श्रीलिङ्गमहापुराण -[पूर्वभाग] -086
॥ श्रीसाम्बसदाशिवाय नमः ॥
छियासीवाँ अध्याय
पाशुपतयोग ज्ञान का स्वरूप तथा उसकी महिमा
श्रीलिङ्गमहापुराणे पूर्वभागे षडशीतितमोऽध्यायः
संसारविषकथनं
॥ ऋषय ऊचुः ॥
जपाच्छ्रेष्ठतमं प्राहुर्ब्राह्मणा दग्धकिल्विषाः ।
विरक्तानां प्रबुद्धानां ध्यानयज्ञं सुशोभनम् ॥ १ ॥
तस्माद्वदस्व सूताद्य ध्यानयज्ञमशेषतः ।
विस्तारात् सर्वयत्नेन विरक्तानां महात्मनाम् ॥ २ ॥
तेषां तद्वचनं श्रुत्वा मुनीनां दीर्घसत्त्रिणाम् ।
रुद्रेण कथितं प्राह गुहां प्राप्य महात्मनाम् ॥ ३ ॥
संहृत्य कालकूटाख्यं विषं वै विश्वकर्मणा ।
॥ सूत उवाच ॥
गुहां प्राप्य सुखासीनं भवान्या सह शङ्करम् ॥ ४ ॥
मुनयः संशितात्मानः प्रणेमुस्तं गुहाश्रयम् ।
अस्तुवंश्च ततः सर्वे नीलकण्ठमुमापतिम् ॥ ५ ॥
अत्युग्रं कालकूटाख्यं संहृतं भगवंस्त्वया ।
अतः प्रतिष्ठितं सर्वं त्वया देव वृषध्वज ॥ ६ ॥
तेषां तद्वचनं श्रुत्वा भगवान्नीललोहितः ।
प्रहसन् प्राह विश्वात्मा सनन्दनपुरोगमान् ॥ ७ ॥
किमनेन द्विजश्रेष्ठा विषं वक्ष्ये सुदारुणम् ।
संहरेत्तद्विषं यस्तु स समर्थो ह्यनेन किम् ॥ ८ ॥
न विषं कालकूटाख्यं संसारो विषमुच्यते ।
तस्मात् सर्वप्रयत्नेन संहरेत सुदारुणम् ॥ ९ ॥
संसारो द्विविधः प्रोक्तः स्वाधिकारानुरूपतः ।
पुंसां सम्मूढचित्तानामसङ्क्षीणः सुदारुणः ॥ १० ॥
ईषणारागदोषेण सर्गो ज्ञानेन सुव्रताः ।
तद्वशादेव सर्वेषां धर्माधर्मौ न संशयः ॥ ११ ॥
असन्निकृष्टे त्वर्थेऽपि शास्त्रं तच्छ्रवणात्सताम् ।
बुद्धिमुत्पादयत्येव संसारे विदुषां द्विजाः ॥ १२ ॥
तस्माद्दृष्टानुश्रविकं दुष्टमित्युभयात्मकम् ।
सन्त्यजेत्सर्वयत्नेन विरक्तः सोऽभिधीयते ॥ १३ ॥
शास्त्रमित्युच्यते भागं श्रुतेः कर्मसु तद् द्विजाः ।
मूर्धानं ब्रह्मणः सारमृषीणां कर्मणः फलम् ॥ १४ ॥
ननु स्वभावः सर्वेषां कामो दृष्टो न चान्यथा ।
श्रुतिः प्रवर्तिका तेषामिति कर्मण्यतद्विदः ॥ १५ ॥
निवृत्तिलक्षणो धर्मः समर्थानामिहोच्यते ।
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ॥ १६ ॥
कला संशोषमायाति कर्मणान्यस्वभावतः ।
सकलस्त्रिविधो जीवो ज्ञानहीनस्त्वविद्यया ॥ १७ ॥
नारकी पापकृत्स्वर्गी पुण्यकृत्पुण्यगौरवात् ।
व्यतिमिश्रेण वै जीवश्चतुर्धा संव्यवस्थितः ॥ १८ ॥
