्त्वं समाविश ॥ ४६ ॥
अगस्त्यार्कादयो वापि बन्धुजीवो गृहेषु वै ।
करवीरो विशेषेण नन्द्यावर्तमथापि वा ॥ ४७ ॥
मल्लिका वा गृहे येषां सभार्यास्त्वं समाविश ।
कन्या च यत्र वै वल्ली द्रोही वा च जटी गृहे ॥ ४८ ॥
बहुला कदली यत्र सभार्यस्त्वं समाविश ।
तालं तमालं भल्लातं तित्तिडीखण्डमेव च ॥ ४९ ॥
कदम्बः खादिरं वापि सभार्यस्त्वं समाविश ।
न्यग्रोधं वा गृहे येषामश्वत्थं चूतमेव वा ॥ ५० ॥
उदुम्बरं वा पनसं सभार्यास्त्वं समाविश ।
यस्य काकगृहं निम्बे आरामे वा गृहेपि वा ॥ ५१ ॥
दण्डिनी मुण्डिनी वापि सभार्यस्त्वं समाविश ।
एका दासी गृहे यत्र त्रिगवं पञ्चमाहिषम् ॥ ५२ ॥
षडश्वं सप्तमातङ्गं सभार्यस्त्वं समाविश ।
यस्य काली गृहे देवी प्रेतरूपा च डाकिनी ॥ ५३ ॥
क्षेत्रपालेथवा यत्र सभार्यस्त्वं समाविश ।
भिक्षुबिम्बं च वै यस्य गृहे क्षपणकं तथा ॥ ५४ ॥
बौद्धं वा बिम्बमासाद्य तत्र पूर्णं समाविश ।
शयनासनकालेषु भोजनाटनवृत्तिषु ॥ ५५ ॥
येषां वदति नो वाणी नामानि च हरेः सदा ।
तद्गहं ते समाख्यातं सभार्यस्य निवेशितुम् ॥ ५६ ॥
पाषण्डाचारनिरताः श्रौतस्मार्तबहिष्कृताः ।
विष्णुभक्ति विनिर्मुक्ता महादेवविनिन्दकाः ॥ ५७ ॥
नास्तिकाश्च शठा यत्र सभार्यास्त्वं समाविश ।
सर्वस्मादधिकत्वं ये न वदन्ति पिनाकिनः ॥ ५८ ॥
साधारणं स्मरन्त्येनं सभार्यस्त्वं समाविश ।
ब्रह्मा च भगवान् विष्णुः शक्रः सर्वसुरेश्वरः ॥ ५९ ॥
रुद्रप्रसादजाश्चेति न वदन्ति दुरात्मकाः ।
ब्रह्मा च भगवान् विष्णुः शक्रश्च सम एव च ॥ ६० ॥
वदन्ति मूढाः खद्योतं भानुं वा मूढचेतसः ।
तेषां गृहे तथा क्षेत्र आवासे वा सदानया ॥ ६१ ॥
विश भुङ्क्ष्व गृहं तेषां अपि पूर्णमनन्यधीः ।
येऽश्नन्ति केवलं मूढाः पक्वमन्नं विचेतसः ॥ ६२ ॥
स्नानमङ्गलहीनाश्च तेषां त्वं गृहमाविश ।
या नारी शौचविभ्रष्टा देहसंस्कारवर्जिता ॥ ६३ ॥
सर्वभक्षरता नित्यं तस्याः स्ताने समाविश ।
मलिनास्याः स्वयं मर्त्या मलिनाम्बरधारिणः ॥ ६४ ॥
मलदन्ता गृहस्थाश्च गृहे तेषां समाविश ।
पादशौचविनिर्मुक्ताः सन्ध्याकाले च शायिनः ॥ ६५ ॥
सन्ध्यायामश्नुते ये वै गृहं तेषां समाविश ।
अत्याशनरता मर्त्या अतिपानरता नराः ॥ ६६ ॥
द्यूतवादक्रियामूढाः गृहे तेषां समाविश ।
ब्रह्मस्वहारिणो ये चायोग्यांश्चैव यजन्ति वा ॥ ६७ ॥
शूद्रान्नभोजिनो वापि गृहं तेषां समाविश ।
मद्यपानरताः पापा मांस भक्षणतत्पराः ॥ ६८ ॥
परदाररता मर्त्या गृहं तेषां समाविश ।
पर्वण्यनर्चाभिरता मैथुने वा दिवा रताः ॥ ६९ ॥
सन्ध्यायां मैथुनं येषां गृहे तेषां समाविश ।
पृष्ठतो मैथुनं येषां श्वानवत् मृगवच्च वा ॥ ७० ॥
जले वा मैथुनं कुर्यात् सभार्यस्त्वं समाविश ।
रजस्वलां स्त्रियं गच्छेच्चाण्डालीं वा नराधमः ॥ ७१ ॥
कन्यां वा गोगृहे वापि गृहं तेषां समाविश ।
बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः ॥ ७२ ॥
रुद्रभक्तिविहीना ये गृहं तेषां समाविश ।
शृङ्गैर्दिव्यौषधैः क्षुद्रैः शेफ आलिप्य गच्छति ॥ ७३ ॥
भगद्रावं करोत्यस्मात्सभार्यस्त्वं समाविश ।
॥ सूत उवाच ॥
इत्युक्त्वा स मुनिः श्रीमान्निर्मार्ज्य नयने तदा ॥ ७४ ॥
ब्रह्मर्षिर्ब्रह्मसङ्काशस्तत्रैवान्तर्द्धिमातनोत् ।
दुःसहश्च तथोक्तानि स्थानानि च समीयिवान् ॥ ७५ ॥
विशेषाद्देवदेवस्य विष्णोर्निदारतात्मनाम् ।
सभार्यो मुनिशार्दूलः सैषा ज्येष्ठा इति स्मृता ॥ ७६ ॥
दुःसहस्तामुवाचेदं तडागाश्रममन्तरे ।
आस्व त्वमत्र चाहं वै प्रवेक्ष्यामि रसातलम् ॥ ७७ ॥
आवयोः स्थानमालोक्य निवासार्थं ततः पुनः ।
आगमिष्यामि ते पार्श्वमित्युक्ता तमुवाच सा ॥ ७८ ॥
किमश्नामि महाभाग को मे दास्यति वै बलिम् ।
इत्युक्तस्तां मुनिः प्राह याः स्त्रियस्त्वां यजन्ति वै ॥ ७९ ॥
बलिभिः पुष्पधूपैश्च न तासां च गृहं विश ।
इत्युक्त्वा त्वाविशत्तत्र पातालं बिलयोगतः ॥ ८० ॥
अद्यापि च विनिर्मग्नो मुनिः स जलसंस्तरे ।
ग्रामपर्वतबाह्येषु नित्यमास्तेऽशुभा पुनः ॥ ८१ ॥
प्रसङ्गाद्देवदेवेशो विष्णुस्त्रिभुवनेश्वरः ।
लक्ष्म्या दृष्टस्तया लक्ष्मीः सा तमाह जनार्दनम् ॥ ८२ ॥
भर्ता गतो महाबाहो बिलं त्यक्त्वा स मां प्रभो ।
अनाथाहं जगन्नाथ वृत्तिं देहि नमोस्तु ते ॥ ८३ ॥
॥ सूत उवाच ॥
इत्युक्तो भगवान्विष्णुः प्रहस्याह जनार्दनः ।
ज्येष्ठामलक्ष्मीं देवेशो माधवो मधुसूदनः ॥ ८४ ॥
॥ श्रीविष्णुरुवाच ॥
ये रुद्रमनघं शर्वं शङ्करं नीललोहितम् ।
अम्बां हैमवतीं वापि जनित्रीं जगतामपि ॥ ८५ ॥
मद्भक्तान्निन्दयन्त्यत्र तेषां वित्तं तवैव हि ।
येपि चैव महादेवं विनिन्द्यैव यजन्ति माम् ॥ ८६ ॥
मूढा ह्यभाग्या मद्भक्ता अपि तेषां धनं तव ।
यस्याज्ञया ह्यहं ब्रह्मा प्रसादाद्वर्तते सदा ॥ ८७ ॥
ये यजन्ति विनिन्द्यैव मम विद्वेषकारकाः ।
मद्भक्ता नैव ते भक्ता इव वर्तन्ति दुर्मदाः ॥ ८८ ॥
तेषां गृहं धनं क्षेत्रमिष्टापूर्तं तवैव हि ।
॥ सूत उवाच ॥
इत्युक्त्वा तां परित्यज्य लक्ष्म्यालक्ष्मीं जनार्दनः ॥ ८९ ॥
जजाप भगवन्रुद्रमलक्ष्मीक्षयसिद्धये ।
तस्मात् प्रदेयस्तस्यै च बलिर्नित्यं मुनीश्वराः ॥ ९० ॥
विष्णुभक्तैर्न सन्देहः सर्वयत्नेन सर्वदा ।
अङ्गनाभिः सदा पूज्या बलिभिर्विविधैर्द्विजाः ॥ ९१ ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ।
अलक्ष्मीवृत्तमनघो लक्ष्मीवाल्लंभते गतिम् ॥ ९२ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे अलक्ष्मीवृत्तं नाम षष्ठेऽध्यायः ॥ ६ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-06

कोई टिप्पणी नहीं:

123