श्रीगणेशपुराणे क्रीडाखण्डे
द्व्युत्तरशततमोऽध्यायः
कमलासुरसङ्ग्राम
॥ क उवाच ॥
विनष्टे बहुधा सैन्ये रुरोहाश्वं स दैत्यराट् ।
खड्गपाणिर्ययौ योद्धुं मयूरेशं रुषान्वितः ॥ १ ॥
तं दृष्ट्वा तु मयूरेशो रुरोह स्वं शिखण्डिनम् ।
तं दृष्ट्वा शीघ्रमायान्तं पन्नगास्त्रं स दैत्यराट् ॥ २ ॥
जप्त्वा मन्त्रं च शतधा भार्गवादिष्टमादरात् ।
ससर्ज पन्नगास्त्रं तत्तेजसा जज्वलुर्दिशः ॥ ३ ॥
सर्पसैन्यैरवेष्ट्यन्त देवसेनाचरा नराः ।
मृताः केचिद् गताः केचित् पातिताश्चापरेऽवनौ ॥ ४ ॥
ननन्द देवस्तं दैत्यमतिवीर्यपराक्रमम् ।
साधु युध्यसि दैत्येन्द्र नेदृशः कोऽपि वीक्षितः ॥ ५ ॥
एवमुक्त्वा रिपुं देवो गरुडास्त्रमवासृजत् ।
ततः पलायिताः सर्पाः प्रोत्तिष्ठँश्च चमूचराः ॥ ६ ॥
चक्रास्त्रमसृजद्देवो दैत्यसेनानिबर्हणम् ।
तेन केचिन्मृता दैत्याः केचिच्छिन्नाङ्घ्रिमस्तकाः ॥ ७ ॥
विभिन्नजानुजङ्घाश्च छिन्नगुल्फाः परेऽपतन् ।
गर्जन्ति धाव धावेति पितर्मातः सुतेति च ॥ ८ ॥
मुक्तिं याता मयूरेशं दृष्ट्वा प्राणां जहुश्च ये ।
एवं सेना निरस्ताऽस्य ततो दैत्यो रुषाऽद्रवत् ॥ ९ ॥
खड्गपाणी रुषा गर्जन् वेगेनायाद्गजाननम् ।
तथाविधं रिपुं दृष्ट्वा परशुं जगृहे विभुः ॥ १० ॥
ययौ दैत्यं महावेगमसृजत्परशुं च तम् ।
स दहं स्तेजसा व्योम दिशः पक्षिगणानपि ॥ ११ ॥
अच्छिनद् दैत्यहस्तं च खड्गं च शतधा जवात् ।
स चापं सहसा गृह्य सज्जं कृत्वा शरान् बहून् ॥ १२ ॥
असङ्ख्यातान् बलाद् विध्यन् छादयामास सैनिकान् ।
गगनं च दिशः सर्वा जगर्ज घननिस्वनः ॥ १३ ॥
शराघातेन बलवान्निवार्य शरपञ्जरम् ।
अन्धकारे बाणमये नाज्ञासीत्कोऽपि कञ्चन ॥ १४ ॥
मयूरेशोऽथ शीघ्रं तदश्वं भूमावपातयत् ।
ततोऽन्तरिक्षे तिष्ठन् स प्रोचे च गणनायकम् ॥ १५ ॥
अश्वो निपातितस्तस्य पश्यमे कौतुकं महत् ।
शिखण्डिनं हनिष्यामि पश्यतस्ते गुणेश्वर ॥ १६ ॥
उभयत्र निषङ्गस्थान् शरान् भूमौ व्यचिक्षिपत् ।
चापमाकृष्य कर्णान्तं चिक्षेप शरसञ्चयान् ॥ १७ ॥
मयूरेशस्य सेनायां मारयन् सर्व सैनिकान् ।
ववर्ष शरजालानि वर्षाकाले घना यथा ॥ १८ ॥
कियन्तो भिन्नसर्वाङ्गाः केचित्प्राणाञ्जहुः सुराः ।
एवं नश्यत्सु वीरेषु मयूरेषो रुषान्वितः ॥ १९ ॥
कमलासुरबाणैस्तु विद्धं त्यक्त्वा शिखण्डिनम् ।
पाशं करेण जग्राह तोलयित्वा स सादरम् ॥ २० ॥
जगर्ज नादयन् व्योम तत्याज महसा युतम् ।
स पातयन् दैत्यगणान् ददाह रिपुसैनिकान् ॥ २१ ॥
कण्ठे च न्यपतत्तस्य दैत्यसेनाधिपस्य ह ।
रुरोध श्वासमस्यासौ दैत्यो रूपान्तरं श्रितः ॥ २२ ॥
मूर्ध्ना सञ्छादयामास तत्क्षणाद्रविमण्डलम् ।
अन्धकारे घोरतमे न प्रज्ञायत किञ्चन ॥ २३ ॥
उवाच सम्मुखो भूत्वा मयूरेशं रुषान्वितः ।
मया किं युध्यसे बाल गच्छ मातुः स्तनं पिब ॥ २४ ॥
रमस्व बालकैर्नोचेन्मरिष्यसि ममाग्रतः ।
मम चाक्रन्दनेनैव कम्पते भुवनत्रयम ॥ २५ ॥
पादे भूमौ स्थाप्यमाने शेषोऽपि चलते ह्यधः ।
मम मुष्टिप्रहारेण चूर्णी भूता महाचलाः ॥ २६ ॥
नखाग्रेण शिरस्तेऽहं गमयिष्ये रसातलम् ।
॥ क उवाच ॥
एवणाकर्ण्य दुर्बुद्धेर्वाक्यं प्रोचे गजाननः ।
पिशाचवन्मद्यपवत्किं वल्गसि ममाग्रतः ॥ २७ ॥
न जयं प्राप्नुते क्वापि देवद्विजविनिन्दकः ।
मम चेद् भविता क्रोधो ज्वालयेद् भुवनत्रयम् ॥ २८ ॥
यशस्ते ख्यापितुं लोके युद्धयामि हर्षनिर्भरः ।
नो चेद् हुङ्कारमात्रेण नीतः स्याद् यमसादनम् ॥ २९ ॥
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं दैत्यः क्रोधानलाकुलः ।
क्ष्वेडितं प्रतिशब्देन नादयन् विदिशो दिशः ॥ ३० ॥
तदा गार्भ निपतितास्तस्य शब्देन तत्क्षणात् ।
प्रमथाद्या गणाः केचिन्मूर्च्छिता धरणीं गताः ॥ ३१ ॥
आकर्णं धनुराकृष्य मुमोच कमलासुरः ।
शरवृष्टिं पुना रौद्रां मयूरेशे बलेऽपि च ॥ ३२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरसङ्ग्रामो नाम
द्व्युत्तरशततमोऽध्यायः ॥ १०२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें