श्रीगणेशपुराणे क्रीडाखण्डे चतुरधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे चतुरधिकशततमोऽध्यायः

विश्वरूपदर्शनं
॥ क उवाच ॥

अहं प्रयातस्तं द्रष्टुं गुप्तरूपो द्विजोत्तम ।
अदर्शं तत्र तं देवमुमया सहितं प्रभुम् ॥ १ ॥
स्नात्वासीनं जपन्तं च परं ब्रह्म सनातनम् ।
अहं तमस्तुवं देवं मयूरेश्वर संज्ञकम् ॥ २ ॥


पुराणपुरुषं देवं नाना क्रीडाकरं मुदा ।
मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम् ॥ ३ ॥
परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् ।
गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥ ४ ॥
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया ।
सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥ ५ ॥
इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।
सदसद्व्यक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥ ६ ॥
नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् ।
नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥ ०७ ॥
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् ।
सर्वविद्या प्रवक्तारं मयूरेशं नमाम्यहम् ॥ ८ ॥
पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।
भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥ ९ ॥
मुनिध्येयं मुनीनुतं मुनिकामप्रपूरकम् ।
समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥ १० ॥
सर्वाऽज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ।
सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥ ११ ॥
अनेककोटिब्रह्मांण्डनायकं जगदीश्वरम् ।
अनन्तविभवं विष्णु मयूरेशं नमाम्यहम् ॥ १२ ॥
त्वद्दर्शनेन पूतोऽहं परमानन्दनिर्भरः ।
आश्चर्यं परमं प्राप्तस्तस्य दैत्यस्य मारणात् ॥ १३ ॥
येन शक्रोऽन्तको देवा लोकपाला जिता बलात् ।
सहस्रशतयोधी योऽसङ्ख्यदेहो रणे हतः ॥ १४ ॥
त्रिधा भूतस्त्रिस्थलेषु पतितः कमलासुरः ।
तं समापूजयमहं सर्वतीर्थजलैः शुभैः ॥ १५ ॥
कमण्डुलगतैरेनोनाशकैरभिषेचयम् ।
दिव्यवस्त्रे दिव्यगन्धं दिव्यपुष्पमयीं शुभाम् ॥ १६ ॥
वनमालामस्य कण्ठे दत्त्वा नाम व्यधामहम् ।
वनमालीति लोकेषु विख्यातं सर्वमङ्गलम् ॥ १७ ॥
पूजाविधिं समाप्यैनं प्रदक्षिणामथो व्यधाम् ।
पादाघातेन मे तत्र न्युब्जतां गमितः क्षणात् ॥ १८ ॥
नानातीर्थजलैर्युक्तः स्थापितो मे कमण्डलुः ।
यतेऽहं तज्जलं भर्तुं ततो मामब्रवीद्विभुः ॥ १९ ॥
॥ मयूरेश उवाच ॥
इदं ब्रह्मकृतं स्तोत्रं सर्वपापप्रणाशनम् ।
सर्वकामप्रदं नॄणां सर्वोपद्रवनाशनम् ॥ २० ॥
कारागृह गतानां च मोचनं दिनसप्तकात् ।
आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं विधे ॥ २१ ॥
स्थिरो भव विरिञ्चे ! त्वं नदीयं सर्वपावनी ।
कमण्डलुभवा नाम्ना ख्याता लोके भविष्यति ॥ २२ ॥
दर्शनाद् वाचिकं पापं स्पर्शनाच्च मनोमयम् ।
स्नानाच्च कायिकं सर्वं नाशयिष्यति निम्नगा ॥ २३ ॥
निरन्तरं सेवनाच्च मोक्षमेषा प्रदास्यति ।
॥ क उवाच ॥
एवं दत्ते वरे तेन सस्नुस्तत्र मुनीश्वराः ॥ २४ ॥
सदाराः सपरीवाराः सप्तकोटिगणा अहम् ।
तपस्तेपुस्तदा तत्र मुनयस्ते मया सह ॥ २५ ॥
ततोऽहं मायया तस्य मोहितः प्राब्रुवं बहून् ।
जगत्कर्ता जगद्वन्द्यः शक्रादिसुरपूजितः ॥ २६ ॥
बालमेकादशाब्दं तं कथं प्रणतवानहम् ।
अर्भकैः क्रीडमानं तमाचाररहितं शिशुम् ॥ २७ ॥
धिङ् मे ज्ञानं महत्वं च पैतामहपदं च धिक् ।
इमां सृष्टि विधायाऽहं स्थास्यामि गुप्तरूपधृक् ॥ २८ ॥
अयं चेत् परमात्मा स्यादपरां निर्ममेत् पुनः ।
एवं निश्चित्य मनसा सृष्टिमात्मानमेव च ॥ २९ ॥
अन्तर्धाय स्थितो यावत्तावद्देवो गजाननः ।
न ददर्श सखीन् बालांस्ततस्तेषां गृहानगात् ॥ ३० ॥
शून्यान् दृष्ट्वा गृहान् सर्वान् खिन्नो वृक्षानलोकयत् ।
न ददर्श द्रुमान् जन्तून् पशुपक्षिगणान् यदा ॥ ३१ ॥
तदा स्वर्गं गतो देवो नापश्यत् तत्र तान् सुरान् ।
गन्धर्वान् किन्नरान् यक्षान् पितॄन् शशिरवी न च ॥ ३२ ॥
अन्धकारे गाढतमे न प्राज्ञायत किञ्चन ।
ततोऽसौ प्रणिधानेन ज्ञात्वा ब्रह्मकृतं च यत् ॥ ३३ ॥
सामर्थ्यं निजमायां च आविश्चक्रेऽखिलात्मकः ।
ब्रह्माण्डं निर्ममे देवो मयूरेशः स्वलीलया ॥ ३४ ॥
विश्वं चराचरं तत्र मयूरेशपुरीमपि ।
यथापूर्वं पश्यति स्म सर्वं त्रिभुवनं विभुः ॥ ३५ ॥
स्वं च बालैः परिवृतं ब्रह्मांण्डं च तथाविधम् ।
शङ्करं च भवानीं तामनुष्ठानगतान् मुनीन् ॥ ३६ ॥
तपनं शशिनं भानि स्वर्गान् देवगणानपि ।
पृथिवीं सर्ववृक्षांश्च समुद्रान् सरितोऽपि च ॥ ३७ ॥
पातालानि मयूरेशो ददर्श पूर्ववद् विभुः ।
॥ क उवाच ॥
ततोऽहं स्मृतिमापन्नोऽपश्यन् देवं चिदात्मकम् ॥ ३८ ॥
कलाकाष्ठामुहुर्तादिदिनपक्षस्वरूपिणम् ।
दृष्ट्वेत्थं तमहं नत्वा क्षमापयमुदारधीः ॥ ३९ ॥
मासर्तुवर्षकल्पादिचराचरस्वरूपिणम् ।
असङ्ख्यब्रह्माण्डयुतरोमाञ्चैरुपशोभितम् ॥ ४० ॥
देवर्षियक्षगन्धर्वसरित् सागररूपिणम् ।
मनुष्यकिन्नरलतावृक्षपन्नगरूपिणम् ॥ ४१ ॥
दृष्ट्वेत्थं तमहं नत्वा क्षमापयमुदारधीः ।
पुनः पुनरपश्यं तं मयूरेशं किरीटिनम् ॥ ४२ ॥
कुण्डलाभ्यां नूपुराभ्यामङ्गदाभ्यां विराजितम् ।
शेषनाभिं सर्पकण्ठं दिव्यमालाम्बरावृतम् ॥ ४३ ॥
दिव्यसिंहासनगतं सर्वदेवैरभिष्टुतम् ।
सिद्धिबुद्धिसमायुक्तं विभूतिभिरुपासितम् ॥ ४४ ॥
चराचरमयं सर्वनमस्यं तत्स्वरूपिणम् ।
प्रत्येकं तत्र चात्मानं तद्रूपं स्वं व्यलोकयम् ॥ ४५ ॥
ततस्तं स्तुतवान् नत्वाऽप्रार्थयं च पुनः पुनः ।
क्षमापराधं मे देव त्वन्मायागर्वितस्य मे ॥ ४६ ॥
प्रभावं द्रष्टुकामस्य दीनस्य शरणार्थिनः ।
क्षणेनानन्तब्रह्माण्डकारिणे ते नमो नमः ॥ ४७ ॥
एवं वदन्तं मां नासापवनात् स्वोदरेऽनयत् ।
तत्रापश्यं सर्वलोकं यथा बहिः प्रदृष्टवान् ॥ ४८ ॥
देवं तथाविधं चापि कोटिब्रह्माण्डरोमकम् ।
सर्वं चराचरं विश्वं यथा भूमौ यथादिवि ॥ ४९ ॥
एकस्मादण्डतश्चान्यद् ब्रह्माण्डान्तरमाविशम् ।
तथैव दृष्टवान् सर्वानेवं नानाण्डमध्यगः ॥ ५० ॥
अपश्यं विश्वमखिलं स्वात्मानं देवमेव च ।
ततःखिन्नोऽब्रुवं देवं नान्तं पश्यामि ते क्वचित् ॥ ५१ ॥
कृपां कुरु मम विभो मायामेतां निवारय ।
ततः स करुणाविष्टः सर्वमन्तर्दधे क्षणात् ॥ ५२ ॥
पुनरेव मयूरेशमपश्यं बालकैर्वृतम् ।
क्रीडन्तं पूर्ववन्नत्वाऽब्रुवं मायां न तेऽविदम् ॥ ५३ ॥
अपराधसहस्रं मे मातृवत् त्वं क्षमस्व च ।
मयूरेशोऽब्रवीन्मां हि मूर्ध्नि हस्तं निवेश्य ह ॥ ५४ ॥
॥ देव उवाच ॥
न मे क्रोधो न भिन्ना धीः स्वीयः पर इति भ्रमः ।
कस्मादपि भयं मे न मत्तो न भयमण्वपि ॥ ५५ ॥
श्रुत्वेथं वचनं तस्य मयूरेशपुरं शिवम् ।
भवानीमपि तत्सूनुमद्राक्षं मुनिबालकैः ॥ ५६ ॥
गृहीत्वाज्ञां स्वकं स्थानमगमं हर्षनिर्भरः ।
भवानी बालकैनायान्मन्दिरं स्वं च बालकाः ॥ ५७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम चतुरधिकशततमोऽध्यायः ॥ १०४ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-104

कोई टिप्पणी नहीं:

123