श्रीलिङ्गमहापुराण -[पूर्वभाग] -089

श्रीलिङ्गमहापुराण -[पूर्वभाग] -089
॥ श्रीसाम्बसदाशिवाय नमः ॥
नवासीवाँ अध्याय
सदाचार तथा शौचाचार का निरूपण, द्रव्यशुद्धि, अशौचप्रवृत्ति एवं स्त्रीधर्म विवेचन
श्रीलिङ्गमहापुराणे पूर्वभागे एकोननवतितमोऽध्यायः
सदाचार कथनं

॥ सूत उवाच ॥
अत ऊर्ध्वं प्रवक्ष्यामि शौचाचारस्य लक्षणम् ।
यदनुष्ठाय शुद्धात्मा परेत्य गतिमाप्नुयात् ॥ १ ॥
ब्रह्मणा कथितं पूर्वं सर्वभूतहिताय वै ।
सङ्क्षेपात् सर्ववेदार्थं सञ्चयं ब्रह्मवादिनाम् ॥ २ ॥


उदयार्थं तु शौचानां मुनीनामुत्तमं पदम् ।
यस्तत्राथाप्रमत्तः स्यात्स मुनिर्नावसीदति ॥ ३ ॥
मानावमानौ द्वावेतौ तावेवाहुर्विषामृते ।
अवमानोऽमृतं तत्र सन्मानो विषमुच्यते ॥ ४ ॥
गुरोरपि हिते युक्तः स तु संवत्सरं वसेत् ।
नियमेष्वप्रमत्तस्तु यमेषु च सदा भवेत् ॥ ५ ॥
प्राप्यानुज्ञां ततश्चैव ज्ञानयोगमनुत्तमम् ।
अविरोधेन धर्मस्य चरेत पृथिवीमिमाम् ॥ ६ ॥
चक्षुःपूतं चरेन्मार्गं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥ ७ ॥
मत्स्यगृह्यस्य यत्पापं षण्मासाभ्यन्तरे भवेत् ।
एकाहं तत्समं ज्ञेयमपूतं यज्जलं भवेत् ॥ ८ ॥
अपूतोदकपाने तु जपेच्च शतपञ्चकम् ।
अघोरलक्षणं मन्त्रं ततः शुद्धिमवाप्नुयात् ॥ ९ ॥
अथवा पूजयेच्छम्भुं घृतस्नानादिविस्तरैः ।
त्रिधा प्रदक्षिणीकृत्य शुद्ध्यते नात्र संशयः ॥ १० ॥
आतिथ्यश्राद्धयज्ञेषु न गच्छेद्योगवित्क्वचित् ।
एवं ह्यहिंसको योगी भवेदिति विचारितम् ॥ ११ ॥
वह्नौ विधूमेऽत्यङ्गारे सर्वस्मिन्भुक्तवज्जने ।
चरेत्तु मतिमान् भैक्ष्यं न तु तेष्वेव नित्यशः ॥ १२ ॥
अथैनमवमन्यन्ते परे परिभवन्ति च ।
तथा युक्तं चरेद्भैक्ष्यं सतां धर्ममदूषयन् ॥ १३ ॥
भैक्ष्यं चरेद्वनस्थेषु यायावरगृहेषु च ।
श्रेष्ठा तु प्रथमा हीयं वृत्तिरस्योपजायते ॥ १४ ॥
अत ऊर्ध्वं गृहस्थेषु शीलीनेषु चरेद् द्विजाः ।
श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ १५ ॥
अत ऊर्ध्वं पुनश्चापि अदुष्टापतितेषु च ।
भैक्ष्यचर्या हि वर्णेषु जघन्या वृत्तिरुच्यते ॥ १६ ॥
भैक्ष्यं यवागूस्तक्रं वा पयो यावकमेव च ।
फलमूलादि पक्वं वा कणपिण्याकसक्तवः ॥ १७ ॥
इत्येव ते मया प्रोक्ता योगिनां सिद्धिवर्द्धनाः ।
आहारास्तेषु सिद्धेषु श्रेष्ठं भैक्ष्यमिति स्मृतम् ॥ १८ ॥
अब्बिन्दुं यः कुशाग्रेण मासि मासि समश्नुते ।
न्यायतो यश्चरेद्भैक्ष्यं पूर्वोक्तात्स विशिष्यते ॥ १९ ॥
जरामरणगर्भेभ्यो भीतस्य नरकादिषु ।
एवं दाययते तस्मात्तद्भैक्ष्यमिति संस्मृतम् ॥ २० ॥
दधिभक्षाः पयोभक्षा ये चान्ये जीवक्षीणकाः ।
सर्वे ते भैक्ष्यभक्षस्य कलां नार्हन्ति षोडशीम् ॥ २१ ॥
भस्मशायी भवेन्नित्यं भिक्षाचारी जितेन्द्रियः ।
य इच्छेत् परमं स्थानं व्रतं पाशुपतं चरेत् ॥ २२ ॥
योगिनां चैव सर्वेषां श्रेष्ठं चान्द्रायणं भवेत् ।
एकं द्वे त्रीणि चत्वारि शक्तितो वा समाचरेत् ॥ २३ ॥
अस्तेयं ब्रह्मचर्यं च अलोभस्त्याग एव च ।
व्रतानि पञ्च भिक्षूणामहिंसा परमा त्विह ॥ २४ ॥
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
नित्यं स्वाध्याय इत्येते नियमाः परिकीर्तिताः ॥ २५ ॥
बीजयोनिगुणा वस्तु बन्धः कर्मभिरेव च ।
यथा द्विप इवारण्ये मनुष्याणां विधीयते ॥ २६ ॥
देवैस्तुल्याः सर्वयज्ञक्रियास्तु यज्ञाज्जाप्यं ज्ञानमाहुश्च जाप्यात् ।
ज्ञानाद्ध्यानं सङ्गरागादपेतं तस्मिन् प्राप्ते शाश्वतस्योपलम्भः ॥ २७ ॥
दमः शमः सत्यमकल्मषत्वं मौनं च भूतेष्वखिलेषु चार्जवम् ।
अतीन्द्रियं ज्ञानमिदं तथा शिवं प्राहुस्तथा ज्ञानविशुद्धबुद्धयः ॥ २८ ॥
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकान्तरतिर्जितेन्द्रियः ।*
समाप्नुयाद्योगमिमं महात्मा महर्षयश्चैवमनिन्दितामलाः ॥ २९ ॥*
प्राप्यतेऽभिमतान् देशानङ्कुशेन निवारितः ।
एतन्मार्गेण शुद्धेन दग्धबीजो ह्यकल्मषः ॥ ३० ॥
सदाचाररताः शान्ताः स्वधर्मपरिपालकाः ।
सर्वाम् लोकान् विनिर्जित्य ब्रह्मलोकं व्रजन्ति ते ॥ ३१ ॥
पितामहेनोपदिष्टो धर्मः साक्षात् सनातनः ।
सर्वलोकोपकारार्थं शृणुध्वं प्रवदामि वः ॥ ३२ ॥
गुरूपदेशयुक्तानां वृद्धानां क्रमवर्त्तिनाम् ।
अभ्युत्थानादिकं सर्वं प्रणामं चैव कारयेत् ॥ ३३ ॥
अष्टाङ्गप्रणिपातेन त्रिधा न्यस्तेन सुव्रताः ।
त्रिःप्रदक्षिणयोगेन वन्द्यो वै ब्रह्मणो गुरुः ॥ ३४ ॥
ज्येष्ठान्येऽपि च ते सर्वे वन्दनीया विजानता ।
आज्ञाभङ्गं न कुर्वीत यदीच्छेत्सिद्धिमुत्तमाम् ॥ ३५ ॥
धातुशून्यबिलक्षेत्र क्षुद्रमन्त्रोपजीवनम् ।
विषग्रहविडम्बादीन् वर्जयेत् सर्वयत्नतः ॥ ३६ ॥
कैतवं वित्तशाठ्यं च पैशुन्यं वर्जयेत् सदा ।
अतिहासमवष्टम्भं लीलास्वेच्छाप्रवर्तनम् ॥ ३७ ॥
वर्जयेत् सर्वयत्नेन गुरूणामपि सन्निधौ ।
तद्वाक्यप्रतिकूलं च अयुक्तं वै गुरोर्वचः ॥ ३८ ॥
न वदेत् सर्वयत्नेन अनिष्टं न स्मरेत् सदा ।
यतीनामासनं वस्त्रं दण्डाद्यं पादुके तथा ॥ ३९ ॥
माल्यं च शयनस्थानं पात्रं छायां च यत्नतः ।
यज्ञोपकरणाङ्गं च न स्पृशेद्वै पदेन च ॥ ४० ॥
देवद्रोहं गुरुद्रोहं न कुर्यात् सर्वयत्नतः ।
कृत्वा प्रमादतो विप्राः प्रणवस्यायुतं जपेत् ॥ ४१ ॥
देवद्रोहगुरुद्रोहात् कोटिमात्रेण शुद्ध्यति ।
महापातकशुद्ध्यर्थं तथैव च यथाविधि ॥ ४२ ॥
पातकी च तदर्धेन शुद्ध्यते वृत्तवान्यदि ।
उपपातकिनः सर्वे तदर्धेनैव सुव्रताः ॥ ४३ ॥
सन्ध्यालोपे कृते विप्रः त्रिरावृत्त्यैव शुद्ध्यति ।
आह्निकच्छेदने जाते शतमेकमुदाहृतम् ॥ ४४ ॥
लङ्घने समयानां तु अभक्ष्यस्य च भक्षणे ।
अवाच्यवाचने चैव सहस्राच्छुद्धिरुच्यते ॥ ४५ ॥
काकोलूककपोतानां पक्षिणामपि घातने ।
शतमष्टोत्तरं जप्त्वा मुच्यते नात्र संशयः ॥ ४६ ॥
यः पुनस्तत्त्ववेत्ता च ब्रह्मविद् ब्राह्मणोत्तमः ।
स्मरणाच्छुद्धिमाप्नोति नात्र कार्या विचारणा ॥ ४७ ॥
नैवमात्मविदामस्ति प्रायश्चित्तानि चोदना ।
विश्वस्यैव हि ते शुद्धा ब्रह्मविद्याविदो जनाः ॥ ४८ ॥
योगध्यानैकनिष्ठाश्च निर्लेपाः काञ्चनं यथा ।
शुद्धानां शोधनं नास्ति विशुद्धा ब्रह्मविद्यया ॥ ४९ ॥
उद्धृतानुष्णफेनाभिः पूताभिर्वस्त्रचक्षुषा ।
अद्भिः समाचरेत् सर्वं वर्जयेत् कलुषोदकम् ॥ ५० ॥
गन्धवर्णरसैर्दुष्टमशुचिस्थानसंस्थितम् ।
पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकम् ॥ ५१ ॥
सशैवालं तथान्यैर्वा दोषैर्दुष्टं विवर्जयेत् ।
वस्त्रशौचान्वितः कुर्यात् सर्वकार्याणि वै द्विजाः ॥ ५२ ॥
नमस्कारादिकं सर्वं गुरुशुश्रूषणादिकम् ।
वस्त्रशौचविहीनात्मा ह्यशुचिर्नात्र संशयः ॥ ५३ ॥
देवकार्योपयुक्तानां प्रत्यहं शौचमिष्यते ।
इतरेषां हि वस्त्राणां शौचं कार्यं मलागमे ॥ ५४ ॥
वर्जयेत् सर्वयत्नेन वासोऽन्यैर्विधृतं द्विजाः ।
कौशेयाविकयो रूक्षैः क्षौमाणां गौरसर्षपैः ॥ ५५ ॥
श्रीफलैरंशुपट्टानां कुतपानामरिष्टकैः ।
चर्मणां विदलानां च वेत्राणां वस्त्रवन्मतम् ॥ ५६ ॥
वल्कलानां तु सर्वेषां छत्रचामरयोरपि ।
चैलवच्छौचमाख्यातं ब्रह्मविद्भिर्मुनीश्वरैः ॥ ५७ ॥
भस्मना शुद्ध्यते कांस्यं क्षारेणायसमुच्यते ।
ताम्रमम्लेन वै विप्रास्त्रपुसीसकयोरपि ॥ ५८ ॥
हैममद्भिः शुभं पात्रं रौप्यपात्रं द्विजोत्तमाः ।
मण्यश्मशङ्खमुक्तानां शौचं तैजसवत्स्मृतम् ॥ ५९ ॥
अग्नेरपां च संयोगादत्यन्तोपहतस्य च ।
रसानामिह सर्वेषां शुद्धिरुत्प्लवनं स्मृतम् ॥ ६० ॥
तृणकाष्ठादिवस्तूनां शुभेनाभ्युक्षणं स्मृतम् ।
उष्णेन वारिणा शुद्धिस्तथा स्रुक्स्रुवयोरपि ॥ ६१ ॥
तथैव यज्ञपात्राणां मुशलोलूखलस्य च ।
शृङ्गास्थिदारुदन्तानां तक्षणेनैव शोधनम् ॥ ६२ ॥
संहतानां महाभागा द्रव्याणां प्रोक्षणं स्मृतम् ।
असंहतानां द्रव्याणां प्रत्येकं शौचमुच्यते ॥ ६३ ॥
अभुक्तराशिधान्यानामेकदेशस्य दूषणे ।
तावन्मात्रं समुद्धृत्य प्रोक्षयेद्वै कुशाम्भसा ॥ ६४ ॥
शाकमूलफलादीनां धान्यवच्छुद्धिरिष्यते ।
मार्जनोन्मार्जनैर्वेश्म पुनःपाकेन मृन्मयम् ॥ ६५ ॥
उल्लेखनेनाञ्जनेन तथा सम्मार्जनेन च ।
गोनिवासेन वै शुद्धा सेचनेन धरा स्मृता ॥ ६६ ॥
भूमिस्थमुदकं शुद्धं वैतृष्ण्यं यत्र गौर्व्रजेत् ।
अव्याप्तं यदमेध्येन गन्धवर्णरसान्वितम् ॥ ६७ ॥
वत्सः शुचिः प्रस्रवणे शकुनिः फलपातने ।
स्वदारास्यं गृहस्थानां रतौ भार्याभिकाङ्क्षया ॥ ६८ ॥
हस्ताभ्यां क्षालितं वस्त्रं कारुणा च यथाविधि ।
कुशांबुना सुसम्प्रोक्ष्य गृह्णीयाद्धर्मवित्तमः ॥ ६९ ॥
पण्यं प्रसारितं चैव वर्णाश्रमविभागशः ।
शुचिराकरजं तेषां श्वा मृगग्रहणे शुचिः ॥ ७० ॥
छाया च विप्लुषो विप्रा मक्षिकाद्या द्विजोत्तमाः ।
रजो भूर्वायुरग्निश्च मेध्यानि स्पर्शने सदा ॥ ७१ ॥
सुप्त्वा भुक्त्वा च वै विप्राः क्षुत्त्वा पीत्वा च वै तथा ।
ष्ठीवित्वाध्ययनादौ च शुचिरप्याचमेत्पुनः ॥ ७२ ॥
पादौ स्पृशन्ति ये चापि पराचमनबिन्दवः ।
ते पार्थिवैः समा ज्ञेया न तैरप्रयतो भवेत् ॥ ७३ ॥
कृत्वा च मैथुनं स्पृष्ट्वा पतितं कुक्कुटादिकम् ।
सूकरं चैव काकादि श्वानमुष्ट्रं खरं तथा ॥ ७४ ॥
यूपं चाण्डालकाद्यांश्च स्पृष्ट्वा स्नानेन शुद्ध्यति ।
रजस्वलां सूतिकां च न स्पृशेदन्त्यजामपि ॥ ७५ ॥
सूतिकाशौचसंयुक्तः शावाशौचसमन्वितः ।
संस्पृशेन्न रजस्तासां स्पृष्ट्वा स्नात्वैव शुद्ध्यति ॥ ७६ ॥
नैवाशौचं यतीनां च वनस्थब्रह्मचारिणाम् ।
नैष्ठिकानां नृपाणां च मण्डलीनां च सुव्रताः ॥ ७७ ॥
ततः कार्यविरोधाद्धि नृपाणां नान्यथा भवेत् ।
वैखानसानां विप्राणां पतितानामसम्भवात् ॥ ७८ ॥
असञ्चयाद् द्विजानां च स्नानमात्रेण नान्यथा ।
तथा सन्निहितानां च यज्ञार्थं दीक्षितस्य च ॥ ७९ ॥
एकाहाद्यज्ञयाजिनां शुद्धिरुक्ता स्वयम्भुवा ।
ततस्त्वधीतशाखानां चतुर्भिः सर्वदेहिनाम् ॥ ८० ॥
सूतकं प्रेतकं नास्ति त्र्यहादूर्ध्वममुत्र वै ।
अर्वागेकादशाहान्तं बान्धवानां द्विजोत्तमाः ॥ ८१ ॥
स्नानमात्रेण वै शुद्धिर्मरणे समुपस्थिते ।
तत ऋतुत्रयादर्वागेकाहः परिगीयते ॥ ८२ ॥
