श्रीलिङ्गमहापुराण -[उत्तरभाग] -008

श्रीलिङ्गमहापुराण -[उत्तरभाग] -008
॥ श्रीसाम्बसदाशिवाय नमः ॥
आठवाँ अध्याय
शिवमहामन्त्र के जप से ब्राह्मणपुत्र दुराचारी धुन्धुमूक का शिव की कृपा से शिवगणत्व को प्राप्त करना
श्रीलिङ्गमहापुराणे उत्तरभागे अष्टमोऽध्यायः
अष्टाक्षरप्रशंसा

॥ सुत उवाच ॥
अष्टाक्षरो द्विजश्रेष्ठा नमो नारायणेति च ।
द्वादशाक्षरमन्त्रश्च परमः परमात्मनः ॥ १ ॥
मन्त्र षडक्षरो विप्राः सर्ववेदार्थसञ्चयः ।
यश्चों नमः शिवायेति मन्त्रः सर्वार्थसाधकः ॥ २ ॥


तथा शिवतरायेति दिव्यः पञ्चाक्षरः शुभः ।
मयस्कराय चेत्येवं नमस्ते शङ्कराय च ॥ ३ ॥
सप्ताक्षरोऽयं रुद्रस्य प्रधानपुरुषस्य वै ।
ब्रह्मा च भगवान् विष्णुः सर्वे देवाः सवासवाः ॥ ४ ॥
मन्त्रैरेतैर्द्विजश्रेष्ठा मुनयश्च यजन्ति तम् ।
शङ्करं देवदेवशं मयस्करमजोद्भवम् ॥ ५ ॥
शिवं च शङ्करं रुद्रं देवदेवमुमापतिम् ।
प्राहुर्नमः शिवायोति नमस्ते शङ्कराय च ॥ ६ ॥
मयस्कराय रुद्राय तथा शिवतराय च ।
जप्त्वा मुच्येत वै विप्रो ब्रह्महत्यादिभिः क्षणात् ॥ ७ ॥
पुरा कश्चिद् द्विजः शक्तो धुन्धुमूक इति श्रुतः ।
आसीत्तृतीये त्रेतायामावर्त्ते च मनोः प्रभोः ॥ ८ ॥
मेघवाहनकल्पे वै ब्रह्मणः परमात्मनः ।
मेघो भूत्वा महादेवं कृत्तिवाससमीश्वरम् ॥ ९ ॥
बहुमानेन वै रुद्रं देवदेवो जनार्दनः ।
खिन्नोऽतिभाराद्रुद्रस्य निःश्वासोच्छ्वासवर्जितः ॥ १० ॥
विज्ञाप्य शितिकण्ठाय तपश्चक्रेम्बुजेक्षणः ।
तपसा परमैश्वर्यं बलं चैव तथाद्भुतम् ॥ ११ ॥
लब्धवान् परमेशानाच्छङ्करात् परमात्मनः ।
तस्मात् कल्पस्तदा चासीन्मेघवाहनसञ्ज्ञया ॥ १२ ॥
तस्मिन् कल्पे मुनेः शापद्धुन्धुमूक समुद्भवः ।
धुन्धुमूकात्मजस्तेन दुरात्मा च बभूव सः ॥ १३ ॥
धुन्धुमूकः पुरासक्तो भार्यया सह मोहितः ।
तस्यां वै स्थापितो गर्भः कामासक्तेन चेतसा ॥ १४ ॥
अमावास्यामहन्येव मुहूर्ते रुद्रदैवते ।
अन्तर्वत्नी तदा भार्या मुक्ता तेन यथासुखम् ॥ १५ ॥
असूत सा च तनयं विशल्याख्या प्रयत्नतः ।
रुद्रे मुहुर्ते मन्देन वीक्षिते मुनिसत्तमाः ॥ १६ ॥
मातुः पितुस्तथारिष्टं स सञ्जातस्तथात्मनः ।
ऋषी तमूचतुर्विप्रा धुन्धुमूकं मिथस्तदा ॥ १७ ॥
मित्रावरुणानामनौ दुष्पुत्र इति सत्तमौ ।