उद्भिज्जः स्वेदजश्चैव अण्डजो वै जरायुजः ।
एवं व्यवस्थितो देही कर्मणाज्ञो ह्यनिर्वृतः ॥ १९ ॥
प्रजया कर्मणा मुक्तिर्धनेन च सतां न हि ।
त्यागेनैकेन मुक्तिः स्यात्तदभावाद्भ्रमत्यसौ ॥ २० ॥
एवमज्ञानदोषेण नानाकर्मवशेन च ।
षट्कौशिकं समुद्भूतं भजत्येष कलेवरम् ॥ २१ ॥
गर्भे दुःखान्यनेकानि योनिमार्गे च भूतले ।
कौमारे यौवने चैव वार्द्धके मरणेऽपि वा ॥ २२ ॥
विचारतः सतां दुःखं स्त्रीसंसर्गादिभिर्द्विजाः ।
दुःखेनैकेन वै दुःखं प्रशाम्यतीह दुःखिनः ॥ २३ ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ २४ ॥
तस्माद्विचारतो नास्ति संयोगादपि वै नृणाम् ।
अर्थानामर्जनेऽप्येवं पालने च व्यये तथा ॥ २५ ॥
पैशाचे राक्षसे दुःखं याक्षे चैव विचारतः ।
गान्धर्वे च तथा चान्द्रे सौम्यलोके द्विजोत्तमाः ॥ २६ ॥
प्राजापत्ये तथा ब्राह्मे प्राकृते पौरुषे तथा ।
क्षयसातिशयाद्यैस्तु दुःखैर्दुःखानि सुव्रताः ॥ २७ ॥
तानि भाग्यान्यशुद्धानि सन्त्यजेच्च धनानि च ।
तस्मादष्टगुणं भोगं तथा षोडशधा स्थितम् ॥ २८ ॥
चतुर्विंशत् प्रकारेण संस्थितं चापि सुव्रताः ।
द्वात्रिंशद्भेदमनघाश्चत्वारिंशद्गुणं पुनः ॥ २९ ॥
तथाष्टचत्वारिंशच्च षट्पञ्चाशत् प्रकारतः ।
चतुःषष्टिविधं चैव दुःखमेव विवेकिनः ॥ ३० ॥
पार्थिवं च तथाप्यं च तैजसं च विचारतः ।
वायव्यं च तथा व्यौम मानसं च यथाक्रमम् ॥ ३१ ॥
आभिमानिकमप्येवं बौद्धं प्राकृतमेव च ।
दुःखमेव न सन्देहो योगिनां ब्रह्मवादिनाम् ॥ ३२ ॥
गौणं गणेश्वराणां च दुःखमेव विचारतः ।
आदौ मध्ये तथा चान्ते सर्वलोकेषु सर्वदा ॥ ३३ ॥
वर्तमानानि दुःखानि भविष्याणि यथातथम् ।
दोषदुष्टेषु देशेषु दुःखानि विविधानि च ॥ ३४ ॥
न भावयन्त्यतीतानि ह्यज्ञाने ज्ञानमानिनः ।
क्षुद्व्याधेः परिहारार्थं न सुखायान्नमुच्यते ॥ ३५ ॥
यथेतरेषां रोगाणामौषधं न सुखाय तत् ।
शीतोष्णवातवर्षाद्यैस्तत्तत्कालेषु देहिनाम् ॥ ३६ ॥
दुःखमेव न सन्देहो न जानन्ति ह्यपण्डिताः ।
स्वर्गेऽप्येवं मुनिश्रेष्ठा ह्यविशुद्धक्षयादिभिः ॥ ३७ ॥
रोगैर्नानाविधैर्ग्रस्ता रागद्वेषभयादिभिः ।
छिन्नमूलतरुर्यद्वदवशः पतति क्षितौ ॥ ३८ ॥
पुण्यवृक्षक्षयात्तद्वद् गां पतन्ति दिवौकसः ।
दुःखाभिलाषनिष्ठानां दुःखभोगादिसम्पदाम् ॥ ३९ ॥
अस्मात्तु पततां दुःखं कष्टं स्वर्गाद्दिवौकसाम् ।
नरके दुःखमेवात्र नरकाणां निषेवणात् ॥ ४० ॥
विहिताकरणाच्चैव वर्णिनां मुनिपुङ्गवाः ॥ ४१ ॥
यथा मृगो मृत्युभयस्य भीत उच्छिन्नवासो न लभेत निद्राम् ।
एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥ ४२ ॥
कीटपक्षिमृगाणां च पशूनां गजवाजिनाम् ।
दृष्टमेवासुखं तस्मात्त्यजतः सुखमुत्तमम् ॥ ४३ ॥
वैमानिकानामप्येवं दुःखं कल्पाधिकारिणाम् ।
स्थानाभिमानिनां चैव मन्वादीनां च सुव्रताः ॥ ४४ ॥
देवानां चैव दैत्यानामन्योन्यविजिगीषया ।
दुःखमेव नृपाणां च राक्षसानां जगत्त्रये ॥ ४५ ॥
श्रमार्थमाश्रमश्चापि वर्णानां परमार्थतः ।
आश्रमैर्न च देवैश्च यज्ञैः सांख्यैर्व्रतैस्तथा ॥ ४६ ॥
उग्रैस्तपोभिर्विविधैर्दानैर्नानाविधैरपि ।
न लभन्ते तथात्मानं लभन्ते ज्ञानिनः स्वयम् ॥ ४७ ॥
तस्मात् सर्वप्रयत्नेन चरेत् पाशुपतव्रतम् ।
भस्मशायी भवेन्नित्यं व्रते पाशुपते बुधः ॥ ४८ ॥
पञ्चार्थज्ञानसम्पन्नः शिवतत्त्वे समाहितः ।
कैवल्यकरणं योग विधिकर्मच्छिदं बुधः ॥ ४९ ॥
पञ्चार्थयोगसम्पन्नो दुःखान्तं व्रजते सुधीः ।
परया विद्यया वेद्यं विदन्त्यपरया न हि ॥ ५० ॥
द्वे विद्ये वेदितव्ये हि परा चैवापरा तथा ।
अपरा तत्र ऋग्वेदो यजुर्वेदो द्विजोत्तमाः ॥ ५१ ॥
सामवेदस्तथाथर्वो वेदः सर्वार्थसाधकः ।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च ॥ ५२ ॥
ज्योतिषं चापरा विद्या पराक्षरमिति स्थितम् ।
तददृश्यं तदग्राह्यमगोत्रं तदवर्णकम् ॥ ५३ ॥
तदचक्षुस्तदश्रोत्रं तदपाणि अपादकम् ।
तदजातमभूतं च तदशब्दं द्विजोत्तमाः ॥ ५४ ॥
अस्पर्शं तदरूपं च रसगन्धविवर्जितम् ।
अव्ययं चाप्रतिष्ठं च तन्नित्यं सर्वगं विभुम् ॥ ५५ ॥
महान्तं तद्बृहन्तं च तदजं चिन्मयं द्विजाः ।
अप्राणममनस्कं च तदस्निग्धमलोहितम् ॥ ५६ ॥
अप्रमेयं तदस्थूलमदीर्घं तदनुल्बणम् ।
अह्रस्वं तदपारं च तदानन्दं तदच्युतम् ॥ ५७ ॥
अनपावृतमद्वैतं तदनन्तमगोचरम् ।
असंवृतं तदात्मैकं परा विद्या न चान्यथा ॥ ५८ ॥
परापरेति कथिते नैवेह परमार्थतः ।
अहमेव जगत् सर्वं मय्येव सकलं जगत् ॥ ५९ ॥
मत्त उत्पद्यते तिष्ठन्मयि मय्येव लीयते ।
मत्तो नान्यदितीक्षेत मनोवाक्पाणिभिस्तथा ॥ ६० ॥
सर्वमात्मनि सम्पश्येत्सच्चासच्च समाहितः ।
सर्वं ह्यात्मनि सम्पश्यन्न बाह्ये कुरुते मनः ॥ ६१ ॥
अधोदृष्ट्या वितस्त्यां तु नाभ्यामुपरितिष्ठति ।
हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ ६२ ॥
हृदयस्यास्य मध्ये तु पुण्डरीकमवस्थितम् ।
धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ ६३ ॥
ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ।
छिद्राणि च दिशो यस्य प्राणाद्याश्च प्रतिष्ठिताः ॥ ६४ ॥
प्राणाद्यैश्चैव संयुक्तः पश्यते बहुधा क्रमात् ।
दशप्राणवहा नाड्यः प्रत्येकं मुनिपुङ्गवाः ॥ ६५ ॥
द्विसप्ततिसहस्राणि नाड्यः सम्परिकीर्तिताः ।
नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं समादिशेत् ॥ ६६ ॥
सुषुप्तं हृदयस्थं तु तुरीयं मूर्धनि स्थितम् ।
जाग्रे ब्रह्मा च विष्णुश्च स्वप्ने चैव यथाक्रमात् ॥ ६७ ॥
ईश्वरस्तु सुषुप्ते तु तुरीये च महेश्वरः ।
वदन्त्येवमथान्येऽपि समस्तकरणैः पुमान् ॥ ६८ ॥
वर्तमानस्तदा तस्य जाग्रदित्यभिधीयते ।
मनोबुद्धिरहङ्कारं चित्तं चेति चतुष्टयम् ॥ ६९ ॥
यदा व्यवस्थितस्त्वेतैः स्वप्न इत्यभिधीयते ।
करणानि विलीनानि यदा स्वात्मनि सुव्रताः ॥ ७० ॥
सुषुप्तः करणैर्भिन्नस्तुरीयः परिकीर्त्यते ।
परस्तुरीयातीतोऽसौ शिवः परमकारणम् ॥ ७१ ॥
जाग्रत्स्वप्नसुषुप्तिश्च तुरीयं चाधिभौतिकम् ।
आध्यात्मिकं च विप्रेन्द्राश्चाधिदैविकमुच्यते ॥ ७२ ॥
तत्सर्वमहमेवेति वेदितव्यं विजानता ।
बुद्धीन्द्रियाणि विप्रेन्द्रास्तथा कर्मेन्द्रियाणि च ॥ ७३ ॥
मनोबुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ।
अध्यात्मं पृथगेवेदं चतुर्दशविधं स्मृतम् ॥ ७४ ॥
द्रष्टव्यं चैव श्रोतव्यं घ्रातव्यं च यथाक्रमम् ।
रसितव्यं मुनिश्रेष्ठाः स्पर्शितव्यं तथैव च ॥ ७५ ॥
मन्तव्यं चैव बोद्धव्यमहंकर्तव्यमेव च ।
तथा चेतयितव्यं च वक्तव्यं मुनिपुङ्गवाः ॥ ७६ ॥
आदातव्यं च गन्तव्यं विसर्गायितमेव च ।
आनन्दितव्यमित्येते ह्यधिभूतमनुक्रमात् ॥ ७७ ॥
आदित्योऽपि दिशश्चैव पृथिवी वरुणस्तथा ।
वायुश्चन्द्रस्तथा ब्रह्मा रुद्रः क्षेत्रज्ञ एव च ॥ ७८ ॥
अग्निरिन्द्रस्तथा विष्णुर्मित्रो देवः प्रजापतिः ।
आधिदैविकमेवं हि चतुर्दशविधं क्रमात् ॥ ७९ ॥
राज्ञी सुदर्शना चैव जिता सौम्या यथाक्रमम् ।
मोघा रुद्रामृता सत्या मध्यमा च द्विजोत्तमाः ॥ ८० ॥
नाडी राशिशुका चैव असुरा चैव कृत्तिका ।
भास्वती नाडयश्चैताश्चतुर्दश निबन्धनाः ॥ ८१ ॥
वायवो नाडिमध्यस्था वाहकाश्च चतुर्दश ।
प्राणो व्यानस्त्वपानश्च उदानश्च समानकः ॥ ८२ ॥
वैरम्भश्च तथा मुख्यो ह्यन्तर्यामः प्रभञ्जनः ।
कूर्मकश्च तथा श्येनः श्वेतः कृष्णस्तथानिलः ॥ ८३ ॥
नाग इत्येव कथिता वायवश्च चतुर्दश ।
यश्चक्षुःष्वथ द्रष्टव्ये तथादित्ये च सुव्रताः ॥ ८४ ॥
नाड्यां प्राणे च विज्ञाने त्वानन्दे च यथाक्रमम् ।
हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे परः ॥ ८५ ॥
आत्मा एकश्च चरति तमुपासीत मां प्रभुम् ।
अजरं तमनन्तं च अशोकममृतं ध्रुवम् ॥ ८६ ॥
चतुर्दशविधेष्वेव संचरत्येक एव सः ।
लीयन्ते तानि तत्रैव यदन्यं नास्ति वै द्विजाः ॥ ८७ ॥
एक एव हि सर्वज्ञः सर्वेशस्त्वेक एव सः ।
एष सर्वाधिपो देवस्त्वन्तर्यामी महाद्युतिः ॥ ८८ ॥
उपास्यमानः सर्वस्य सर्वसौख्यः सनातनः ।
उपास्यति न चैवेह सर्वसौख्यं द्विजोत्तमाः ॥ ८९ ॥
उपास्यमानो वेदैश्च शास्त्रैर्नानाविधैरपि ।
न वैष वेदशास्त्राणि सर्वज्ञो यास्यति प्रभुः ॥ ९० ॥
अस्यैवान्नमिदं सर्वं न सोऽन्नं भवति स्वयम् ।
स्वात्मना रक्षितं चाद्यादन्नभूतं न कुत्रचित् ॥ ९१ ॥
सर्वत्र प्राणिनामन्नं प्राणिनां ग्रन्थिरस्म्यहम् ।
प्रशास्ता नयनश्चैव पञ्चात्मा स विभागशः ॥ ९२ ॥
अन्नमयोऽसौ भूतात्मा चाद्यते ह्यन्नमुच्यते ।
प्राणमयश्चेन्द्रियात्मा सङ्कल्पात्मा मनोमयः ॥ ९३ ॥
कालात्मा सोम एवेह विज्ञानमय उच्यते ।
सदानन्दमयो भूत्वा महेशः परमेश्वरः ॥ ९४ ॥
सोऽहमेवं जगत् सर्वं मय्येव सकलं स्थितम् ।
परतन्त्रं स्वतन्त्रेऽपि तदभावाद्विचारतः ॥ ९५ ॥
एकत्वमपि नास्त्येव द्वैतं तत्र कुतस्त्वहो ।
एवं नास्त्यथ मर्त्यं च कुतोऽमृतमजोद्भवः ॥ ९६ ॥
नान्तःप्रज्ञो बहिःप्रज्ञो न चोभयगतस्तथा ।
न प्रज्ञानघनस्त्वेवं न प्राज्ञो ज्ञानपूर्वकः ॥ ९७ ॥
विदितं नास्ति वेद्यं च निर्वाणं परमार्थतः ।
निर्वाणं चैव कैवल्यं निःश्रेयसमनामयम् ॥ ९८ ॥
अमृतं चाक्षरं ब्रह्म परमात्मा परापरम् ।
निर्विकल्पं निराभासं ज्ञानं पर्यायवाचकम् ॥ ९९ ॥
प्रसन्नं च यदेकाग्रं तदा ज्ञानमिति स्मृतम् ।
अज्ञानमितरत्सर्वं नात्र कार्या विचारणा ॥ १०० ॥
इत्थं प्रसन्नं विज्ञानं गुरुसम्पर्कजं ध्रुवम् ।
रागद्वेषानृतक्रोधं कामतृष्णादिभिः सदा ॥ १०१ ॥
अपरामृष्टमद्यैव विज्ञेयं मुक्तिदं त्विदम् ।
अज्ञानमलपूर्वत्वात्पुरुषो मलिनः स्मृतः ॥ १०२ ॥
तत्क्षयाद्धि भवेन्मुक्तिर्नान्यथा जन्मकोटिभिः ।
ज्ञानमेकं विना नास्ति पुण्यपापपरिक्षयः ॥ १०३ ॥
ज्ञानमेवाभ्यसेत्तस्मान्मुक्त्यर्थं ब्रह्मवित्तमाः ।
ज्ञानाभ्यासाद्धि वै पुंसां बुद्धिर्भवति निर्मला ॥ १०४ ॥
तस्मात्सदाभ्यसेज्ज्ञानं तन्निष्ठस्तत्परायणः ।
ज्ञानेनैकेन तृप्तस्य त्यक्तसङ्गस्य योगिनः ॥ १०५ ॥
कर्तव्यं नास्ति विप्रेन्द्रा अस्ति चेत्तत्त्वविन्न च ।
इह लोके परे चापि कर्तव्यं नास्ति तस्य वै ॥ १०६ ॥
जीवन्मुक्तो यतस्तस्माद् ब्रह्मवित्परमार्थतः ।
ज्ञानाभ्यासरतो नित्यं ज्ञानतत्त्वार्थवित्स्वयम् ॥ १०७ ॥
कर्तव्याभ्यासमुत्सृज्य ज्ञानमेवाधिगच्छति ।
वर्णाश्रमाभिमानी यस्त्यक्तक्रोधो द्विजोत्तमाः ॥ १०८ ॥
अन्यत्र रमते मूढः सोऽज्ञानी नात्र संशयः ।
संसारहेतुरज्ञानं संसारस्तनुसङ्ग्रहः ॥ १०९ ॥
मोक्षहेतुस्तथा ज्ञानं मुक्तः स्वात्मन्यवस्थितः ।
अज्ञाने सति विप्रेन्द्राः क्रोधाद्या नात्र संशयः ॥ ११० ॥
क्रोधो हर्षस्तथा लोभो मोहो दम्भो द्विजोत्तमाः ।
धर्माधर्मौ हि तेषां च तद्वशात्तनुसङ्ग्रहः ॥ १११ ॥
शरीरे सति वै क्लेशः सोऽविद्यां सन्त्यजेद्बुधः ।
अविद्यां विद्यया हित्वा स्थितस्यैव च योगिनः ॥ ११२ ॥
क्रोधाद्या नाशमायान्ति धर्माधर्मौ च वै द्विजाः ।
तत्क्षयाच्च शरीरेण न पुनः सम्प्रयुज्यते ॥ ११३ ॥
स एव मुक्तः संसाराद्दुःखत्रयविवर्जितः ।
एवं ज्ञानं विना नास्ति ध्यानं ध्यातुर्द्विजर्षभाः ॥ ११४ ॥
ज्ञानं गुरोर्हि सम्पर्कान्न वाचा परमार्थतः ।
चतुर्व्यूहमिति ज्ञात्वा ध्याता ध्यानं समभ्यसेत् ॥ ११५ ॥
सहजागन्तुकं पापमस्थिवागुद्भवं तथा ।
ज्ञानाग्निर्दहते क्षिप्रं शुष्केन्धनमिवानलः ॥ ११६ ॥
ज्ञानात्परतरं नास्ति सर्वपापविनाशनम् ।
अभ्यसेच्च सदा ज्ञानं सर्वसङ्गविवर्जितः ॥ ११७ ॥
ज्ञानिनः सर्वपापानि जीर्यन्ते नात्र संशयः ।
क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि ॥ ११८ ॥
ज्ञानं यथा तथा ध्यानं तस्माद्ध्यानं समभ्यसेत् ।
ध्यानं निर्विषयं प्रोक्तमादौ सविषयं तथा ॥ ११९ ॥
षट्प्रकारं समभ्यस्य चतुःषड्दशभिस्तथा ।
तथा द्वादशधा चैव पुनः षोडशधा क्रमात् ॥ १२० ॥
द्विधाभ्यस्य च योगीन्द्रो मुच्यते नात्र संशयः ।
शुद्धजाम्बूनदाकारं विधूमाङ्गारसन्निभम् ॥ १२१ ॥
पीतं रक्तं सितं विद्युत्कोटिकोटिसमप्रभम् ।
अथवा ब्रह्मरन्ध्रस्थं चित्तं कृत्वा प्रयत्नतः ॥ १२२ ॥
न सितं वासितं पीतं न स्मरेद् ब्रह्मविद्भवेत् ।
अहिंसकः सत्यवादी अस्तेयी सर्वयत्नतः ॥ १२३ ॥
परिग्रहविनिर्मुक्तो ब्रह्मचारी दृढव्रतः ।
सन्तुष्टः शौचसम्पन्नः स्वाध्यायनिरतः सदा ॥ १२४ ॥
मद्रक्तश्चाभ्यसेद्ध्यानं गुरुसम्पर्कजं ध्रुवम् ।
न बुध्यति तथा ध्याता स्थाप्य चित्तं द्विजोत्तमाः ॥ १२५ ॥
न चाभिमन्यते योगी न पश्यति समन्ततः ।
न घ्राति न शृणोत्येव लीनः स्वात्मनि यः स्वयम् ॥ १२६ ॥
न च स्पर्शं विजानाति स वै समरसः स्मृतः ।
पार्थिवे पटले ब्रह्मा वारितत्त्वे हरिः स्वयम् ॥ १२७ ॥
वाह्नेये कालरुद्राख्यो वायुतत्त्वे महेश्वरः ।
सुषिरे स शिवः साक्षात्क्रमादेवं विचिन्तयेत् ॥ १२८ ॥
क्षितौ शर्वः स्मृतो देवो ह्यपां भव इति स्मृतः ।
रुद्र एव तथा वह्नौ उग्रो वायौ व्यवस्थितः ॥ १२९ ॥
भीमः सुषिरनाकेऽसौ भास्करे मण्डले स्थितः ।
ईशानः सोमबिम्बे च महादेव इति स्मृतः ॥ १३० ॥
पुंसां पशुपतिर्देवश्चाष्टधाहं व्यवस्थितः ।
काठिन्यं यत्तनौ सर्वं पार्थिवं परिगीयते ॥ १३१ ॥
आप्यं द्रवमिति प्रोक्तं वर्णाख्यो वह्निरुच्यते ।
यत्सञ्चरति तद्वायुः सुषिरं यद् द्विजोत्तमाः ॥ १३२ ॥
तदाकाशं च विज्ञानं शब्दजं व्योमसम्भवम् ।
तथैव विप्रा विज्ञानं स्पर्शाख्यं वायुसम्भवम् ॥ १३३ ॥
रूपं वाह्नेयमित्युक्तमाप्यं रसमयं द्विजाः ।
गन्धाख्यं पार्थिवं भूयश्चिन्तयेद्भास्करं क्रमात् ॥ १३४ ॥
नेत्रे च दक्षिणे वामे सोमं हृदि विभुं द्विजाः ।
आजानु पृथिवीतत्त्वमानाभेर्वारिमण्डलम् ॥ १३५ ॥
आकण्ठं वह्नितत्त्वं स्याल्ललाटान्तं द्विजोत्तमाः ।
वायव्यं वै ललाटाद्यं व्योमाख्यं वा शिखाग्रकम् ॥ १३६ ॥
हंसाख्यं च ततो ब्रह्म व्योम्नश्चोर्ध्वं ततः परम् ।
व्योमाख्यो व्योममध्यस्थो ह्ययं प्राथमिकः स्मरेत् ॥ १३७ ॥
न जीवः प्रकृतिः सत्त्वं रजश्चाथ तमः पुनः ।
महांस्तथाभिमानश्च तन्मात्राणीन्द्रियाणि च ॥ १३८ ॥
व्योमादीनि च भूतानि नैवेह परमार्थतः ।