सप्तवर्षात्ततश्चार्वाक्त्रिरात्रं हि ततः परम् ।
दशाहं ब्राह्मणानां वै प्रथमेऽहनि वा पितुः ॥ ८३ ॥
दशाहं सूतिकाशौचं मातुरप्येवमव्ययाः ।
अर्वाक्त्रिवर्षात्स्नानेन बान्धवानां पितुः सदा ॥ ८४ ॥
अष्टाब्दादेकरात्रेण शुद्धिः स्याद् बान्धवस्य तु ।
द्वादशाब्दात्ततश्चार्वाक्त्रिरात्रं स्त्रीषु सुव्रताः ॥ ८५ ॥
सपिण्डता च पुरुषे सप्तमे विनिवर्तते ।
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥ ८६ ॥
ततः सन्निहितो विप्रश्चार्वाक् पूर्वं तदेव वै ।
संवत्सरे व्यतीते तु स्नानमात्रेण शुद्ध्यति ॥ ८७ ॥
स्पृष्ट्वा प्रेतं त्रिरात्रेण धर्मार्थं स्नानमुच्यते ।
दाहकानां च नेतॄणां स्नानमात्रमबान्धवे ॥ ८८ ॥
अनुगम्य च वै स्नात्वा घृतं प्राश्य विशुद्ध्यति ।
आचार्यमरणे चैव त्रिरात्रं श्रोत्रिये मृते ॥ ८९ ॥
पक्षिणी मातुलानां च सोदराणां च वा द्विजाः ।
भूपानां मण्डलीनां च सद्यो नीराष्ट्रवासिनाम् ॥ ९० ॥
केवलं द्वादशाहेन क्षत्रियाणां द्विजोत्तमाः ।
नाभिषिक्तस्य चाशौचं सम्प्रमादेषु वै रणे ॥ ९१ ॥
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ।
इति सङ्क्षेपतः प्रोक्ता द्रव्यशुद्धिरनुत्तमा ॥ ९२ ॥
अशौचं चानुपूर्व्येण यतीनां नैव विद्यते ।
त्रेताप्रभृति नारीणां मासि मास्यार्तवं द्विजाः ॥ ९३ ॥
कृते सकृद्युगवशाज्जायन्ते वै सहैव तु ।
प्रयान्ति च महाभागा भार्याभिः कुरवो यथा ॥ ९४ ॥
वर्णाश्रमव्यवस्था च त्रेताप्रभृति सुव्रताः ।
भारते दक्षिणे वर्षे व्यवस्था नेतरेष्वथ ॥ ९५ ॥
महावीते सुवीते च जम्बूद्वीपे तथाष्टसु ।
शाकद्वीपादिषु प्रोक्तो धर्मो वै भारते यथा ॥ ९६ ॥
रसोल्लासा कृते वृत्तिस्त्रेतायां गृहवृक्षजा ।
सैवार्तवकृताद्दोषाद्रागद्वेषादिभिर्नृणाम् ॥ ९७ ॥
मैथुनात्कामतो विप्रास्तथैव परुषादिभिः ।
यवाद्याः सम्प्रजायन्ते ग्राम्यारण्याश्चतुर्दश ॥ ९८ ॥
ओषध्यश्च रजोदोषाः स्त्रीणां रागादिभिर्नृणाम् ।
अकालकृष्टा विध्वस्ताः पुनरुत्पादितास्तथा ॥ ९९ ॥
तस्मात् सर्वप्रयत्नेन न सम्भाष्या रजस्वला ।
प्रथमेऽहनि चाण्डाली यथा वर्ज्या तथाङ्गना ॥ १०० ॥
द्वितीयेऽहनि विप्रा हि यथा वै ब्रह्मघातिनी ।
तृतीयेऽह्नि तदर्धेन चतुर्थेऽहनि सुव्रताः ॥ १०१ ॥
स्नात्वार्धमासात्संशुद्धा ततः शुद्धिर्भविष्यति ।
आषोडशात्ततः स्त्रीणां मूत्रवच्छौचमिष्यते ॥ १०२ ॥
पञ्चरात्रं तथास्पृश्या रजसा वर्तते यदि ।
सा विंशद्दिवसादूर्ध्वं रजसा पूर्ववत्तथा ॥ १०३ ॥
स्नानं शौचं तथा गानं रोदनं हसनं तथा ।
यानमभ्यञ्जनं नारी द्यूतं चैवानुलेपनम् ॥ १०४ ॥
दिवास्वप्नं विशेषेण तथा वै दन्तधावनम् ।
मैथुनं मानसं वापि वाचिकं देवतार्चनम् ॥ १०५ ॥
वर्जयेत् सर्वयत्नेन नमस्कारं रजस्वला ।
रजस्वलाङ्गनास्पर्श सम्भाषे च रजस्वला ॥ १०६ ॥
सन्त्यागं चैव वस्त्राणां वर्जयेत् सर्वयत्नतः ।
स्नात्वान्यपुरुषं नारी न स्पृशेत्तु रजस्वला ॥ १०७ ॥
ईक्षयेद्भास्करं देवं ब्रह्मकूर्चं ततः पिबेत् ।
केवलं पञ्चगव्यं वा क्षीरं वा चात्मशुद्धये ॥ १०८ ॥
चतुर्थ्यां स्त्री न गम्या तु गतोऽल्पायुः प्रसूयते ।
विद्याहीनं व्रतभ्रष्टं पतितं पारदारिकम् ॥ १०९ ॥
दारिद्र्यार्णवमग्नं च तनयं सा प्रसूयते ।
कन्यार्थिनैव गन्तव्या पञ्चम्यां विधिवत् पुनः ॥ ११० ॥
रक्ताधिक्याद्भवेन्नारी शुक्राधिक्ये भवेत् पुमान् ।
समे नपुंसकं चैव पञ्चम्यां कन्यका भवेत् ॥ १११ ॥
षष्ठ्यां गम्या महाभागा सत्पुत्रजननी भवेत् ।
पुत्रत्वं व्यञ्जयेत्तस्य जातपुत्रो महाद्युतिः ॥ ११२ ॥
पुमिति नरकस्याख्या दुःखं च नरकं विदुः ।
पुंसस्त्राणान्वितं पुत्रं तथाभूतं प्रसूयते ॥ ११३ ॥
सप्तम्यां चैव कन्यार्थी गच्छेत्सैव प्रसूयते ।
अष्टम्यां सर्वसम्पन्नं तनयं सम्प्रसूयते ॥ ११४ ॥
नवम्यां दारिकायार्थी दशम्यां पण्डितो भवेत् ।
एकादश्यां तथा नारीं जनयेत्सैव पूर्ववत् ॥ ११५ ॥
द्वादश्यां धर्मतत्त्वज्ञं श्रौतस्मार्तप्रवर्तकम् ।
त्रयोदश्यां जडां नारीं सर्वसङ्करकारिणीम् ॥ ११६ ॥
जनयत्यङ्गना यस्मान्न गच्छेत् सर्वयत्नतः ।
चतुर्दश्यां यदा गच्छेत्सा पुत्रजननी भवेत् ॥ ११७ ॥
पञ्चदश्यां च धर्मिष्ठां षोडश्यां ज्ञानपारगम् ।
स्त्रीणां वै मैथुने काले वामपार्श्वे प्रभञ्जनः ॥ ११८ ॥
चरेद्यदि भवेन्नारी पुमांसं दक्षिणे लभेत् ।
स्त्रीणां मैथुनकाले तु पापग्रहविवर्जिते ॥ ११९ ॥
उक्तकाले शुचिर्भूत्वा शुद्धां गच्छेच्छुचिस्मिताम् ।
इत्येवं सम्प्रसङ्गेन यतीनां धर्मसङ्ग्रहे ॥ १२० ॥
सर्वेषामेव भूतानां सदाचारः प्रकीर्तितः ।
यः पठेच्छृणुयाद्वापि सदाचारं शुचिर्नरः ॥ १२१ ॥
श्रावयेद्वा यथान्यायं ब्राह्मणान् दग्धकिल्बिषान् ।
ब्रह्मलोकमनुप्राप्य ब्रह्मणा सह मोदते ॥ १२२ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सदाचारकथनं नामैकोननवतितमोऽध्यायः ॥ ८९ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-89

कोई टिप्पणी नहीं:

123