श्रीलिङ्गमहापुराण -[पूर्वभाग] -091

श्रीलिङ्गमहापुराण -[पूर्वभाग] -091
॥ श्रीसाम्बसदाशिवाय नमः ॥
इक्यानबेवाँ अध्याय
आसन्नमृत्युसूचक लक्षण एवं योगसाधना में प्रणव का माहात्म्य तथा शिवोपासना निरूपण
श्रीलिङ्गमहापुराणे पूर्वभागे एकनवतितमोऽध्यायः
अरिष्टकथनं

॥ सूत उवाच ॥
अत ऊर्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत ।
येन ज्ञानविशेषेण मृत्युं पश्यन्ति योगिनः ॥ १ ॥
अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम् ।
यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम् ॥ २ ॥


अरिश्मवन्तमादित्यं रश्मिवन्तं च पावकम् ।
यः पश्यति न जीवेद्वै मासादेकादशात्परम् ॥ ३ ॥
वमेन्मूत्रं पुरीषं च सुवर्णं रजतं तथा ।
प्रत्यक्षमथवा स्वप्ने दशमासान्न जीवति ॥ ४ ॥
रुक्मवर्णं द्रुमं पश्येद्गन्धर्वनगराणि च ।
पश्येत् प्रेतपिशाचांश्च नवमासान् स जीवति ॥ ५ ॥
अकस्माच्च भवेत्स्थूलो ह्यकस्माच्च कृशो भवेत् ।
प्रकृतेश्च निवर्तेत चाष्टौ मासांश्च जीवति ॥ ६ ॥
अग्रतः पृष्ठतो वापि खण्डं यस्य पदं भवेत् ।
पांशुके कर्दमे वापि सप्तमासान् स जीवति ॥ ७ ॥
काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्धनि ।
क्रव्यादो वा खगो यस्य षण्मासान्नातिवर्तते ॥ ८ ॥
गच्छेद्वायसपङ्क्तीभिः पांसुवर्षेण वा पुनः ।
स्वच्छायां विकृतां पश्येच्चतुःपञ्च स जीवति ॥ ९ ॥
अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमास्थिताम् ।
उदके धनुरैन्द्रं वा त्रीणि द्वौ वा स जीवति ॥ १० ॥
अप्सु वा यदि वादर्शे यो ह्यात्मानं न पश्यति ।
अशिरस्कं तथा पश्येन्मासादूर्ध्वं न जीवति ॥ ११ ॥
शवगन्धि भवेद् गात्रं वसागन्धमथापि वा ।
मृत्युर्ह्युपागतस्तस्य अर्धमासान्न जीवति ॥ १२ ॥
यस्य वै स्नातमात्रस्य हृदयं परिशुष्यति ।
धूमं वा मस्तकात् पश्येद्दशाहान्न स जीवति ॥ १३ ॥
सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति ।
अद्भिः स्पृष्टो न हृष्येत तस्य मृत्युरुपस्थितः ॥ १४ ॥
ऋक्षवानरयुक्तेन रथेनाशां च दक्षिणाम् ।
गायन्नृत्यन् व्रजेत्स्वप्ने विद्यान्मृत्युरुपस्थितः ॥ १५ ॥
कृष्णाम्बरधरा श्यामा गायन्ती वाप्यथाङ्गना ।
यं नयेद्दक्षिणामाशां स्वप्ने सोऽपि न जीवति ॥ १६ ॥
छिद्रं वा स्वस्य कण्ठस्य स्वप्ने यो वीक्षते नरः ।
नग्नं वा श्रमणं दृष्ट्वा विद्यान् मृत्युमुपस्थितम् ॥ १७ ॥
आ मस्तकतलाद्यस्तु निमज्जेत् पङ्कसागरे ।
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥ १८ ॥
भस्माङ्गारांश्च केशांश्च नदीं शुष्कां भुजङ्गमान् ।
पश्येद्यो दशरात्रं तु न स जीवति तादृशः ॥ १९ ॥
कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः ।
पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवति ॥ २० ॥
सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवाः ।
क्रोशन्त्यभिमुखं प्रेत्य स गतायुर्भवेन्नरः ॥ २१ ॥
यस्य वा स्नातमात्रस्य हृदयं पीड्यते भृशम् ।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥ २२ ॥
भूयोभूयस्त्रसेद्यस्तु रात्रौ वा यदि वा दिवा ।
दीपगन्धं च नाघ्राति विद्यान्मृत्युमुपस्थितम् ॥ २३ ॥
रात्रौ चेन्द्रधनुः पश्येद्दिवा नक्षत्रमण्डलम् ।
परनेत्रेषु चात्मानं न पश्येन्न स जीवति ॥ २४ ॥
नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः ।
वक्रा च नासा भवति विज्ञेयो गतजीवितः ॥ २५ ॥
यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम् ।
गण्डे वा पिण्डिकारक्ते तस्य मृत्युरुपस्थितः ॥ २६ ॥
मुक्तकेशो हसंश्चैव गायन्नृत्यंश्च यो नरः ।
याम्यामभिमुखं गच्छेत्तदन्तं तस्य जीवितम् ॥ २७ ॥
यस्य श्वेतघनाभासा श्वेतसर्षपसन्निभा ।
श्वेता च मूर्तिर्ह्यसकृत्तस्य मृत्युरुपस्थितः ॥ २८ ॥
उष्ट्रा वा रासभा वाभि युक्ताः स्वप्ने रथे शुभाः ।
यस्य सोऽपि न जीवेत्तु दक्षिणाभिमुखो गतः ॥ २९ ॥
द्वे वाथ परमेऽरिष्टे एकीभूतः परं भवेत् ।
घोषं न शृणुयात्कर्णे ज्योतिर्नेत्रे न पश्यति ॥ ३० ॥
श्वभ्रे यो निपतेत्स्वप्ने द्वारं चापि पिधीयते ।
न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥ ३१ ॥
ऊर्ध्वा च दृष्टिर्न च सम्प्रतिष्ठा रक्ता पुनः सम्परिवर्तमाना ।*
मुखस्य शोषः सुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ॥ ३२ ॥*
दिवा वा यदि वा रात्रौ प्रत्यक्षं यो निहन्यते ।
हन्तारं न च पश्येच्च स गतायुर्न जीवति ॥ ३३ ॥
अग्निप्रवेशं कुरुते स्वप्नान्ते यस्तु मानवः ।
स्मृतिं नोपलभेच्चापि तदन्तं तस्य जीवितम् ॥ ३४ ॥
यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः ।
कृष्णं रक्तमपि स्वप्ने तस्य मृत्युरुपस्थितः ॥ ३५ ॥
अरिष्टे सूचिते देहे तस्मिन् काल उपस्थिते ।
त्यक्त्वा खेदं विषादं च उपेक्षेद् बुद्धिमान्नरः ॥ ३६ ॥
प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्य वै शुचिः ।
समेऽतिस्थावरे देशे विविक्ते जन्तुवर्जिते ॥ ३७ ॥
उदङ्मुखः प्राङ्मुखो वा स्वस्थश्चाचान्त एव च ।
स्वस्तिकेनोपविष्टस्तु नमस्कृत्वा महेश्वरम् ॥ ३८ ॥
समकायशिरोग्रीवो धारयन्नावलोकयेत् ।
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ॥ ३९ ॥
प्रागुदक्प्रवणे देशे तथा युञ्जीत शास्त्रवित् ।
कामं वितर्कं प्रीतिं च सुखदुःखे उभे तथा ॥ ४० ॥
निगृह्य मनसा सर्वं शुक्लं ध्यानमनुस्मरेत् ।
घ्राणे च रसने नित्यं चक्षुषी स्पर्शने तथा ॥ ४१ ॥
श्रोत्रे मनसि बुद्धौ च तत्र वक्षसि धारयेत् ।
कालकर्माणि विज्ञाय समूहेष्वेव नित्यशः ॥ ४२ ॥
द्वादशाध्यात्ममित्येवं योगधारणमुच्यते ।
शतमर्धशतं वापि धारणां मूर्ध्नि धारयेत् ॥ ४३ ॥
खिन्नस्य धारणायोगाद्वायुरूर्ध्वं प्रवर्तते ।
ततश्चापूरयेद्देहमोङ्कारेण समन्वितः ॥ ४४ ॥
तथोङ्कारमयो योगी अक्षरे त्वक्षरी भवेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि ओङ्कारप्राप्तिलक्षणम् ॥ ४५ ॥
एष त्रिमात्रो विज्ञेयो व्यञ्जनं चात्र चेश्वरः ।
प्रथमा विद्युती मात्रा द्वितीया तामसी स्मृता ॥ ४६ ॥
तृतीयां निर्गुणां चैव मात्रामक्षरगामिनीम् ।
गान्धारी चैव विज्ञेया गान्धारस्वरसम्भवा ॥ ४७ ॥
पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते ।
यथा प्रयुक्त ओङ्कारः प्रतिनिर्याति मूर्धनि ॥ ४८ ॥
तथोङ्कारमयो योगी त्वक्षरी त्वक्षरी भवेत् ।
प्रणवो धनुः शरो ह्यात्मा ब्रह्मलक्षणमुच्यते ॥ ४९ ॥
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
ओमित्येकाक्षरं ह्येतद् गुहायां निहितं पदम् ॥ ५० ॥
ओमित्येतत्त्रयो लोकास्त्रयो वेदास्त्रयोऽग्नयः ।
विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च ॥ ५१ ॥
मात्रा चार्धं च तिस्रस्तु विज्ञेयाः परमार्थतः ।
तत् प्रयुक्तस्तु यो योगी तस्य सालोक्यमाप्नुयात् ॥ ५२ ॥
अकारो ह्यक्षरो ज्ञेय उकारः सहितः स्मृतः ।
मकारसहितोङ्कारस्त्रिमात्र इति सञ्ज्ञितः ॥ ५३ ॥
अकारस्त्वेष भूर्लोक उकारो भुव उच्यते ।
सव्यञ्जनो मकारस्तु स्वर्लोक इति गीयते ॥ ५४ ॥
ओङ्कारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम् ।
भुवनाङ्गं च तत्सर्वं ब्राह्मं तत्पदमुच्यते ॥ ५५ ॥
मात्रापादो रुद्रलोको ह्यमात्रं तु शिवं पदम् ।
एवं ज्ञानविशेषेण तत्पदं समुपास्यते ॥ ५६ ॥
तस्माद्ध्यानरतिर्नित्यममात्रं हि तदक्षरम् ।
उपास्यं हि प्रयत्नेन शाश्वतं सुखमिच्छता ॥ ५७ ॥
ह्रस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनन्तरम् ।
ततः प्लुतवती चैव तृतीया चोपदिश्यते ॥ ५८ ॥
एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः ।
यावदेव तु शक्यन्ते धार्यन्ते तावदेव हि ॥ ५९ ॥
इन्द्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा ।
अर्धं तन्मात्रमपि चेच्छृणु यत्फलमाप्नुयात् ॥ ६० ॥
मासे मासेऽश्वमेधेन यो यजेत शतं समाः ।
तेन यत् प्राप्यते पुण्यं मात्रया तदवाप्नुयात् ॥ ६१ ॥
न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः ।
यत्फलं प्राप्यते सम्यङ्मात्रया तदवाप्नुयात् ॥ ६२ ॥
तत्र चैषा तु या मात्रा प्लुता नामोपदिश्यते ।
एषा एव भवेत्कार्या गृहस्थानां तु योगिनाम् ॥ ६३ ॥
एषां चैव विशेषेण ऐश्वर्ये ह्यष्टलक्षणे ।
अणिमाद्ये तु विज्ञेया तस्माद्युञ्जीत तां द्विजाः ॥ ६४ ॥
एवं हि योगसंयुक्तः शुचिर्दान्तो जितेन्द्रियः ।
आत्मानं विद्यते यस्तु स सर्वं विन्दते द्विजाः ॥ ६५ ॥
तस्मात् पाशुपतैर्योगैरात्मानं चिन्तयेद् बुधः ।
आत्मानं जानते ये तु शुचयस्ते न संशयः ॥ ६६ ॥
ऋचो यजूंषि सामानि वेदोपनिषदस्तथा ।
योगज्ञानादवाप्नोति ब्राह्मणोऽध्यात्मचिन्तकः ॥ ६७ ॥
सर्वदेवमयो भूत्वा अभूतः स तु जायते ।
योनिसङ्क्रमणं त्यक्त्वा याति वै शाश्वतं पदम् ॥ ६८ ॥
यथा वृक्षात्फलं पक्वं पवनेन समीरितम् ।
नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति ॥ ६९ ॥
यत्र रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः ।
अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ ७० ॥
तस्मात्त्रिःप्रवणं योगी उपासीत महेश्वरम् ।
दशविस्तारकं ब्रह्म तथा च ब्रह्मविस्तरैः ॥ ७१ ॥
एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजेत् ।
स याति शिवसायुज्यं समुद्धृत्य कुलत्रयम् ॥ ७२ ॥
अथवारिष्टमालोक्य मरणे समुपस्थिते ।
अविमुक्तेश्वरं गत्वा वाराणस्यां तु शोधनम् ॥ ७३ ॥
येन केनापि वा देहं सन्त्यजेन्मुच्यते नरः ।
श्रीपर्वते वा विप्रेन्द्राः सन्त्यजेत्स्वतनुं नरः ॥ ७४ ॥
स याति शिवसायुज्यं नात्र कार्या विचारणा ।
अविमुक्तं परं क्षेत्रं जन्तूनां मुक्तिदं सदा ॥ ७५ ॥
सेवेत सततं धीमान् विशेषान्मरणान्तिके ॥ ७६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे अरिष्टकथनं नाम एकनवतितमोऽध्यायः ॥ ९१ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-91

कोई टिप्पणी नहीं:

123