व्याप्य तिष्ठद्यतो विश्वं स्थाणुरित्यभिधीयते ॥ १३९ ॥
उदेति सूर्यो भीतश्च पवते वात एव च ।
द्योतते चन्द्रमा वह्निर्ज्वलत्यापो वहन्ति च ॥ १४० ॥
दधाति भूमिराकाशमवकाशं ददाति च ।
तदाज्ञया ततं सर्वं तस्माद्वै चिन्तयेद् द्विजाः ॥ १४१ ॥
तेनैवाधिष्ठितं तस्मादेतत्सर्वं द्विजोत्तमाः ।
सर्वरूपमयः शर्व इति मत्वा स्मरेद्भवम् ॥ १४२ ॥
संसारविषतप्तानां ज्ञानध्यानामृतेन वै ।
प्रतीकारः समाख्यातो नान्यथा द्विजसत्तमाः ॥ १४३ ॥
ज्ञानं धर्मोद्भवं साक्षाज्ज्ञानाद्वैराग्यसम्भवः ।
वैराग्यात्परमं ज्ञानं परमार्थप्रकाशकम् ॥ १४४ ॥
ज्ञानवैराग्ययुक्तस्य योगसिद्धिर्द्विजोत्तमाः ।
योगसिद्ध्या विमुक्तिः स्यात्सत्त्वनिष्ठस्य नान्यथा ॥ १४५ ॥
तमोविद्यापदच्छन्नं चित्रं यत्पदमव्ययम् ।
सत्त्वशक्तिं समास्थाय शिवमभ्यर्चयेद् द्विजाः ॥ १४६ ॥
यः सत्त्वनिष्ठो मद्भक्तो मदर्चनपरायणः ।
सर्वतो धर्मनिष्ठश्च सदोत्साही समाहितः ॥ १४७ ॥
सर्वद्वन्द्वसहो धीरः सर्वभूतहिते रतः ।
ऋजुस्वभावः सततं स्वस्थचित्तो मृदुः सदा ॥ १४८ ॥
अमानी बुद्धिमाञ्छान्तस्त्यक्तस्पर्धो द्विजोत्तमाः ।
सदा मुमुक्षुर्धर्मज्ञः स्वात्मलक्षणलक्षणः ॥ १४९ ॥
ऋणत्रयविनिर्मुक्तः पूर्वजन्मनि पुण्यभाक् ।
जरायुक्तो द्विजो भूत्वा श्रद्धया च गुरोः क्रमात् ॥ १५० ॥
अन्यथा वापि शुश्रूषां कृत्वा कृत्रिमवर्जितः ।
स्वर्गलोकमनुप्राप्य भुक्त्वा भोगाननुक्रमात् ॥ १५१ ॥
आसाद्य भारतं वर्षं ब्रह्मविज्जायते द्विजाः ।
सम्पर्काज्ज्ञानमासाद्य ज्ञानिनो योगविद्भवेत् ॥ १५२ ॥
क्रमोऽयं मलपूर्णस्य ज्ञानप्राप्तेर्द्विजोत्तमाः ।
तस्मादनेन मार्गेण त्यक्तसङ्गो दृढव्रतः ॥ १५३ ॥
संसारकालकूटाख्यान्मुच्यते मुनिपुङ्गवाः ।
एवं सङ्क्षेपतः प्रोक्तं मया युष्माकमच्युतम् ॥ १५४ ॥
ज्ञानस्यैवेह माहात्म्यं प्रसङ्गादिह शोभनम् ।
एवं पाशुपतं योगं कथितं त्वीश्वरेण तु ॥ १५५ ॥
न देयं यस्य कस्यापि शिवोक्तं मुनिपुङ्गवाः ।
दातव्यं योगिने नित्यं भस्मनिष्ठाय सुप्रियम् ॥ १५६ ॥
यः पठेच्छृणुयाद्वापि संसारशमनं नरः ।
स याति ब्रह्मसायुज्यं नात्र कार्या विचारणा ॥ १५७ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे संसारविषकथनं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें