श्रीलिङ्गमहापुराण -[पूर्वभाग] -090

श्रीलिङ्गमहापुराण -[पूर्वभाग] -090
॥ श्रीसाम्बसदाशिवाय नमः ॥
नब्बेवाँ अध्याय
यतियों के लिये प्रायश्चित्त निरूपण
श्रीलिङ्गमहापुराणे पूर्वभागे नवतितमोऽध्यायः
यति प्रायश्चित्तं

॥ सूत उवाच ॥
अत ऊर्ध्वं प्रवक्ष्यामि यतीनामिह निश्चितम् ।
प्रायश्चित्तं शिवप्रोक्तं यतीनां पापशोधनम् ॥ १ ॥
पापं हि त्रिविधं ज्ञेयं वाङ्मनःकायसम्भवम् ।
सततं हि दिवा रात्रौ येनेदं वेष्ट्यते जगत् ॥ २ ॥


तत्कर्मणा विनाप्येष तिष्ठतीति परा श्रुतिः ।
क्षणमेवं प्रयोज्यं तु आयुष्यं तु विधारणम् ॥ ३ ॥
भवेद्योगोऽप्रमत्तस्य योगो हि परमं बलम् ।
न हि योगात्परं किञ्चिन्नराणां दृश्यते शुभम् ॥ ४ ॥
तस्माद्योगं प्रशंसन्ति धर्मयुक्ता मनीषिणः ।
अविद्यां विद्यया जित्वा प्राप्यैश्वर्यमनुत्तमम् ॥ ५ ॥
दृष्ट्वा परावरं धीराः परं गच्छन्ति तत्पदम् ।
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ॥ ६ ॥
एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ।
उपेत्य तु स्त्रियं कामात् प्रायश्चित्तं विनिर्दिशेत् ॥ ७ ॥
प्राणायामसमायुक्तं चरेत्सांतपनं व्रतम् ।
ततश्चरति निर्देशात्कृच्छ्रं चान्ते समाहितः ॥ ८ ॥
पुनराश्रममागत्य चरेद्भिक्षुरतन्द्रितः ।
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः ॥ ९ ॥
तथापि न च कर्तव्यं प्रसङ्गो ह्येष दारुणः ।
अहोरात्रोपवासश्च प्राणायामशतं तथा ॥ १० ॥
असद्वादो न कर्तव्यो यतिना धर्मलिप्सुना ।
परमापद्गतेनापि न कार्यं स्तेयमप्युत ॥ ११ ॥
स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति श्रुतिः ।
हिंसा ह्येषा परा सृष्टा स्तैन्यं वै कथितं तथा ॥ १२ ॥
यदेतद्द्रविणं नाम प्राणा ह्येते बहिश्चराः ।
स तस्य हरते प्राणान् यो यस्य हरते धनम् ॥ १३ ॥
एवं कृत्वा सुदुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः ।
भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम् ॥ १४ ॥
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।
ततः संवत्सरस्यान्ते भूयः प्रक्षीणकल्मषः ।
पुनर्निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः ॥ १५ ॥
अहिंसा सर्वभूतानां कर्मणा मनसा गिरा ।
अकामादपि हिंसेत यदि भिक्षुः पशून् कृमीन् ॥ १६ ॥
कृच्छ्रातिकृच्छ्रं कुर्वीत चान्द्रायणमथापि वा ।
स्कन्देदिन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि ॥ १७ ॥
तेन धारयितव्या वै प्राणायामास्तु षोडश ।
दिवा स्कन्नस्य विप्रस्य प्रायश्चित्तं विधीयते ॥ १८ ॥
त्रिरात्रमुपवासाश्च प्राणायामशतं तथा ।
रात्रौ स्कन्नः शुचिः स्नात्वा द्वादशैव तु धारणा ॥ १९ ॥
प्राणायामेन शुद्धात्मा विरजा जायते द्विजाः ।
एकान्नं मधुमांसं वा अशृतान्नं तथैव च ॥ २० ॥
अभोज्यानि यतीनां तु प्रत्यक्षलवणानि च ।
एकैकातिक्रमात्तेषां प्रायश्चित्तं विधीयते ॥ २१ ॥
प्राजापत्येन कृच्छ्रेण ततः पापात् प्रमुच्यते ।
व्यतिक्रमाश्च ये केचिद्वाङ्मनःकायसम्भवाः ॥ २२ ॥
सद्भिः सह विनिश्चित्य यद् ब्रूयुस्तत् समाचरेत् ॥ २३ ॥
चरेद्धि शुद्धः समलोष्टकाञ्चनः समस्तभूतेषु च सत्समाहितः ।
स्थानं ध्रुवं शाश्वतमव्ययं तु परं हि गत्वा न पुनर्हि जायते ॥ २४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे यतिप्रायश्चित्तं नाम नवतितमोऽध्यायः ॥ ९० ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-90

कोई टिप्पणी नहीं:

123