श्रीगणेशपुराणे क्रीडाखण्डे षडधिकशततमोऽध्यायः
शिवललाटगतचन्द्रहरणं
॥ क उवाच ॥
ततस्रयोदशे वर्षे नमस्कृत्य महेश्वरम् ।
भस्माङ्गरागरुचिरं पञ्चास्यं दिग्भुजं शुभम् ॥ १ ॥
रुण्डमालाधरं सुप्तं चन्द्रशेखरमच्युतम् ।
मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम् ॥ २ ॥
क्रीडन् बहिः समायातो बालकैः परिवारितः ।
सुहृद्भिः परिनृत्यद्भिर्वद्भिश्च परस्परम् ॥ ३ ॥
एतस्मिन्नन्तरे तत्र दैत्यो मङ्गलसंज्ञकः ।
करालवदनः क्रोडी विजेता मरमाद्भुतः ॥ ४ ॥
वराहरूपो बलवान् दन्तच्छिन्नमहीरुहः ।
वज्रसारसटाभिः स भिन्दन्व्योमपदैर्धराम् ॥ ५ ॥
अञ्जनाद्रिरिव श्यामो वह्निकुण्डनिभेक्षणः ।
दृष्ट्वा तं विद्रुता बाला वर्षाघननिभस्वनः ॥ ६ ॥
न दृष्टः सूकरः क्वापीदृश इत्यब्रुवंश्च ते ।
यावन् मारयते बालांस्तावद् देवो मयूरराट् ॥ ७ ॥
दधार दन्तयोर्दुष्टं तदा सूकरदानवम् ।
अथापरेण हस्तेन दधाराधरपोत्रकम् ॥ ८ ॥
पाटयामास सहसा वंशखण्डमिवार्भकः ।
पूर्वदेहं समास्थाय दशयोजनविस्तृतम् ॥ ९ ॥
पतितश्चूर्णयन् वृक्षान् दारयन् घरणीतलम् ।
ततस्तमब्रुवन् बाला धन्योऽयं पार्वतीसुतः ॥ १० ॥
क्षणेन नाशितो दैत्यो लीलयाऽसौ महाबलः ।
अस्य दर्शनतस्त्रस्ता वयं याता दिशो दश ॥ ११ ॥
पतमानेन येनेह चूर्णितानि गृहाणि च ।
॥ क उवाच ॥
ततः शिवो ललाटे स्वे नापश्यच्छशिनं यदा ॥ १२ ॥
क्रोधासंरक्तनयनो विष्टपं प्रदहन्निव ।
गणानूचे रुषाविष्टो रक्षणं क्रियते कथम् ॥ १३ ॥
केन दैत्येन नीतो मे ललाटस्थोऽमलः शशी ।
॥ क उवाच ॥
ततो लीना गणाः सर्वे कम्पमाना भयातुराः ॥ १४ ॥
अपरे धैर्यमालम्ब्य वदन्ति स्म शिवं प्रति ।
उमाकान्त भवत्पुत्रो मयूरेश्वर संज्ञकः ॥ १५ ॥
क्रीडितुं बहिरायातस्तस्य हस्ते विलोकितः ।
चन्द्रस्तेन कदा नीतो न जानीमो वयं विभो ॥ १६ ॥
इति तद्वचनं श्रुत्वा प्रोचे रुष्टो महेश्वरः ।
कथं नु क्रियते रक्षा भवद्भिर्भक्ष्य तत्परैः ॥ १७ ॥
चन्द्रो वा चन्द्रहर्ता वा यद्यानीतस्तदा शुभम् ।
नो चेद्भस्मीकरिष्यामि सर्वेषां नात्र संशयः ॥ १८ ॥
ततस्ते क्षुब्धमनसो धावमानास्त्वरान्विताः ।
मयूरेशं समभेत्य प्राभणन् रुष्टचेतसः ॥ १९ ॥
याहि दुष्टं शिवं देवं चन्द्रं वा यच्छ तस्कर ।
गणवाक्यं परिश्रुत्य चुकोप गणनायकः ॥ २० ॥
न मेऽस्ति गणना कापि भवतां तस्य वा गणाः ।
जगत् त्रय जनन्या मे तनयस्य प्रभाविनः ॥ २१ ॥
॥ क उवाच ॥
तस्य श्वासेन सर्वे ते वात्या पत्रमिवोद्धृताः ।
पेतुः शिवस्य पुरतो गणा दीनास्तदाऽखिलाः ॥ २२ ॥
अतिरोषान् महादेवः प्रमथादीनथाब्रवीत् ।
आनीयता स दुष्टात्मा बद्ध्वोमातनयो लघुः ॥ २३ ॥
ते तु शीघ्रतरं याता यत्र क्रीडारतः शिशुः ।
ददृशुस्तं शिशुगतं क्रीडन्तमकुतो भयम् ॥ २४ ॥
वेष्टितुं तान्समायातान् मोहयित्वा विनायकः ।
अन्तर्हितश्चतुर्दिक्षु गणास्ते तं व्यलोकयन् ॥ २५ ॥
गृहे गृहे काननेषु नापश्यंस्ते विनायकम् ।
क्वचिद् दृष्ट्वा तु तं प्राहुरस्मदग्रे कथं भवान् ॥ २६ ॥
गन्तुं शक्तो ब्रह्मलोके स्थितं नेष्याम तं शिवम् ।
एवमन्तर्हितो दृश्यो वारंवारं बभूव सः ॥ २७ ॥
ततः खिन्नान् गणान् दृष्ट्वा परमात्मा कृपान्वितः ।
तस्थौ तत्पुरतः सम्यग्दृष्ट्वा तं हर्षनिर्भराः ॥ २८ ॥
बबन्धुर्गिरिजासूनुं निन्युस्ते शङ्करं प्रति ।
पृथिवीभारसदृशमुपविष्टं तु ते गणाः ॥ २९ ॥
न शेकुरुत्थापयितुं ततो विस्मितमानसाः ।
हतोद्यमा गणाः सर्वे शिवमेत्य समूचिरे ॥ ३० ॥
सर्वे वयं समानेतुमेकं शक्ता न शङ्कर ।
आज्ञापयामास शिवो नन्दिनं पुरतः स्थितम् ॥ ३१ ॥
झटित्यानय गच्छ त्वं मयूरेशं तु तस्करम् ।
॥ नन्द्युवाच ॥
शेषं सूर्यं शशाङ्कं च हनिष्येऽहं तवाज्ञया ॥ ३२ ॥
कनीयसो न मे काचिद् गणनाऽस्ति महेश्वर ।
॥ क उवाच ॥
इत्युक्त्वाऽगाद्वायुवेगो भञ्जन्वृक्षांश्च पर्वतान् ॥ ३३ ॥
क्रोधसंरक्तनयनस्तीक्ष्णशृङ्गो ग्रसन् दिवम् ।
उवाच तं मयूरेशं याहि रे त्वं शिवं प्रति ॥ ३४ ॥
नो चेदद्य नेयिष्यामि न समो हि गणैरहम् । (नो चेदद्यैव नेष्यामि)
एवं वदति तस्मिंस्तु मयूरेशो रुषान्वितः ॥ ३५ ॥
श्वासचक्रेऽक्षिपत्तं तु गमनागमसङ्कुले ।
तत्याज तं दृढं श्वासादतिखिन्न शिवान्तिके ॥ ३६ ॥
वमन्तं रुधिरं वक्त्रात् पृथिव्यां पतितं तु तम् ।
ब्रुवन्तं पौरुषं नाना मूर्च्छितं द्विमुहूर्ततः ॥ ३७ ॥
अपश्यच्च मयूरेशं जानुभागे स्थितं शिवः ।
देदीप्यमानं वपुषा दिव्यभूषा समन्वितम् ॥ ३८ ॥
गणा ऊचुः शिवं दृष्ट्वा भालचन्द्रं यथा पुरा ।
ललाटे ते शशीदेव वृथाज्ञप्ता वयं शिव ॥ ३९ ॥
मयूरेशं गणांश्चाह शशिनं वीक्ष्यमस्तके ।
॥ शिव उवाच ॥
श्रान्तास्तेच गणास्त्वञ्च नन्दीचापि ममाज्ञया ॥ ४० ॥
चन्द्रे स्थिते ललाटे मे वृथा युद्धमभूद्धि यत् ।
॥ प्रमथा ऊचुः ॥
अद्यप्रभृति देवेश स्वामी नोऽस्तु मयूरराट् ॥ ४१ ॥
॥ क उवाच ॥
तथेति शिव ऊचे तान् गणराजोऽभवत्तु सः ।
नत्वा शिवं गणेशं च गणेशजननीमपि ॥ ४२ ॥
प्रशंसयित्वा देवेशं मयूरेशं तथाविधम् ।
गर्जन्तोऽथ गणा जग्मुर्मुदा स्वं स्वं निवेशनम् ॥ ४३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे शिवललाटगतचन्द्रहरणं
नाम षडधिकशततमोऽध्यायः ॥ १०६ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें