श्रीलिङ्गमहापुराण -[पूर्वभाग] -088
॥ श्रीसाम्बसदाशिवाय नमः ॥
अट्ठासीवाँ अध्याय
पाशुपतयोग से प्राप्त होने वाली अष्टसिद्धियों का वर्णन तथा प्राणाग्निहोम का स्वरूप
श्रीलिङ्गमहापुराणे पूर्वभागे अष्टाशीतितमोऽध्यायः
अणिमाद्यष्टसिद्धित्रिगुणसंसारप्राग्नौ होमादिवर्णनं<
॥ ऋषय ऊचुः ॥
केन योगेन वै सूत गुणप्राप्तिः सतामिह ।
अणिमादिगुणोपेता भवन्त्येवेह योगिनः ।
तत्सर्वं विस्तरात्सूत वक्तुमर्हसि साम्प्रतम् ॥ १ ॥
॥ सूत उवाच ॥
अत ऊर्ध्वं प्रवक्ष्यामि योगं परमदुर्लभम् ।
पञ्चधा संस्मरेदादौ स्थाप्य चित्ते सनातनम् ॥ २ ॥
कल्पयेच्चासनं पद्मं सोमसूर्याग्निसंयुतम् ।
षड्विंशच्छक्तिसंयुक्तमष्टधा च द्विजोत्तमाः ॥ ३ ॥
ततः षोडशधा चैव पुनर्द्वादशधा द्विजाः ।
स्मरेच्च तत्तथा मध्ये देव्या देवमुमापतिम् ॥ ४ ॥
अष्टशक्तिसमायुक्तमष्टमूर्तिमजं प्रभुम् ।
ताभिश्चाष्टविधा रुद्राश्चतुःषष्टिविधाः पुनः ॥ ५ ॥
शक्तयश्च तथा सर्वा गुणाष्टकसमन्विताः ।
एवं स्मरेत्क्रमेणैव लब्ध्वा ज्ञानमनुत्तमम् ॥ ६ ॥
एवं पाशुपतं योगं मोक्षसिद्धिप्रदायकम् ।
तस्याणिमादयो विप्रा नान्यथा कर्मकोटिभिः ॥ ७ ॥
तत्राष्टगुणमैश्वर्यं योगिनां समुदाहृतम् ।
तत्सर्वं क्रमयोगेन ह्युच्यमानं निबोधत ॥ ८ ॥
अणिमा लघिमा चैव महिमा प्राप्तिरेव च ।
प्राकाम्यं चैव सर्वत्र ईशित्वं चैव सर्वतः ॥ ९ ॥
वशित्वमथ सर्वत्र यत्र कामावसायिता ।
तच्चापि त्रिविधं ज्ञेयमैश्वर्यं सार्वकामिकम् ॥ १० ॥
सावद्यं निरवद्यं च सूक्ष्मं चैव प्रवर्तते ।
सावद्यं नाम यत्तत्र पञ्चभूतात्मकं स्मृतम् ॥ ११ ॥
इन्द्रियाणि मनश्चैव अहङ्कारश्च यः स्मृतः ।
तत्र सूक्ष्मप्रवृत्तिस्तु पञ्चभूतात्मिका पुनः ॥ १२ ॥
इन्द्रियाणि मनश्चित्त बुद्ध्यहङ्कारसञ्ज्ञितम् ।
तथा सर्वमयं चैव आत्मस्था ख्यातिरेव च ॥ १३ ॥
संयोग एव त्रिविधः सूक्ष्मेष्वेव प्रवर्तते ।
पुनरष्टगुणश्चापि सूक्ष्मेष्वेव विधीयते ॥ १४ ॥
तस्य रूपं प्रवक्ष्यामि यथाह भगवान् प्रभुः ।
त्रैलोक्ये सर्वभूतेषु यथास्य नियमः स्मृतः ॥ १५ ॥
अणिमाद्यं तथाव्यक्तं सर्वत्रैव प्रतिष्ठितम् ।
त्रैलोक्ये सर्वभूतानां दुष्प्राप्यं समुदाहृतम् ॥ १६ ॥
तत्तस्य भवति प्राप्यं प्रथमं योगिनां बलम् ।
लङ्घनं प्लवनं लोके रूपमस्य सदा भवेत् ॥ १७ ॥
शीघ्रत्वं सर्वभूतेषु द्वितीयं तु पदं स्मृतम् ।
त्रैलोक्ये सर्वभूतानां महिम्ना चैव वन्दितम् ॥ १८ ॥
महित्वं चापि लोकेऽस्मिंस्तृतीयो योग उच्यते ।
त्रैलोक्ये सर्वभूतेषु यथेष्टगमनं स्मृतम् ॥ १९ ॥
प्राकामान् विषयान् भुङ्क्ते तथाप्रतिहतः क्वचित् ।
त्रैलोक्ये सर्वभूतानां सुखदुःखं प्रवर्तते ॥ २० ॥
ईशो भवति सर्वत्र प्रविभागेन योगवित् ।
वश्यानि चास्य भूतानि त्रैलोक्ये सचराचरे ॥ २१ ॥
इच्छया तस्य रूपाणि भवन्ति न भवन्ति च ।
यत्र कामावसायित्वं त्रैलोक्ये सचराचरे ॥ २२ ॥
शब्दः स्पर्शो रसो गन्धो रूपं चैव मनस्तथा ।
प्रवर्तन्तेऽस्य चेच्छातो न भवन्ति यथेच्छया ॥ २३ ॥
न जायते न म्रियते छिद्यते न च भिद्यते ।
न दह्यते न मुह्येत लीयते न च लिप्यते ॥ २४ ॥
न क्षीयते न क्षरति खिद्यते न कदाचन ।
क्रियते वा न सर्वत्र तथा विक्रियते न च ॥ २५ ॥
अगन्धरसरूपस्तु अस्पर्शः शब्दवर्जितः ।
अवर्णो ह्यस्वरश्चैव असवर्णस्तु कर्हिचित् ॥ २६ ॥
स भुङ्क्ते विषयांश्चैव विषयैर्न च युज्यते ।
अणुत्वात्तु परः सूक्ष्मः सूक्ष्मत्वादपवर्गिकः ॥ २७ ॥
व्यापकस्त्वपवर्गाच्च व्यापकात्पुरुषः स्मृतः ।
पुरुषः सूक्ष्मभावात्तु ऐश्वर्ये परमे स्थितः ॥ २८ ॥
गुणोत्तरमथैश्वर्ये सर्वतः सूक्ष्ममुच्यते ।
ऐश्वर्यं चाप्रतीघातं प्राप्य योगमनुत्तमम् ॥ २९ ॥
अपवर्गं ततो गच्छेत्सूक्ष्मं तत्परमं पदम् ।
एवं पाशुपतं योगं ज्ञातव्यं मुनिपुङ्गवाः ॥ ३० ॥
स्वर्गापवर्गफलदं शिवसायुज्यकारणम् ।
अथवा गतविज्ञानो रागात्कर्म समाचरेत् ॥ ३१ ॥
राजसं तामसं वापि भुक्त्वा तत्रैव मुच्यते ।
तथा सुकृतकर्मा तु फलं स्वर्गे समश्नुते ॥ ३२ ॥
तस्मात्स्थानात्पुनः श्रेष्ठो मानुष्यमुपपद्यते ।
तस्माद् ब्रह्म परं सौख्यं ब्रह्म शाश्वतमुत्तमम् ॥ ३३ ॥
ब्रह्म एव हि सेवेत ब्रह्मैव हि परं सुखम् ।
परिश्रमो हि यज्ञानां महतार्थेन वर्तते ॥ ३४ ॥
भूयो मृत्युवशं याति तस्मान्मोक्षः परं सुखम् ।
अथवा ध्यानसंयुक्तो ब्रह्मतत्त्वपरायणः ॥ ३५ ॥
न तु च्यावयितुं शक्यो मन्वन्तरशतैरपि ।
दृष्ट्वा तु पुरुषं दिव्यं विश्वाख्यं विश्वतोमुखम् ॥ ३६ ॥
विश्वपादशिरोग्रीवं विश्वेशं विश्वरूपिणम् ।
विश्वगन्धं विश्वमाल्यं विश्वांबरधरं प्रभुम् ॥ ३७ ॥
गोभिर्महीं सम्पतते पतत्त्रिणो नैवं भूयो जनयत्येवमेव ।
कविं पुराणमनुशासितारं सूक्ष्माच्च सूक्ष्मं महतो महान्तम् ॥ ३८ ॥
योगेन पश्येन्न च चक्षुषा पुनर्निरिन्द्रियं पुरुषं रुक्मवर्णम् ।
अलिङ्गिनं निर्गुणं चेतनं च नित्यं सदा सर्वगं सर्वसारम् ॥ ३९ ॥
पश्यन्ति युक्त्या ह्यचलप्रकाशं तद्भावितास्तेजसा दीप्यमानम् ।*
अपाणिपादोदरपार्श्वजिह्वो ह्यतीन्द्रियो वापि सुसूक्ष्म एकः ॥ ४० ॥*
पश्यत्यचक्षुः स शृणोत्यकर्णो न चास्त्यबुद्धं न च बुद्धिरस्ति ।*
स वेद सर्वं न च सर्ववेद्यं तमाहुरग्र्यं पुरुषं महान्तम् ॥ ४१ ॥*
अचेतनां सर्वगतां सूक्ष्मां प्रसवधर्मिणीम् ।
प्रकृतिं सर्वभूतानां युक्ताः पश्यन्ति योगिनः ॥ ४२ ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ४३ ॥
युक्तो योगेन चेशानं सर्वतश्च सनातनम् ।
पुरुषं सर्वभूतानां तं विद्वान्न विमुह्यति ॥ ४४ ॥
भूतात्मानं महात्मानं परमात्मानमव्ययम् ।
सर्वात्मानं परं ब्रह्म तद्वै ध्याता न मुह्यति ॥ ४५ ॥
पवनो हि यथा ग्राह्यो विचरन् सर्वमूर्तिषु ।
पुरि शेते सुदुर्ग्राह्यस्तस्मात्पुरुष उच्यते ॥ ४६ ॥
अथ चेल्लुप्तधर्मा तु सावशेषैः स्वकर्मभिः ।
ततस्तु ब्रह्मगर्भे वै शुक्रशोणितसंयुते ॥ ४७ ॥
स्त्रीपुंसोः सम्प्रयोगे हि जायते हि ततः प्रभुः ।
ततस्तु गर्भकालेन कललं नाम जायते ॥ ४८ ॥
कालेन कललं चापि बुद्बुदं सम्प्रजायते ।
मृत्पिण्डस्तु यथा चक्रे चक्रावर्तेन पीडितः ॥ ४९ ॥
हस्ताभ्यां क्रियमाणस्तु बिम्बत्वमनुगच्छति ।
एवमाध्यात्मिकैर्युक्ता वायुना सम्प्रपूरितः ॥ ५० ॥
यदि योनिं विमुञ्चामि तत् प्रपद्ये महेश्वरम् ।
यावद्धि वैष्णवो वायुर्जातमात्रं न संस्पृशेत् ॥ ५१ ॥
तावत्कालं महादेवमर्चयामीति चिन्तयेत् ।
जायते मानुषस्तत्र यथारूपं यथावयः ॥ ५२ ॥
वायुः सम्भवते खात्तु वाताद्भवति वै जलम् ।
जलात्सम्भवति प्राणः प्राणाच्छुक्रं विवर्धते ॥ ५३ ॥
रक्तभागास्त्रयस्त्रिंशद्रेतोभागाश्चतुर्दश ।
भागतोऽर्धफलं कृत्वा ततो गर्भो निषिच्यते ॥ ५४ ॥
ततस्तु गर्भसंयुक्तः पञ्चभिर्वायुभिर्वृतः ।
पितुः शरीरात् प्रत्यङ्गं रूपमस्योपजायते ॥ ५५ ॥
ततोऽस्य मातुराहारात्पीतलीढप्रवेशनात् ।
नाभिदेशेन वै प्राणास्ते ह्याधारा हि देहिनाम् ॥ ५६ ॥
नवमासात्परिक्लिष्टः संवेष्टितशिरोधरः ।
वेष्टितः सर्वगात्रैश्च अपर्याप्तप्रवेशनः ॥ ५७ ॥
नवमासोषितश्चापि योनिच्छिद्रादवाङ्मुखः ।
ततः स्वकर्मभिः पापैर्निरयं सम्प्रपद्यते ॥ ५८ ॥
असिपत्रवनं चैव शाल्मलिच्छेदनं तथा ।
ताडनं भक्षणं चैव पूयशोणितभक्षणम् ॥ ५९ ॥
यथा ह्यापस्तु संछिन्नाः संश्लेष्ममुपयान्ति वै ।
तथा छिन्नाश्च भिन्नाश्च यातनास्थानमागताः ॥ ६० ॥
एवं जीवास्तु तैः पापैस्तप्यमानाः स्वयंकृतैः ।
प्राप्नुयुः कर्मभिः शेषैर्दुःखं वा यदि वेतरत् ॥ ६१ ॥
एकेनैव तु गन्तव्यं सर्वमुत्सृज्य वै जनम् ।
एकेनैव तु भोक्तव्यं तस्मात्सुकृतमाचरेत् ॥ ६२ ॥
न ह्येनं प्रस्थितं कश्चिद्गच्छन्तमनुगच्छति ।
यदनेन कृतं कर्म तदेनमनुगच्छति ॥ ६३ ॥
ते नित्यं यमविषयेषु सम्प्रवृत्ताः क्रोशन्तः सततमनिष्टसम्प्रयोगैः ।
शुष्यन्ते परिगतवेदनाः शरीरा बह्वीभिः सुभृशमनन्तयातनाभिः ॥ ६४ ॥
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदभ्यासो हरत्येनं तस्मात् कल्याणमाचरेत् ॥ ६५ ॥
अनादिमान् प्रबन्धः स्यात्प पूर्वकर्मणि देहिनः ।
संसारं तामसं घोरं षड्विधं प्रतिपद्यते ॥ ६६ ॥
मानुष्यात् पशुभावश्च पशुभावान् मृगो भवेत् ।
मृगत्वात् पक्षिभावश्च तस्माच्चैव सरीसृपः ॥ ६७ ॥
सरीसृपत्वाद् गच्छेद्वै स्थावरत्वं न संशयः ।
स्थावरत्वे पुनः प्राप्ते यावदुन्मिलते जनः ॥ ६८ ॥
कुलालचक्रवद्भ्रान्तस्तत्रैव परिवर्तते ।
इत्येवं हि मनुष्यादिः संसारः स्थावरान्तिकः ॥ ६९ ॥
विज्ञेयस्तामसो नाम तत्रैव परिवर्तते ।
सात्त्विकश्चापि संसारो ब्रह्मादिः परिकीर्तितः ॥ ७० ॥
पिशाचान्तः स विज्ञेयः स्वर्गस्थानेषु देहिनाम् ।
ब्राह्मे तु केवलं सत्त्वं स्थावरे केवलं तमः ॥ ७१ ॥
चतुर्दशानां स्थानानां मध्ये विष्टम्भकं रजः ।
मर्मसु छिद्यमानेषु वेदनार्तस्य देहिनः ॥ ७२ ॥
ततस्तत्परमं ब्रह्म कथं विप्रः स्मरिष्यति ।
संसारः पूर्वधर्मस्य भावनाभिः प्रणोदितः ॥ ७३ ॥
मानुषं भजते नित्यं तस्माद्ध्यानं समाचरेत् ।
चतुर्दशविधं ह्येतद्बुद्ध्वा संसारमण्डलम् ॥ ७४ ॥
नित्यं समारभेद्धर्मं संसारभयपीडितः ।
ततस्तरति संसारं क्रमेण परिवर्तितः ॥ ७५ ॥
तस्माच्च सततं युक्तो ध्यानतत्परयुञ्जकः ।
तथा समारभेद्योगं यथात्मानं स पश्यति ॥ ७६ ॥
एष आपः परं ज्योतिरेष सेतुरनुत्तमः ।
विवृत्या ह्येष सम्भेदाद्भूतानां चैव शाश्वतः ॥ ७७ ॥
तदेनं सेतुमात्मानमग्निं वै विश्वतोमुखम् ।
हृदिस्थं सर्वभूतानामुपासीत महेश्वरम् ॥ ७८ ॥
तथान्तः संस्थितं देवं स्वशक्त्या परिमण्डितम् ।
अष्टधा चाष्टधा चैव तथा चाष्टविधेन च ॥ ७९ ॥
सृष्ट्यर्थं संस्थितं वह्निं सङ्क्षिप्य च हृदि स्थितम् ।
ध्यात्वा यथावद्देवेशं रुद्रं भुवननायकम् ॥ ८० ॥
हुत्वा पञ्चाहुतीः सम्यक् तच्चिन्तागतमानसः ।
वैश्वानरं हृदिस्थं तु यथावदनुपूर्वशः ॥ ८१ ॥
आपः पूताः सकृत् प्राश्य तूष्णीं हुत्वा ह्युपाविशन् ।
प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता ॥ ८२ ॥
अपानाय द्वितीया च व्यानायेति तथा परा ।
उदानाय चतुर्थी स्यात् समानायेति पञ्चमी ॥ ८३ ॥
स्वाहाकारैः पृथग् हुत्वा शेषं भुञ्जीत कामतः ।
अपः पुनः सकृत् प्राश्य आचम्य हृदयं स्पृशेत् ॥ ८४ ॥
प्राणानां ग्रन्थिरस्यात्मा रुद्रो ह्यात्मा विशान्तकः ।
रुद्रो वै ह्यात्मनः प्राण एवमाप्याययेत्स्वयम् ॥ ८५ ॥
प्राणे निविष्टो वै रुद्रस्तस्मात् प्राणमयः स्वयम् ।
प्राणाय चैव रुद्राय जुहोत्यमृतमुत्तमम् ॥ ८६ ॥
शिवाविशेह मामीश स्वाहा ब्रह्मात्मने स्वयम् ।
एवं पञ्चाहुतीश्चैव प्रभुः प्रीणातु शाश्वतः ॥ ८७ ॥
पुरुषोऽसि पुरे शेषे त्वं अङ्गुष्ठप्रमाणतः ।
आश्रितश्चैव चाङ्गुष्ठमीशः परमकारणम् ॥ ८८ ॥
सर्वस्य जगतश्चैव प्रभुः प्रीणातु शाश्वतः ।
त्वं देवानामसि ज्येष्ठो रुद्रस्त्वं च पुरो वृषा ॥ ८९ ॥
मृदुस्त्वमन्नमस्मभ्यमेतदस्तु हुतं तव ।
इत्येवं कथितं सर्वं गुणप्राप्तिविशेषतः ॥ ९० ॥
योगाचारः स्वयं तेन ब्रह्मणा कथितः पुरा ।
एवं पाशुपतं ज्ञानं ज्ञातव्यं च प्रयत्नतः ॥ ९१ ॥
भस्मस्नायी भवेन्नित्यं भस्मलिप्तः सदा भवेत् ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ ९२ ॥
दैवे कर्मणि पित्र्ये वा स याति परमां गतिम् ॥ ९३ ॥
॥ इति श्रीलिङ्गमहापुराणे
पूर्वभागेऽणिमाद्यष्टसिद्धित्रिगुणसंसारप्राग्नौ होमादिवर्णनं
नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें