श्रीलिङ्गमहापुराण -[पूर्वभाग] -087
॥ श्रीसाम्बसदाशिवाय नमः ॥
अध्याय सत्तासीवाँ
सनकादि मुनीश्वरों को शिवज्ञान का उपदेश
श्रीलिङ्गमहापुराणे पूर्वभागे सप्ताशीतितमोऽध्यायः
मुनिमोहशमनं
॥ सूत उवाच ॥
निशम्य ते महाप्राज्ञाः कुमाराद्याः पिनाकिनम् ।
प्रोचुः प्रणम्य वै भीताः प्रसन्नं परमेश्वरम् ॥ १ ॥
एवं चेदनया देव्या हैमवत्या महेश्वर ।
क्रीडसे विविधैर्भोगैः कथं वक्तुमिहार्हसि ॥ २ ॥
॥ सूत उवाच ॥
एवमुक्तः प्रहस्येशः पिनाकी नीललोहितः ।
प्राह तामम्बिकां प्रेक्ष्य प्रणिपत्य स्थितान् द्विजान् ॥ ३ ॥
बन्धमोक्षौ न चैवेह मम स्वेच्छा शरीरिणः ।
अकर्ताज्ञः पशुर्जीवो विभुर्भोक्ता ह्यणुः पुमान् ॥ ४ ॥
मायी च मायया बद्धः कर्मभिर्युज्यते तु सः ।
ज्ञानं ध्यानं च बन्धश्च मोक्षो नास्त्यात्मनो द्विजाः ॥ ५ ॥
यदैवं मयि विद्वान् यस्तस्यापि न च सर्वतः ।
एषा विद्या ह्यहं वेद्यः प्रज्ञैषा च श्रुतिः स्मृतिः ॥ ६ ॥
धृतिरेषा मया निष्ठा ज्ञानशक्तिः क्रिया तथा ।
इच्छाख्या च तथा ह्याज्ञा द्वे विद्ये न च संशयः ॥ ७ ॥
न ह्येषा प्रकृतिर्जैवी विकृतिश्च विचारतः ।
विकारो नैव मायैषा सदसद्व्यक्तिवर्जिता ॥ ८ ॥
पुरा ममाज्ञा मद्वक्त्रात्समुत्पन्ना सनातनी ।
पञ्चवक्त्रा महाभागा जगतामभयप्रदा ॥ ९ ॥
तामाज्ञां सम्प्रविश्याहं चिन्तयन् जगतां हितम् ।
सप्तविंशत् प्रकारेण सर्वं व्याप्यानया शिवः ॥ १० ॥
तदाप्रभृति वै मोक्ष प्रवृत्तिर्द्विजसत्तमाः ।
॥ सूत उवाच ॥
एवमुक्त्वा तदापश्यद्भवानीं परमेश्वरः ॥ ११ ॥
भवानी च तमालोक्य मायामहरदव्यया ।
ते मायामलनिर्मुक्ता मुनयः प्रेक्ष्य पार्वतीम् ॥ १२ ॥
प्रीता बभूवुर्मुक्ताश्च तस्मादेषा परा गतिः ।
उमाशङ्करयोर्भेदो नास्त्येव परमार्थतः ॥ १३ ॥
द्विधासौ रूपमास्थाय स्थित एव न संशयः ।
यदा विद्वानसङ्गः स्यादाज्ञया परमेष्ठिनः ॥ १४ ॥
तदा मुक्तिः क्षणादेव नान्यथा कर्मकोटिभिः ।
क्रमोऽविवक्षितो भूत विवृद्धः परमेष्ठिनः ॥ १५ ॥
प्रसादेन क्षणान्मुक्तिः प्रतिज्ञैषा न संशयः ।
गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा ॥ १६ ॥
वृद्धो वा मुच्यते जन्तुः प्रसादात् परमेष्ठिनः ।
अण्डजश्चोद्भिज्जो वापि स्वेदजो वापि मुच्यते ॥ १७ ॥
प्रसादाद्देवदेवस्य नात्र कार्या विचारणा ।
एष एव जगन्नाथो बन्धमोक्षकरः शिवः ॥ १८ ॥
भूर्भूवःस्वर्महश्चैव जनः साक्षात्तपः स्वयम् ।
सत्यलोकस्तथाण्डानां कोटिकोटिशतानि च ॥ १९ ॥
विग्रहं देवदेवस्य तथाण्डावरणाष्टकम् ।
सप्तद्वीपेषु सर्वेषु पर्वतेषु वनेषु च ॥ २० ॥
समुद्रेषु च सर्वेषु वायुस्कन्धेषु सर्वतः ।
तथान्येषु च लोकेषु वसन्ति च चराचराः ॥ २१ ॥
सर्वे भवांशजा नूनं गतिस्त्वेषां स एव वै ।
सर्वो रुद्रो नमस्तस्मै पुरुषाय महात्मने ॥ २२ ॥
विश्वं भूतं तथा जातं बहुधा रुद्र एव सः ।
रुद्राज्ञैषा स्थिता देवी ह्यनया मुक्तिरम्बिका ॥ २३ ॥
इत्येवं खेचराः सिद्धा जजल्पुः प्रीतमानसाः ।
यदावलोक्य तान् सर्वान् प्रसादादनयाम्बिका ॥ २४ ॥
तदा तिष्ठन्ति सायुज्यं प्राप्तास्ते खेचराः प्रभोः ॥ २५ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे मुनिमोहशमनं नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें