श्रीगणेशपुराणे क्रीडाखण्डे त्र्युत्तरशततमोऽध्यायः
कमलासुरवध
॥ क उवाच ॥
उत्कर्षं तस्य दैत्यस्य दृष्ट्वा देवस्त्वरान्वितः ।
आययौ पुरतो दैत्यं जघान शरवृष्टिभिः ॥ १ ॥
न्यवारयत दैत्योऽपि स्वशरैरतिवेगितैः ।
ततस्तुतोष भगवान् मयूरेशो गुणाग्रणीः ॥ २ ॥
दर्शयामास तस्मै स विश्वरूपमनन्तकम् ।
दश दिक्षु मयूरेशं ददर्श कमलासुरः ॥ ३ ॥
विस्मितश्छाद्य नयने हृदि तं परिदृष्टवान् ।
ततः पलायनपरो यावद् गच्छति दैत्यराट् ॥ ४ ॥
शिखामाक्रम्य देवोऽपि धृत्वा प्रोवाच तं पुनः ।
तिष्ठ युध्यस्व दैत्येन्द्र स्मर वाक्यानि तानि च ॥ ५ ॥
पुनर्ददर्श दैत्यस्तमेकमेव पुरः स्थितम् ।
अधावत् सहसा योद्धुं जगर्ज च महाबली ॥ ६ ॥
दशायुधधरो देवो योधयामास (बोधयामास) तं तदा ।
बिभेदास्य शरीरं स विघ्नराट् शस्त्रघाततः ॥ ७ ॥
यत्रास्य न्यपतद् रक्तबिन्दुस्तत्रासुरोऽभवत् ।
तद्रूपस्तद्बलश्चैवमसङ्ख्यातास्तदाऽसुराः ॥ ८ ॥
नानाशस्त्रैरथास्त्रैस्ते तं जघ्नुः शरवृष्टिभिः ।
ततः परावृतो देवो मयूरेशो रुषा ज्वलन् ॥ ९ ॥
सार्द्धकोटित्रयमितैः सिद्धिबुद्धी तदा बलैः ।
ईयतुः परमक्रुद्धे ततो युद्धमवर्त्तत ॥ १० ॥
ऊचुतुर्गणराजं ते देहि भक्ष्यं क्षुधापहम् ।
त ऊचे भक्षतं देवो दैत्यासृग् जनितान् बहून् ॥ ११ ॥
इत्युक्ते ते तदा तेन मयूरेशेन सत्वरमम् ।
बभक्षतुर्भूतगणैस्तान् दैत्यानखिलानपि ॥ १२ ॥
देवो जघान खड्गेन तं दैत्यं कमलासुरम् ।
पुनश्च शतशो जाता दैत्यास्तद्रक्तसम्भवाः ॥ १३ ॥
बभक्षुस्तानपि ततो पिबन्रक्तं समन्ततः । (पिबन्तो रक्तमुल्बणम्)
ततः खिन्नो मयूरेशः शूलमुद्यम्य वेगवान् ॥ १४ ॥
तत्याज सहसा दैत्ये ययौ स प्रदहद् दिशः ।
चूर्णयन् पर्वतान् व्योम नादयन् भानि पातयन् ॥ १५ ॥
वेगेन पतितो दैत्यदेहं भित्वा द्विधाऽकरोत् ।
मस्तकस्तस्य पतितो भीमाया दक्षिणे तटे ॥ १६ ॥
कृष्णाया उत्तरे तीरे तस्थौ तत्र गुणेश्वरः ।
सर्वे सन्तुष्टमनसो जयशब्दैस्तमब्रुवन् ॥ १७ ॥
जय देव मयूरेश कुरु दुष्टविनाशनम् ।
ततस्तत्राययौ गौरीपतिर्गणपरीवृतः ॥ १८ ॥
गौतमाद्यैश्च मुनिभिः पार्वत्या च समायुतः ।
वाद्यत्सु सर्ववाद्येषु पुष्पवृष्टिः पपात खात् ॥ १९ ॥
आलिङ्ग्य पार्वती प्रादात् स्तनपानं मुदा तदा ।
मुनयस्तुष्टुवुश्चैनं मयूरेशं सुरेश्वरम् ॥ २० ॥
कमलाकान्तहृदय हृद्दयानन्दवर्धन ।
कमलाकान्तनमित कमलासुरनाशन ॥ २१ ॥
कमलासेवितपद जय त्वं कमलाप्रद ।
कमलासनवन्द्येश कमलाकरशीतल ॥ २२ ॥
कमलाङ्कसुपादाब्ज कमलाङ्कितसत्कर ।
कमलाबन्धुतिलक भक्तानां कमलाप्रद ॥ २३ ॥
कमलासूनुरिपुज कमलासूनुसुन्दर ।
कमलापितृरत्नानां मालया जय शोभित ॥ २४ ॥
कमलासुरबाणानां कमलेन निवारक ।
कमलाक्रान्तकमलकोशजित्करपङ्कज ॥ २५ ॥
कमलापतिहस्तस्थपद्मकोशनिभेक्षण ।
सर्वहृत्कमलानन्द जय सर्वाघनाशन ॥ २६ ॥
कमलाङ्कुशहस्ताब्ज जयविघ्नहराव्यय ।
त्वया विनिहतः पापः शक्रादिभयदो रिपुः ॥ २७ ॥
वज्रचक्राद्यभेद्यो यो मुनीनामपि भीतिदः ।
एवं स्तुत्वा पुपूजस्ते गौतमाद्या महर्षयः ॥ २८ ॥
दशभिर्दोर्भिरालिङ्ग्य पुपूज गिरिशोऽपि तम् ।
ततस्ते मुनयः प्रोचुर्मयूरेशं च शङ्करम् ॥ २९ ॥
अत्रत्वं सर्वदा तिष्ठ सर्वदेवगणैर्युतः ।
पूरयन् भक्तकार्याणि वारयन् विघ्नसञ्चयान् ॥ ३० ॥
॥
क उवाच ॥
एवं तैः प्रार्थितौ देवौ सर्वदेवगणैर्युतौ ।
पूरयन्तौ भक्तकामान् हरन्तौ विघ्नसञ्चयान् ॥ ३१ ॥
स्थितौ तत्र मयूरेशशङ्करौ लोकशङ्करौ ।
विश्वकर्मा व्यधात् तत्र मन्दिरं सुन्दरं ततः ॥ ३२ ॥
असङ्ख्यशिखरद्वारमसङ्ख्याश्चर्यसंयुतम् ।
तत्राभून्नगरं चारु सर्वलोकसमन्वितम् ॥ ३३ ॥
मयूरेशपुरं तस्य नाम चक्रुर्महर्षयः ।
तपस्तेपुर्मुनिगणा नानाभरणसंश्रिताः ॥ ३४ ॥
हरोऽपि च तपस्तेपे गिरिजागणसंयुतः ।
तस्य ध्यानं पूजनं च स्मरणं ते व्यधुर्द्विजाः ।
मयूरेशः पुनर्बालैः क्रीडति स्म यथा पुरा ॥ ३५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरवधोनाम त्र्युत्तरशतत मोऽध्यायः ॥ १०३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें