श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाधिकशततमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चाधिकशततमोऽध्यायः
विश्वदेवभेदबुद्धिनिरास

॥ क उवाच ॥

ततो भाद्रचतुर्थ्यां तु ते सर्वे मुनिबालकाः ।
मृदमाहर्तुमायाता विमलां तामथानयन् ॥ १ ॥
स्वस्वबुद्ध्या विधायाशु मूर्तीर्नानाविधाः शुभाः ।
सिंहारूढा मयूरस्थाः काश्चिन् मूषकसंस्थिताः ॥ २ ॥


नानायुधधरा नानादिव्यालङ्कार संयुताः ।
चतुर्भुजा गणेशस्य दिव्यगन्धाम्बराः शुभाः ॥ ३ ॥
भक्त्या परमयाऽपूजन्नुपचारैः पृथक् पृथक् ।
मण्डपे ताः प्रतिष्ठाप्य पुष्पादर्शप्रभायुजि ॥ ४ ॥
पद्मपुष्पयुता माला ददुस्ताः सुमनोहराः ।
वाद्यत्सु तूर्यघोषेषु नगरी हर्षमाप सा ॥ ५ ॥
गौरी तस्यां जन्मतिथौ द्वादशाब्दिकमर्भकम् ।
स्नापयामास च ददौ वायनानि सुवासिनीः ॥ ६ ॥
सम्पूज्य विधिवत् भक्त्या हरिद्राकुङ्कुमादिभिः ।
एतस्मिन्नन्तरे दैत्यो विश्वदेव इति श्रुतः ॥ ७ ॥
भगवद्रूपमास्थाय श्रीमुद्राङ्कितमाययौ ।
शङ्खचक्रगदापद्मवनमालालसत्तनुः ॥ ८ ॥
तुलसीदामरुचिरो दिव्यवस्त्रानुलेपनः ।
कमण्डलु वारिपूर्णं वेणुदण्डं दधौ करे ॥ ९ ॥
गौरी तमतिथिं द्वारि तिष्ठन्तं प्राह भक्तितः ।
कुत आगम्यते ब्रह्मँस्तुष्टाऽहं तव तेजसा ॥ १० ॥
इत्युक्तः प्राह तां विप्रः श्रुतवानस्मि यत् पुरा ।
तद् दृष्ट्वा नयनाभ्यां ते परितुष्टं मनो मम ॥ ११ ॥
क्षुधया पीडितश्चाहं भवती गृहमागतः ।
॥ पार्वत्युवाच ॥
आस्यतां भुज्यतां स्वस्थं स च तत्रासनेस्थितः ॥ १२ ॥
आसीनस्यमयूरेशो विष्टरेऽक्षालयत् तदा ।
चरणौ तत्तीर्थजलैः सिषेच सर्वतोऽमलैः ॥ १३ ॥
सम्पूज्य भोजयामास पक्कवान्नैः पायसैरपि ।
अपोशानकरस्तूष्णीमासीच्चिन्तातुरो द्विजः ॥ १४ ॥
उमोवाच द्विजं पश्चाद् भुज्यतां भुज्यतामिति ।
यदि नान्नं मनोयोग्यं तदा दास्येऽतिवाञ्छितम् ॥ १५ ॥
वद तच्छीघ्रमान्येष्ये शङ्करस्य प्रभावतः ।
॥ द्विज उवाच ॥
क्षीरार्णवस्थितं देवं दृष्ट्वा नित्यं भुजन्म्यहम् ॥ १६ ॥
जलं पिबामि तच्चाद्य विस्मृतं मोहतो मया ।
॥ उमोवाच ॥
पूर्वमेव कथं नोक्तो नियमस्ते द्विजोत्तम ॥ १७ ॥
पात्रादुत्थाय गन्तासि कथं सत्त्वविलुम्पक ।
शङ्करः क्षोभमापन्नो न जाने किं करिष्यति ॥ १८ ॥
मयूरेशोऽब्रवीत् तत्र यदि भावो दृढो हृदि ।
तदात्रैव भवेत्पद्मनाभेर्दर्शनमाशु ते ॥ १९ ॥
प्रायोऽभाग्यं महद्दृष्टं यत् पक्वान्नं च पायसम् ।
त्यक्त्वा व्रजसि कुत्र त्वं मूढभावेन वा द्विज ॥ २० ॥
बहुजन्मतपोभिर्यत्कटाक्षो भुवि लभ्यते ।
तया ते परिविष्टान्नं कथं त्यजसि सुव्रत ॥ २१ ॥
ब्रह्मादीनां न गम्या या दृष्टा साक्षात् त्वया शिवा ।
सर्वलोकस्य जननी सर्वयोषिद्वरा हि सा ॥ २२ ॥
सर्वेषामेव देवानां शक्तिः सा परमाद्भुता ।
तद्दर्शनेन देवस्य विष्णोर्जातं हि दर्शनम् ॥ २३ ॥
चकोरस्येवाग्निभुजो मिष्ठान्नं नैव रोचते ।
तथा किं ते न रोचेत देवान्नममृतोपमम् ।
मम वा सर्वरूपस्य दर्शने सा दृशिर्भवेत् ॥ २४ ॥
॥ द्विज उवाच ॥
रमापतेरहं दासो न नमस्यामि किञ्चन ।
यदि त्वं सर्वरूपोऽसि यदि सामर्थ्यमस्ति ते ॥ २५ ॥
तदा दर्शय विश्वेशं नारायणमनामयम् ।
एवं बुद्ध्वा दृढं तस्य निश्चयं स मयूरराट् ॥ २६ ॥
अन्तर्धाय प्रादुरासीन्नारायणस्वरूपवान् ।
पीताम्बरः शङ्खचक्रगदापद्मधरो विभुः ॥ २७ ॥
नानालङ्काररुचिरः सर्वालङ्कारसुन्दरः ।
कौस्तुभेन लसद्वक्षा वनमालाविभूषितः ॥ २८ ॥
शेषशायी महालक्ष्म्या संवाहितपदाम्बुजः ।
विश्वदेवश्च तं दृष्ट्वा ननाम परिपूज्य च ॥ २९ ॥
यातस्तन्मयतां भक्त्या विस्मृत्य च शरीरताम् ।
उवाच च चिदानन्दपरिपूर्णो द्विजोत्तमः ॥ ३० ॥
अद्य धन्यं जनुर्मेऽद्य जीवितं च सुजीवितम् ।
अद्येयं नगरी धन्या धन्यौ तौ पितरौ मम ॥ ३१ ॥
मयूरेशोपदेशेन भवान्या दर्शनेन च ।
परात्परस्य विष्णोस्ते चराचरस्वरूपिणः ॥ ३२ ॥
लब्धं दर्शनमत्रैव सर्वान्तर्यामिणो विभोः ।
नारायणोऽपि तं भक्तं बाहुभिः परिषस्वजे ॥ ३३ ॥
उवाच च प्रसन्नात्मा बाष्पगद्गदया गिरा ॥ ३४ ॥
मदर्थं त्यक्तवान्भुक्तिं क्षीराब्धेरहमागतः ।
दृष्ट्वा ते निश्चयं भक्तिं दृढामव्यभिचारिणीम् ॥ ३५ ॥
भक्तमार्गं प्रसिञ्चामि मारुतोद्धृतकण्टकम् ।
भक्ततृषानिवृत्त्यर्थं जातोऽहं जलरूपधृक् ।
नानारूपधरो जातो भक्तानामार्तिनाशनः ॥ ३६ ॥
यथा भक्तः प्रियो नित्यमिति ते दर्शयाम्यहम् ।
अभूद् भाद्रचतुर्थ्यां हि मयूरेशमहोत्सवः ॥ ३७ ॥
मूर्तिं महीमयीं कृत्वा बर्ह्याखुसिंहगां पृथक् ।
नानालङ्कारशोभाढ्यां नानारङ्गैः सुशोभिताम् ॥ ३८ ॥
अनेकैः पूज्य तां सम्यग्बालकैर्मुनिसञ्चयैः ।
केचिदग्रे प्रगायन्ति केचिन्नृत्यन्ति भक्तितः ॥ ३९ ॥
वाचयन्ति पुराणानि प्रदक्षिणपराः परे ।
एतस्मिन्नन्तरे पौत्रो वसिष्ठस्य महात्मनः ॥ ४० ॥
पराशर इतिख्यात आययौ स्वेच्छया मुनिः ।
स चतुर्वार्षिको मूर्तिं विदधे भक्तितत्परः ॥ ४१ ॥
शुष्कपर्णकृतां मालां कृत्वा तस्मै न्यवेदयत् ।
गन्धबुद्धया कर्दमेन तां व्यलेपयदादरात् ॥ ४२ ॥
मिष्टान्नानि च लड्डूकान् दक्षिणां च फलानि च ।
न्यवेदयत्तदा पत्रैरनेकैः कर्दमैरपि ॥ ४३ ॥
सङ्कल्पं लीलया चक्रे जङ्घावाद्यं शनैः शनैः ।
मुहूर्तं नर्तनं कृत्वा रुरोद भक्षयेति च ॥ ४४ ॥
सम्प्रार्थ्य मूर्तिं बहुधा ततः सा चेतनां ययौ ।
यद् यत् तेन यदुद्देशात्स्थापितं पुरतोऽभवत् ॥ ४५ ॥
तत्तथैव च सञ्जातं ततः साऽभक्षयत् तदा ।
लड्डूकान् मोदकान् नाना पक्वान्नं पायसान्वितम् ॥ ४६ ॥
विश्वदेवश्च तद् दृष्ट्वा मिथ्याभूतं यथार्थवत् ।
मृत्तिकान्नानि सत्यानि सर्वं पुष्पफलादिकम् ॥ ४७ ॥
सचेतनां च तां मूर्तिं षड्भुजां च पुनः पुनः ।
व्यलोकयद् विष्णुरूपां चतुर्बाहुविराजिताम् ॥ ४८ ॥
उवाच सततं देव किमिदं मृत्तिकाशनम् ।
॥ मूर्तिरुवाच ॥
भक्त्या यदर्पितं मह्यं सुधारससमं भवेत् ॥ ४९ ॥
अभक्तार्पितममृतं विषमेव भवेन्मम ।
॥ क उवाच ॥
एवं तद्वचनं श्रुत्वा विश्वदेवोऽब्रवीत् पुनः ॥ ५० ॥
कस्ते भक्तो मम च तं दर्शयस्व सुरेश्वर ।
ततस्तस्य करं धृत्वा बहिरायान्मयूरराट् ॥ ५१ ॥
गृहे गृहे पूज्यमानं देवं तस्मै व्यदर्शयत् ।
शिखिनं स समारूढं मयूरेशमलोकयत् ॥ ५२ ॥
तत्रापि पर्यपश्यत् स विश्वदेवयुतं च ताम् ।
नायं मम भवेत् स्वामीत्येवं बुद्धिं विसृज्यताम् ॥ ५३ ॥
गृहे गृहे विश्वदेवो नारायणमलोकयत् ।
सर्वत्र स ददर्शाऽथ पूज्यमानं गुणेश्वरम् ॥ ५४ ॥
क्वापि क्वापि मयूरेशं ददर्श विष्णुरूपिणम् ।
पुनरालोकयन् तत् तन्मयूरेशमलोकायत् ॥ ५५ ॥
भुजं स्वं परिगृह्यैव बहिर्यातं स्वलीलया ।
आक्षिप्य हस्तं स प्रायान्नायं स्वामी ममेति च ॥ ५६ ॥
अटन् गृहे गृहे सोऽथ पूज्यमानं ददर्श ह ।
मयूरेशं वाद्यघोषैर्नृत्यगीतैरनेकधा ॥ ५७ ॥
क्वापि दृष्ट्वा विष्णुरूपं नमस्कर्तुं यथावध ।
पुनर्मयूरेशरूपं ददर्श स शिखिस्थितम् ॥ ५८ ॥
गरुडारूढमन्यत्र शेषारूढं तथा क्वचित ।
नमस्कर्तुं यदा याति विश्वदेवो मुदा यतः ॥ ५९ ॥
तावद् सिंहमारूढं पश्यति स्म पुनः पुनः ।
भुञ्जन्तं च रमन्तं च स्वपन्तं च ददर्श सः ॥ ६० ॥
ततः खिन्नो विश्वदेवो वसिष्ठद्वारमागमत् ।
ततोऽब्रवीन् मयूरेशः पश्य मे भक्तमुत्तमम् ॥ ६१ ॥
ततः पराशरं सोऽथ ददर्श पुरतः स्थितम् ।
मृन्मयैरुपचारैस्तं पूजयन्तं गुणेश्वरम् ॥ ६२ ॥
भक्षयन्तं च लड्डूकान् मृन्मयान् देवमेव च ।
पश्यति स्म पुनर्व्योम्नि जले भूमौ तमेव सः ॥ ६३ ॥
क्षणं नारायणं देवं मयूरेशं क्षणादपि ।
ततः स्वभेदबुद्धिं स्वां तत्याज भ्रान्तिमेव च ॥ ६४ ॥
सर्वभावेन तं नत्वा स्तुत्वाऽभेदधिया पुनः ।
अनुज्ञातो मुदा प्रायाद्विश्वदेवः स्वमाश्रमम् ॥ ६५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वदेवभेदबुद्धिनिरासो नामपञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-105


कोई टिप्पणी नहीं:

123