वसिष्ठः प्राह नीचोऽपि प्रभावाद्वै बृहस्पतेः ॥ १८ ॥
पुत्रस्तवासौ दुर्बुद्धिरपि मुच्यति किल्विषात् ।
दुःखितो धुन्धुमूकोऽसौ दृष्ट्वा पुत्रमवस्थितम् ॥ १९ ॥
जातकर्मादिकं कृत्वा विधिवत् स्वयमेव च ।
अध्यापयामास च तं विधिनैव द्विजोत्तमाः ॥ २० ॥
तेनाधीनं यथान्यायं धैन्धुमूकेन सुव्रताः ।
कृतोद्वाहस्तदा गत्वा गुरुशुश्रुषणे रतः ॥ २१ ॥
अनेनैव मुनिश्रेष्ठा धैन्धुमूकेन दुर्मदात् ।
भुक्त्वान्यां वृषलीं दृष्ट्वा स्वभार्यावाद्दिवानिशम् ॥ २२ ॥
एकशय्यासनगतो धैन्धुमूको द्विजाधमः ।
तथा चचार दुर्बुद्धिस्त्यक्त्वा धर्मगतिं पराम् ॥ २३ ॥
माध्वी पीता तया सार्धं तेन रागविवृद्धये ।
केनापि कारणेनैव तामुद्दिस्य द्विजोत्तमाः ॥ २४ ॥
निहता सा च पापेन वृषली गतमङ्गला ।
ततस्तस्यास्तदा तस्य भ्रातृभिर्निहतः पिता ॥ २५ ॥
माता च तस्य दुर्बुद्धेर्धौन्धुमूकस्य शोभना ।
भार्या च तस्य दुर्बुद्धेः श्यालास्ते चापि सुव्रताः ॥ २६ ॥
राज्ञा क्षणादहो नष्ट कुलं तस्याश्च तस्य च ।
गत्वासौ धैन्धुमूकश्च येन केनापि लीलया ॥ २७ ॥
दृष्ट्वा तु तं मुनिश्रेष्ठं रुद्रजाप्यपरायणम् ।
लब्ध्वा पाशुपतं तद्वै पुरा देवान् महेश्वरात् ॥ २८ ॥
लब्ध्वा पञ्चाक्षरं चैव षडक्षरमनुत्तमम् ।
पुनः पञ्चाक्षरं चैव जप्त्वा लक्षं पृथक् पृथक् ॥ २९ ॥
व्रतं कृत्वा च विधिना दिव्यं द्वादशमासिकम् ।
कालधर्मं गतः कल्पे पूजितश्च यमेन वै ॥ ३० ॥
उद्धृता च तथा माता पिता श्यालाश्च सुव्रताः ।
पत्नी च सुभगा जाता सुस्मिता च पतिव्रता ॥ ३१ ॥
ताभिर्विमानामारुह्य देवैः सेंद्रैरभिष्टुतः ।
गाणपत्यमनु प्राप्य रुद्रस्य दयितोऽभवत् ॥ ३२ ॥
तस्मादष्टाक्षरान् मन्त्रात्तथा वै द्वादशाक्षरात् ।
भवेत् कोटिगुणं पुण्यं नात्र कार्या विचारणा ॥ ३३ ॥
तस्माज्जपेद्धियो नित्यं प्रागुक्तेन विधानतः ।
शक्तिबीजसमायुक्तं स याति परमां गतिम् ॥ ३४ ॥
एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम् ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ ३५ ॥
स याति ब्रह्मलोकं तु रुद्रजाप्यमनुत्तमम् ॥ ३६ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागेऽष्टाक्षरप्रशंसा नामाष्टमोऽध्यायः ॥ ८ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-08

कोई टिप्पणी नहीं:

123